इंद्रप्रस्थांतरावर्तिन्येषा या कोशला नृप । अत्र सुप्तौ निशायां तौ यमुनातीरभूतले
आत्मनोरुभयोर्मध्ये न्यस्यास्थिपटसंपुटम् । मार्गखेदपरिक्रांतौ दशां सौषुप्तिकीं गतौ
निशीथेऽथ प्रसुप्तेषु सार्थलोकेषु कश्चन । एकः श्वा तत्र संप्राप्तः पक्वान्नादि जिहीर्षया
बभ्राम सर्वशिविरे जिघ्रन्पाकस्थलीं मुहुः । भाजनानि लिहन्मूर्ध्नि क्व च दंडाहतिं सहन्
केनचित्ताडितो मूर्ध्नि निशब्दं विद्रुतस्ततः । प्रतिचक्रुमशक्तस्तु स्त्रीजितः स्वस्त्रिया यथा
यत्रावकंडितः स श्वा दंडग्रावेष्टकादिभिः । पुनर्विवेश तत्रैव सान्नपात्रलिलिप्सया
भोगेच्छया यथा वेश्या स्नेहवान्निर्द्धनो जनः । भ्रमन्नेवं स चात्रापि यत्र सुप्तौ हि तावुभौ
सारमेयस्तयोर्मध्याज्जह्रे स पटसंपुटम् । नीत्वा स कियतीं भूमिं दंतैस्तत्पटसंपुटम्
विदार्यास्थीनि तत्स्थानि निर्मांसान्यवलोक्य सः । एतस्याः कोशलायास्तु जलमध्ये समाक्षिपत्
क्षिप्तमात्रेषु तेनास्थिष्वेतदंबुनि भूपते । दिव्यं विमानमास्थाय मुकुंदोऽत्र समागतः
दृष्ट्वा गुर्वनुजौ सुप्तौ शनैः प्राबोधयत्तदा । उवाच च नमस्कृत्य गुंरुं दिव्याकृतिर्नृप
मुकुंद उवाच। वेदायन गुरो तुभ्यं नम आशीस्तवानुज । प्रासादाद्वां ममास्थीनि तीर्थेऽत्र पतितानि वै
अयं मृत्युमहं गत्वा निरयं प्राप्य तत्फलम् । एतत्तीर्थप्रसादेन दैवी लब्धा मया गतिः
त्वां गुरुं तीर्थभूतं तु नमस्कर्तुमिहागतः । अहं गच्छन्विमानेन दिव्येन त्रिदशालयम्
नमस्कृतो भवानेतत्तीर्थ चायं सहोदरः । दृष्टो मामनुजानीहि यामि स्वर्गं सुखोदयम्
नारद उवाच- श्रुत्वैवं वचनं तस्य मुकुंदस्य गुरुस्तदा । वेदायनो विमानस्थं तमूचे गतविस्मयः
देवायन उवाच- मुकुंदाख्याहि मे सत्यं लब्ध्वा यन्मरणं भवान् । कस्मिंल्लोके गतस्तात यतो यात्यधुना दिवम्
किं वृत्तं तत्र ते तात तस्यलोकस्य कोऽधिपः । कीदृशी च प्रजा कीदृक्धर्मस्तत्राखिलं वद
मुकुंद उवाच- कथयामि गुरो तुभ्यं यद्वृत्तं मरणादनु । तीर्थस्यास्य प्रसादेन स्मृतिर्मे जायतेऽधुना
यदाहं तेन निहतश्चंडकेन दुरात्मना । नापितेन तदा जग्मुर्यमभृत्याः सुदारुणाः
पिंगाक्षा रक्तकेशाश्च श्यामदेह नखाधराः । वामना दीर्घचरणा ह्रस्वनासाश्च दंतुराः
नीयतां नीयतामेष धर्मराजस्य शासनात् । पुरीं संयमनीमेवमूचिरे ते परस्परम्
इत्युक्त्वा यातना देहे मां निवेश्य महारुषा । निबध्य दारुणैः पाशैर्जघ्नुर्लोहस्य मुद्गरैः
तैरहं नीयमानस्तु मार्गे ह्युत्तप्तवालुके । अरुदं भृशदुःखार्तस्ताडितोऽहं पुनश्च तैः
प्रोचुश्च ते ध्रुवं कृत्वा निर्भर्त्स्येति च मां बहु । यमदूता ऊचुः । त्वया लुप्तो गुरुर्यस्माद्वदता ब्रह्म निश्चलम्
किं करोषि यमस्याग्रे द्रष्टव्यं दारुणं मुखम् । तस्य पापस्य भोक्तव्यं दारुणस्य फलं त्वया
तेनैव पाप्मना पापिन्नपमृत्युं गतो भवान् । इत्युक्त्वा मां मुहूर्तेन बहुयोजनसंस्थिताम्
पुरीं संयमनीं निन्युर्यत्र राजा स्वयं यमः । प्रणम्य धर्मराजानं स्थापयित्वा तु मां पुरः
आनीतोऽयं द्विजः पाप इति मां ते न्यवेदयन् । दृष्ट्वा मां धर्मराजोऽथ प्रोवाच स्वसभासदः
यम उवाच- भो सभ्या मामकीं वाचं शृण्वंतु सुसमाहिताः । यदाहं ब्रह्मणा ह्यस्मिन्नधिकारे निवेशितः