स्वप्रकाशं जगद्धेतु हेत्वतीतं गुणोर्जितम् । नित्यं विज्ञानमानंद स्वभासा भासयज्जगत्
न जिह्वा लेढि तच्चक्षुर्न पश्यति शृणोति न । श्रुतिर्जिघ्रति न घ्राणं न त्वक्स्पृशति कर्हिचित्
अतीतमिंद्रियेभ्यस्तत्स्वप्रकाशकमात्मदृक् । अविषयं मनोदूरं बुद्धेरपि न गोचरम्
तस्यावताररूपाणि शुद्धसत्वानि देवताः । सेवंते तन्न जानंति रूपं यत्सदसत्परम्
एवं स्वरूपमात्मा यस्तं समुद्दिश्य कः कुधीः । क्रोधं कुर्याद्यतस्तस्य नोत्पत्तिर्नैव संक्षयः
इति श्रीपाद्मेमहापुराणे पचंपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये नवाधिकद्विशततमोऽध्यायः
नारद उवाच- एवं प्रबोध्य तान्सर्वान्वचोभिः पारमार्थिकैः । स हंसः कारयामास क्रियास्तस्यात्मसंभवाः
अंतर्वत्नी मुकुंदस्य निर्बंधं कुर्वती वधूः । अनुगंतुं स्वभर्तारं विदुषा तेन वारिता
तस्यास्थीनि समादाय तेन सन्यासिना समम् । तद्भ्राता प्रययौ गंगाजले पातयितुं नृप
विप्रसन्यासिनौ तौ हि कतिभिर्वासरैर्नृप । सार्थलोकवशात्प्राप्तौ इंद्रप्रस्थेऽत्र सत्पदे
इंद्रप्रस्थांतरावर्तिन्येषा या कोशला नृप । अत्र सुप्तौ निशायां तौ यमुनातीरभूतले
आत्मनोरुभयोर्मध्ये न्यस्यास्थिपटसंपुटम् । मार्गखेदपरिक्रांतौ दशां सौषुप्तिकीं गतौ
निशीथेऽथ प्रसुप्तेषु सार्थलोकेषु कश्चन । एकः श्वा तत्र संप्राप्तः पक्वान्नादि जिहीर्षया
बभ्राम सर्वशिविरे जिघ्रन्पाकस्थलीं मुहुः । भाजनानि लिहन्मूर्ध्नि क्व च दंडाहतिं सहन्
केनचित्ताडितो मूर्ध्नि निशब्दं विद्रुतस्ततः । प्रतिचक्रुमशक्तस्तु स्त्रीजितः स्वस्त्रिया यथा
यत्रावकंडितः स श्वा दंडग्रावेष्टकादिभिः । पुनर्विवेश तत्रैव सान्नपात्रलिलिप्सया
भोगेच्छया यथा वेश्या स्नेहवान्निर्द्धनो जनः । भ्रमन्नेवं स चात्रापि यत्र सुप्तौ हि तावुभौ
सारमेयस्तयोर्मध्याज्जह्रे स पटसंपुटम् । नीत्वा स कियतीं भूमिं दंतैस्तत्पटसंपुटम्
विदार्यास्थीनि तत्स्थानि निर्मांसान्यवलोक्य सः । एतस्याः कोशलायास्तु जलमध्ये समाक्षिपत्
क्षिप्तमात्रेषु तेनास्थिष्वेतदंबुनि भूपते । दिव्यं विमानमास्थाय मुकुंदोऽत्र समागतः
दृष्ट्वा गुर्वनुजौ सुप्तौ शनैः प्राबोधयत्तदा । उवाच च नमस्कृत्य गुंरुं दिव्याकृतिर्नृप
मुकुंद उवाच। वेदायन गुरो तुभ्यं नम आशीस्तवानुज । प्रासादाद्वां ममास्थीनि तीर्थेऽत्र पतितानि वै
अयं मृत्युमहं गत्वा निरयं प्राप्य तत्फलम् । एतत्तीर्थप्रसादेन दैवी लब्धा मया गतिः
त्वां गुरुं तीर्थभूतं तु नमस्कर्तुमिहागतः । अहं गच्छन्विमानेन दिव्येन त्रिदशालयम्
नमस्कृतो भवानेतत्तीर्थ चायं सहोदरः । दृष्टो मामनुजानीहि यामि स्वर्गं सुखोदयम्
नारद उवाच- श्रुत्वैवं वचनं तस्य मुकुंदस्य गुरुस्तदा । वेदायनो विमानस्थं तमूचे गतविस्मयः
देवायन उवाच- मुकुंदाख्याहि मे सत्यं लब्ध्वा यन्मरणं भवान् । कस्मिंल्लोके गतस्तात यतो यात्यधुना दिवम्
किं वृत्तं तत्र ते तात तस्यलोकस्य कोऽधिपः । कीदृशी च प्रजा कीदृक्धर्मस्तत्राखिलं वद
मुकुंद उवाच- कथयामि गुरो तुभ्यं यद्वृत्तं मरणादनु । तीर्थस्यास्य प्रसादेन स्मृतिर्मे जायतेऽधुना
यदाहं तेन निहतश्चंडकेन दुरात्मना । नापितेन तदा जग्मुर्यमभृत्याः सुदारुणाः