यत्रयत्र कुले चैव एको भवति वैष्णवः । कुलं तस्य यदा पापैर्युक्तं तन्मोक्षगामि वै
हिंसादंभकामक्रोधैर्वर्जिताश्चैव ये नराः । लोभमोहपरित्यक्ता ज्ञेयास्ते वैष्णवा द्विज
पितृभक्ता दयायुक्ताः सर्वप्राणिहिते रताः । अमत्सरा वैष्णवा ये विज्ञेयाः सत्यभाषिणः
विप्रभक्तिरता ये च परस्त्रीषु नपुंसकाः । एकादशीव्रतरता विज्ञेयास्ते च वैष्णवाः
गायंति हरिनामानि तुलसीमाल्यधारकाः । हर्यंघ्रिसलिलैः सिक्ता विज्ञेयास्ते च वैष्णवाः
श्रोत्रयोर्मस्तके येषां तुलस्याः पर्णमुत्तमम् । कर्हिचिद्दृश्यते विप्र विज्ञेयास्ते च वैष्णवाः
पाखंडसंगरहिता विप्रद्वेषविवर्जिताः । सिंचेयुस्तुलसीं ये च ज्ञातव्या वैष्णवा नराः
पूजयंति हरिं ये च तुलस्या चार्चयंति ये । कन्यादानरता ये च ये वै ह्यतिथिपूजकाः
शृण्वंति विष्णुचरितं विज्ञेया वैष्णवा नराः । यस्य गृहे सुप्रतिष्ठेत्शालग्रामशिलापि च
मार्जयंति हरेः स्थानं पितृयज्ञप्रवर्तकाः । जने दीने दयायुक्ता विज्ञेयास्ते च वैष्णवाः
परस्वं ब्राह्मणद्रव्यं पश्यंति विषवच्च ये । हरिनैवेद्यं येऽश्नन्ति विज्ञेया वैष्णवा जनाः
वेदशास्त्रानुरक्ता ये तुलसीवनपालकाः । राधाष्टमीव्रतरता विज्ञेयास्ते च वैष्णवाः
श्रीकृष्णपुरतो ये च दीपं यच्छंति श्रद्धया । परनिंदां न कुर्वंति विज्ञेयास्ते च वैष्णवाः
सूत उवाच- पृष्टो जैमिनिना व्यास इत्युक्तः स यथाक्रमम् । मयेदं कथ्यते ब्रह्मन्यत्प्रसंगाद्गुरोः श्रुतम्
अध्यायं श्रद्धया युक्तं ये शृण्वंति नरोत्तमाः । सर्वपापविनिर्मुक्ता यांति विष्णोः परं पदम्
सूत उवाच- शृणु शौनक वक्ष्यामि चान्यधर्म्मं पुरातनम् । व्यासजैमिनिसंवादं श्रोतॄणां पापनाशनम्
जैमिनिरुवाच- कर्म्मणा हि गुरो केन मंदिरं जगतीपतेः । याति तत्कथयस्वाद्य नरः पापी च मे प्रभो
व्यास उवाच- श्रीकृष्णमंदिरे यो वै लेपनं कुरुते नरः । सर्वपापविनिर्मुक्तः श्रांतो याति हरेर्गृहम्
यश्चांबुलेपनं कुर्यात्संक्षेपाच्छृणु जैमिने । तस्यपुण्यमहं वच्मि मंदिरे जगतीपतेः
तत्र यावंति पश्यंति रजांसि च द्विजोत्तम । तावत्कल्पसहस्राणि स वसेद्विष्णुमंदिरे
पुरासीद्दंडको नाम्ना चौरो लोकभयप्रदः । ब्रह्मस्वहारी मित्रघ्नो युगे द्वापरसंज्ञके
असत्यभाषी क्रूरश्च परस्त्रीगमने रतः । गोमांसाशी सुरापश्च पाखंडजनसंगभाक्
वृत्तिच्छेदी द्विजातीनां न्यासापहारकस्तथा । शरणागतहंता च वेश्याविभ्रमलोलुपः
एकदा स द्विजश्रेष्ठ कस्यचिद्विष्णुमंदिरम् । जगाम हरणार्थाय विष्णोर्द्रव्यं स मूढधीः
अथ द्वारि प्रविश्यासावंघ्रिः कर्द्दमसंयुतः । प्रोच्छितः सकलं निम्ने भूमौ देवगृहस्य च
तेनैव कर्म्मणा भूमिर्निम्नरिक्ता बभूव ह । लोहस्य च शलाकाभ्यां मुद्घाट्यत्वररंमुदा
प्रविवेश हरेर्गेहं वितानवरशोभितम् । रत्नकांचनदीपाढ्यं परिध्वस्त महत्तमम्
नानापुष्पसुगंधाढ्यं नानापात्रसमाकुलम् । सुवासितस्य तैलस्य गंधेन परिपूरितम्
अनेनहारकेणाथ पर्य्यंके सुमनोहरे । शायितो राधया सार्द्धं दृष्टः पीतांबरोऽच्युतः
प्रणम्य राधिकानाथं निष्पापः सोऽभवत्तदा । नेष्याम्यथ न नेष्यामि अनेन किं भवेन्मम