तेषां किं वा भविष्यति न जानेऽहं द्विजोत्तम । य इदं शृणुयाद्भक्त्या पठेद्यो वा समाहितः
कोटिजन्मार्जितं पापं नश्यत्येव न संशयः
शौनक उवाच- कार्त्तिकस्य च माहात्म्यं ब्रूहि सूत ममाग्रतः । तद्व्रतस्य फलं किं वा दोषं किं तदकुर्वतः
सूत उवाच- पुरैकदा मुनिश्रेष्ठ व्यासं सत्यवतीसुतम् । जैमिनिः पृष्टवानेतदारेभे कथितं मुनिः
व्यास उवाच- तिलतैलं मैथुनं यः शुभदे कार्त्तिके त्यजेत् । बहुजन्मकृतैःपापैर्मुक्तो याति हरेर्गृहम्
मत्स्यं च मैथुनं यो वै कार्त्तिके न परित्यजेत् । प्रतिजन्मनि संमूढः शूकरश्च भवेद्ध्रुवम्
कार्त्तिके तुलसीपत्रैः पूजयेद्वै जनार्दनम् । पत्रेपत्रेऽश्वमेधस्य फलं प्राप्नोति मानवः
कार्त्तिके मुनिपुष्पैर्यः पूजयेन्मधुसूदनम् । देवानां दुर्लभं मोक्षं प्राप्नोति कृपया हरेः
कार्त्तिके मुनिशाकं वै योऽश्नाति च नरोत्तमः । संवत्सरकृतं पापं शाकेनैकेन नश्यति
फलं तस्य नरोऽश्नाति चोर्जे यो वै हरिप्रिये । प्रदत्त्वा तु हरेर्ब्रह्मन्वृजिनं कोटिजन्मजम्
सुरसं सर्पिषायुक्तं दद्याद्यो हरयेपि च । सर्वपापैर्विनिर्मुक्तः स गच्छेद्धरिमंदिरम्
कार्तिके यो नरो दद्यादेकपद्मं हरावपि । अंते विष्णुपदं गच्छेत्सर्वपापविवर्जितः
प्रातःस्नानं नरो यो वै कार्तिके श्रीहरिप्रिये । करोतिसर्वतीर्थेषुयत्स्नात्वातत्फलंलभेत्
कार्तिके यो नरो दद्यात्प्रदीपं नभसि द्विजः । विप्रहत्यादिभिः पापैर्मुक्तो गच्छेद्धरेर्गृहम्
मुहूर्तमपि यो दद्यात्कार्त्तिके प्रीतये हरेः । दीपं नभसि विप्रेन्द्र तस्मिंस्तुष्टः सदा हरिः
यो दद्याच्च गृहे दीपं कृष्णस्य सघृतं द्विजः । कार्तिके चाश्वमेधस्य फलं स्याद्वै दिनेदिने
प्रदीपस्य च माहात्म्यं विशेषमुच्यते मया । निशामय द्विजश्रेष्ठ सेतिहासं समाहितः
पूर्वं त्रेतायुगे विप्रो वैकुंठो नामतः शुचिः । यस्य संगप्रभावेण मुक्तो भवति पातकी
एकदा कार्तिके सोऽपि प्रदीपं पुरतो हरेः । दत्वा गृहं गतो विप्रो घृतपूर्णं द्विजर्षभः
सर्पिस्तत्स्वादितु चाखुरागतोऽपि प्रदीपतः । यावत्खादितुमारेभे बोधितोऽसौ प्रदीपकः
मूषकोऽग्निभयात्तत्र वेगेनापि पलायितः । आखोश्च सकलं पापं विनष्टं कृपया हरेः
सर्पेण दंशितश्चाखुः प्राणत्यागं चकार ह । ततो यमाज्ञया दूताः पाशमुद्गरपाणयः
आगतास्तं समानेतुं बबंधुश्चर्मरज्जुभिः । यावन्नेतुं मनश्चक्रुः शंखचक्रगदाधराः
आगता गरुडारूढा विष्णुदूताश्चतुर्भुजाः । विमानं गगने चैव राजहंसयुतं शुभम्
निर्मितं कनकैः शुद्धैः कामगं कृपया हरेः । पाशं छित्वा ततो दूताः प्रोचुस्ते यमकिंकरान्
विष्णुभक्तोऽप्यसौ मूढा व्यर्थं तु बंधनं कृतम् । गच्छध्वं शमनप्रेष्या यदि वांछास्ति जीवितुम्
श्रुत्वा प्रकंपितास्ते वै पृच्छंति विनयान्विताः । केन पुण्यप्रभावेण युष्माभिर्नीयते पुरम्
असौ विष्णोर्महापापी यूयं तद्वक्तुमर्हथ । विष्णुदूता ऊचुः- पुरतो वासुदेवस्य प्रदीपबोधनं कृतम्
तेनैव कर्मणा दूता नयामो विष्णुमंदिरम् । अनिच्छयापि यः कुर्याद्विष्णोर्दीपस्य बोधनम्
कोटिजन्मार्जितं पापं त्यक्त्वा याति हरेर्गृहम् । भक्त्या प्रदीपं यो दद्यात्कार्तिके तु हरेर्दिनैः