परस्वं ब्राह्मणद्रव्यं पश्यंति विषवच्च ये । हरिनैवेद्यं येऽश्नन्ति विज्ञेया वैष्णवा जनाः
वेदशास्त्रानुरक्ता ये तुलसीवनपालकाः । राधाष्टमीव्रतरता विज्ञेयास्ते च वैष्णवाः
श्रीकृष्णपुरतो ये च दीपं यच्छंति श्रद्धया । परनिंदां न कुर्वंति विज्ञेयास्ते च वैष्णवाः
सूत उवाच- पृष्टो जैमिनिना व्यास इत्युक्तः स यथाक्रमम् । मयेदं कथ्यते ब्रह्मन्यत्प्रसंगाद्गुरोः श्रुतम्
अध्यायं श्रद्धया युक्तं ये शृण्वंति नरोत्तमाः । सर्वपापविनिर्मुक्ता यांति विष्णोः परं पदम्
सूत उवाच- शृणु शौनक वक्ष्यामि चान्यधर्म्मं पुरातनम् । व्यासजैमिनिसंवादं श्रोतॄणां पापनाशनम्
जैमिनिरुवाच- कर्म्मणा हि गुरो केन मंदिरं जगतीपतेः । याति तत्कथयस्वाद्य नरः पापी च मे प्रभो
व्यास उवाच- श्रीकृष्णमंदिरे यो वै लेपनं कुरुते नरः । सर्वपापविनिर्मुक्तः श्रांतो याति हरेर्गृहम्
यश्चांबुलेपनं कुर्यात्संक्षेपाच्छृणु जैमिने । तस्यपुण्यमहं वच्मि मंदिरे जगतीपतेः
तत्र यावंति पश्यंति रजांसि च द्विजोत्तम । तावत्कल्पसहस्राणि स वसेद्विष्णुमंदिरे
पुरासीद्दंडको नाम्ना चौरो लोकभयप्रदः । ब्रह्मस्वहारी मित्रघ्नो युगे द्वापरसंज्ञके
असत्यभाषी क्रूरश्च परस्त्रीगमने रतः । गोमांसाशी सुरापश्च पाखंडजनसंगभाक्
वृत्तिच्छेदी द्विजातीनां न्यासापहारकस्तथा । शरणागतहंता च वेश्याविभ्रमलोलुपः
एकदा स द्विजश्रेष्ठ कस्यचिद्विष्णुमंदिरम् । जगाम हरणार्थाय विष्णोर्द्रव्यं स मूढधीः
अथ द्वारि प्रविश्यासावंघ्रिः कर्द्दमसंयुतः । प्रोच्छितः सकलं निम्ने भूमौ देवगृहस्य च
तेनैव कर्म्मणा भूमिर्निम्नरिक्ता बभूव ह । लोहस्य च शलाकाभ्यां मुद्घाट्यत्वररंमुदा
प्रविवेश हरेर्गेहं वितानवरशोभितम् । रत्नकांचनदीपाढ्यं परिध्वस्त महत्तमम्
नानापुष्पसुगंधाढ्यं नानापात्रसमाकुलम् । सुवासितस्य तैलस्य गंधेन परिपूरितम्
अनेनहारकेणाथ पर्य्यंके सुमनोहरे । शायितो राधया सार्द्धं दृष्टः पीतांबरोऽच्युतः
प्रणम्य राधिकानाथं निष्पापः सोऽभवत्तदा । नेष्याम्यथ न नेष्यामि अनेन किं भवेन्मम
सेवां कर्त्तुमशक्तोऽहं यतश्चौरोऽस्मि सर्वदा । द्रव्येण कार्यमस्तीति तन्नेतुं कृतवान्मनः
पातयित्वांशुकं भूमौ कौशेयं कमलापतेः । बबंध वस्तुजातं च पाणौ कृत्वा सकंपितः
विष्णोर्मायापतेश्चाथ तानि सर्वाणि जैमिने । कृत्वा शब्दं सुघोरं च पतितान्यथ तानि वै
परित्यज्य सुनिद्रां च धावंत इति किन्वहो । आगता बहुशो लोकाश्चोरो द्रव्यं जवेन च
त्यक्त्वा धनं च चौरोऽपि त्रस्तः किंचिज्जगाम ह । दंशितः कालसर्पेण मृतोऽसौ गतकिल्बिषः
यमाज्ञया तस्य दूताः पाशमुद्गरपाणयः । आगतास्तं समानेतुं दंष्ट्रिणश्चर्मवाससः
बबंधुश्चर्मपाशेन निन्युर्दुर्गमवर्त्मना । दृष्ट्वा तं शमनः क्रुद्धः पप्रच्छ सचिवं प्रति
यम उवाच- अनेन किं कृतं कर्म पापं वा पुण्यमेव वा । समूलं वद हे प्राज्ञ चित्रगुप्त ममाग्रतः
चित्रगुप्त उवाच- सृष्टानि यानि पापानि विधात्रा पृथिवीतले । कृतान्यनेन मूढेन सत्यमेतन्मयोदितम्
किंत्वाकर्णय लोकेश सुकृतं चास्य वर्त्तते । मन्येऽहं यमुनाभ्रातः सर्वपापविलोपि तत्