सेवां कर्त्तुमशक्तोऽहं यतश्चौरोऽस्मि सर्वदा । द्रव्येण कार्यमस्तीति तन्नेतुं कृतवान्मनः
पातयित्वांशुकं भूमौ कौशेयं कमलापतेः । बबंध वस्तुजातं च पाणौ कृत्वा सकंपितः
विष्णोर्मायापतेश्चाथ तानि सर्वाणि जैमिने । कृत्वा शब्दं सुघोरं च पतितान्यथ तानि वै
परित्यज्य सुनिद्रां च धावंत इति किन्वहो । आगता बहुशो लोकाश्चोरो द्रव्यं जवेन च
त्यक्त्वा धनं च चौरोऽपि त्रस्तः किंचिज्जगाम ह । दंशितः कालसर्पेण मृतोऽसौ गतकिल्बिषः
यमाज्ञया तस्य दूताः पाशमुद्गरपाणयः । आगतास्तं समानेतुं दंष्ट्रिणश्चर्मवाससः
बबंधुश्चर्मपाशेन निन्युर्दुर्गमवर्त्मना । दृष्ट्वा तं शमनः क्रुद्धः पप्रच्छ सचिवं प्रति
यम उवाच- अनेन किं कृतं कर्म पापं वा पुण्यमेव वा । समूलं वद हे प्राज्ञ चित्रगुप्त ममाग्रतः
चित्रगुप्त उवाच- सृष्टानि यानि पापानि विधात्रा पृथिवीतले । कृतान्यनेन मूढेन सत्यमेतन्मयोदितम्
किंत्वाकर्णय लोकेश सुकृतं चास्य वर्त्तते । मन्येऽहं यमुनाभ्रातः सर्वपापविलोपि तत्
धर्मराज उवाच- किं पुण्यं वर्त्ततेऽमात्य वद सारं ममांतिके । श्रुत्वैवं तद्विधास्यामि यत्र योग्यो भवेदसौ
यमस्य वचनं श्रुत्वा सभयश्चित्रगुप्तकः । कृत्वा हस्तांजलिं प्राह चात्मनः स्वामिने द्विज
चित्रगुप्त उवाच- हरणार्थं हरेर्द्रव्यं गतोऽसौ पापिनां वरः । प्रोज्झितः कर्द्दमो राजन्पादयोर्द्वारतो हरेः
बभूव लिप्ता सा भूमिर्बिलच्छिद्र विवर्जिता । तेन पुण्यप्रभावेण निर्गतं पातकं महत् । वैकुंठं प्रतियोग्योऽसौ निर्गतस्तव दंडतः
व्यास उवाच- श्रुत्वा स वचनं तस्य पीठं कनकनिर्मितम् । ददौ तस्मै चोपविष्टस्तत्र पूज्योयमेनसः
ननाम शिरसा तं वै प्रोवाच विनयान्वितः । यम उवाच- पवित्रं मंदिरं मेऽद्य पादयोस्तद्धि रेणुभिः
कृतार्थोऽस्मि कृतार्थोऽस्मि कृतार्थोऽस्मि न संशयः । इदानीं गच्छ भो साधो हरेर्मंदिरमुत्तमम्
नानाभोगसमायुक्तं जन्ममृत्युनिवारणम् । व्यास उवाच- इत्युक्त्वा धर्मराजोऽसौ स्यंदने स्वर्णनिर्मिते
राजहंसयुते दिव्ये तमारोप्य गतैनसम् । समस्तसुखदं स्थानं प्रेषयामास चक्रिणः
एवं प्रविष्टो वैकुंठे तत्र तस्थौ सुखं चिरम् । लेपनं ये प्रकुर्वंति भक्त्या तु हरिमंदिरम्
तेषां किं वा भविष्यति न जानेऽहं द्विजोत्तम । य इदं शृणुयाद्भक्त्या पठेद्यो वा समाहितः
कोटिजन्मार्जितं पापं नश्यत्येव न संशयः
शौनक उवाच- कार्त्तिकस्य च माहात्म्यं ब्रूहि सूत ममाग्रतः । तद्व्रतस्य फलं किं वा दोषं किं तदकुर्वतः
सूत उवाच- पुरैकदा मुनिश्रेष्ठ व्यासं सत्यवतीसुतम् । जैमिनिः पृष्टवानेतदारेभे कथितं मुनिः
व्यास उवाच- तिलतैलं मैथुनं यः शुभदे कार्त्तिके त्यजेत् । बहुजन्मकृतैःपापैर्मुक्तो याति हरेर्गृहम्
मत्स्यं च मैथुनं यो वै कार्त्तिके न परित्यजेत् । प्रतिजन्मनि संमूढः शूकरश्च भवेद्ध्रुवम्
कार्त्तिके तुलसीपत्रैः पूजयेद्वै जनार्दनम् । पत्रेपत्रेऽश्वमेधस्य फलं प्राप्नोति मानवः
कार्त्तिके मुनिपुष्पैर्यः पूजयेन्मधुसूदनम् । देवानां दुर्लभं मोक्षं प्राप्नोति कृपया हरेः
कार्त्तिके मुनिशाकं वै योऽश्नाति च नरोत्तमः । संवत्सरकृतं पापं शाकेनैकेन नश्यति
फलं तस्य नरोऽश्नाति चोर्जे यो वै हरिप्रिये । प्रदत्त्वा तु हरेर्ब्रह्मन्वृजिनं कोटिजन्मजम्