कृष्णस्य यः कथारंभे कुर्याद्विघ्नं नराधमः । नरकान्निष्कृतिर्नास्ति मन्वंतरशतावधि
ये पुराणकथां श्रुत्वा निंदंत्युपहसंति वै । तेषां करस्था नरका बहुक्लेशकराः सदा
जन्मांतरार्जितं पापं तत्क्षणादेव नश्यति । श्रीकृष्णचरितं यो वै श्रोतुमिच्छां करोत्यपि
भक्त्या यो वै नरः कुर्यात्श्रीकृष्णचरितं तथा । न जाने श्रवणे तस्य का गतिर्वा भविष्यति
ब्रह्महत्यादिकं पापं अकालमरणं तथा । सुरापानं तथास्तेयं सर्वं नश्यति पापिनः
पापं कृत्वा तु यो मर्त्यः पश्चात्पापं निवर्तयेत् । तस्य पापं व्रजेन्नाशमग्निना तूलराशिवत्
श्रीकृष्णचरितं विप्र तिष्ठेद्वै पुस्तकं गृहे । तस्य गृहसमीपं हि नायांति यमकिंकराः
जैमिनिरुवाच- वदंति वैष्णवान्कांश्च वांच्छा ब्रूहि गुरो मम । इदानीं तान्समाज्ञातुं तेषां माहात्म्यमुत्तमम्
व्यास उवाच- यो नरो मस्तके भक्त्या वैष्णवांघ्रिजलं द्विज । करोति सेचनं पापी तीर्थस्नानेन तस्य किम्
साधुसंगं तु यः कुर्य्यात्क्षणं वार्द्धक्षणं द्विज । तस्य नश्यंति पापानि ब्रह्महत्यामुखानि च
यत्रयत्र कुले चैव एको भवति वैष्णवः । कुलं तस्य यदा पापैर्युक्तं तन्मोक्षगामि वै
हिंसादंभकामक्रोधैर्वर्जिताश्चैव ये नराः । लोभमोहपरित्यक्ता ज्ञेयास्ते वैष्णवा द्विज
पितृभक्ता दयायुक्ताः सर्वप्राणिहिते रताः । अमत्सरा वैष्णवा ये विज्ञेयाः सत्यभाषिणः
विप्रभक्तिरता ये च परस्त्रीषु नपुंसकाः । एकादशीव्रतरता विज्ञेयास्ते च वैष्णवाः
गायंति हरिनामानि तुलसीमाल्यधारकाः । हर्यंघ्रिसलिलैः सिक्ता विज्ञेयास्ते च वैष्णवाः
श्रोत्रयोर्मस्तके येषां तुलस्याः पर्णमुत्तमम् । कर्हिचिद्दृश्यते विप्र विज्ञेयास्ते च वैष्णवाः
पाखंडसंगरहिता विप्रद्वेषविवर्जिताः । सिंचेयुस्तुलसीं ये च ज्ञातव्या वैष्णवा नराः
पूजयंति हरिं ये च तुलस्या चार्चयंति ये । कन्यादानरता ये च ये वै ह्यतिथिपूजकाः
शृण्वंति विष्णुचरितं विज्ञेया वैष्णवा नराः । यस्य गृहे सुप्रतिष्ठेत्शालग्रामशिलापि च
मार्जयंति हरेः स्थानं पितृयज्ञप्रवर्तकाः । जने दीने दयायुक्ता विज्ञेयास्ते च वैष्णवाः
परस्वं ब्राह्मणद्रव्यं पश्यंति विषवच्च ये । हरिनैवेद्यं येऽश्नन्ति विज्ञेया वैष्णवा जनाः
वेदशास्त्रानुरक्ता ये तुलसीवनपालकाः । राधाष्टमीव्रतरता विज्ञेयास्ते च वैष्णवाः
श्रीकृष्णपुरतो ये च दीपं यच्छंति श्रद्धया । परनिंदां न कुर्वंति विज्ञेयास्ते च वैष्णवाः
सूत उवाच- पृष्टो जैमिनिना व्यास इत्युक्तः स यथाक्रमम् । मयेदं कथ्यते ब्रह्मन्यत्प्रसंगाद्गुरोः श्रुतम्
अध्यायं श्रद्धया युक्तं ये शृण्वंति नरोत्तमाः । सर्वपापविनिर्मुक्ता यांति विष्णोः परं पदम्
सूत उवाच- शृणु शौनक वक्ष्यामि चान्यधर्म्मं पुरातनम् । व्यासजैमिनिसंवादं श्रोतॄणां पापनाशनम्
जैमिनिरुवाच- कर्म्मणा हि गुरो केन मंदिरं जगतीपतेः । याति तत्कथयस्वाद्य नरः पापी च मे प्रभो
व्यास उवाच- श्रीकृष्णमंदिरे यो वै लेपनं कुरुते नरः । सर्वपापविनिर्मुक्तः श्रांतो याति हरेर्गृहम्
यश्चांबुलेपनं कुर्यात्संक्षेपाच्छृणु जैमिने । तस्यपुण्यमहं वच्मि मंदिरे जगतीपतेः
तत्र यावंति पश्यंति रजांसि च द्विजोत्तम । तावत्कल्पसहस्राणि स वसेद्विष्णुमंदिरे