यो नरः पुस्तकं दद्याद्भक्तिश्रद्धासमन्वितः । प्रतिवर्णं लभेत्पुण्यं कपिलाकोटिदानजम्
मधुदो गुडदश्चैव मर्त्यो यातीक्षुसागरम् । लवणप्रदो नरो याति वारुणं लोकमेव च
सर्वेषामेव दानानामन्नं वारि द्विजोत्तम । तत्त्वज्ञैर्मुनिभिः सर्वैः प्रवरं वै प्रकीर्त्तितम्
अन्नं वारि द्विजश्रेष्ठ येन दत्तं महीतले । तेन दत्तानि दानानि सर्वाणि च द्विजर्षभ
अन्नदो यो नरो विप्र प्राणदश्च प्रकीर्त्तितः । तस्मात्समस्तदानानामन्नदो लभते फलम्
यथाचान्नं तथा वारि द्वे तुल्ये च प्रकीर्त्तिते । वारिणा च विना चान्नं सिद्धं न स्याद्द्विजोत्तम
क्षुधा तृषा द्विज व्याघ्र द्वे च तुल्ये प्रकीर्त्तिते । अतश्चान्नं च तोयं च श्रेष्ठं प्रोक्तं बुधैरपि
अन्नदानं क्षितौ ब्रह्मन्ये कुर्वंति नरोत्तमाः । सर्वपापविनिर्मुक्ता गच्छंति हरिमंदिरम्
यावंत्यन्नानि भो विप्र यच्छति क्षितिमंडले । ब्रह्महत्याश्च तावंत्यो नश्यंत्येव तपोधन
यच्छतां चान्नदानानि शरीराणि च पातकम् । गात्राणि गृह्णतां त्यक्त्वा सहसा यांति शौनक
अतः पापिष्ठ चान्नानि न गृह्णंति मनीषिणः । गृह्णंति मोहाद्ये मूढा भवंति पापभागिनः
कुर्याद्भूमिष्ठमुदकं चैकं भो द्विजसत्तम । सर्वपापैर्विनिर्मुक्तो व्रजेत्स हरिमंदिरम्
प्रयत्नेन द्विजश्रेष्ठ कर्त्तव्यो धनसंचयः । संचितं च धनं ब्रह्मन्दानकर्मणि विक्षिपेत्
रणंति ये च कार्पण्याद्धनं ते चातिदुःखिनः । अंते सर्वधनं त्यक्वा निःस्वा गच्छंति भो मुने
मानवा ये सदा दानं दत्त्वा दत्त्वा दरिद्रति । दरिद्रास्तेन विज्ञेया नरलोके महेश्वराः
परलोके द्विजव्याघ्र साधुसंयमवर्जिते । निर्दये बंधुहीने च न दत्तं नोपतिष्ठते
स्थिते धने नरो यो वै नाश्नाति न ददाति सः । दरिद्र इव विज्ञेयः प्रेत्य निश्वासमुत्सृजेत्
तपसोऽपि वरं दानं प्रोक्तं च तत्त्वदर्शिभिः । अतो यत्नाद्द्विजश्रेष्ठ दानकर्म समाचरेत्
दाता दानं न दद्याद्वै समुत्सृज्य द्विजातये । स याति निरयं घोरं सर्वजंतुभयावहम्
दानं दाता प्रतिग्राही न स्मरेच्च न याचते । निरये चोभयोर्वासो यावच्चंद्र दिवाकरौ
ब्रह्महत्यादि पापानि यानि वै द्विजसत्तम । तानि दानेन हन्यंते तस्माद्दानं समाचरेत्
अथ श्रीपाद्मे महापुराणे चुतर्थं ब्रह्मखण्डं प्रारभ्यते श्रीवेदव्यासाय नमः शौनक उवाच- कलौ समागते सूत प्राणिनां केन कर्मणा । उद्धारो वै भवेत्तस्मात्कथयस्व ममाग्रतः
सूत उवाच- साधुसाधु मुनिश्रेष्ठ पुण्यात्मनां वरो भवान् । सर्वेषां च जनानां च शुभवाञ्छो निरंतरम्
एतद्व्यासः पुरा विप्रः सर्वज्ञः सर्वपूजितः । पृष्टो जैमिनिना तं स यदाह शृणु वैष्णव
दंडवत्प्रणिपत्यासौ व्यासं सर्वार्थपारगम् । गुरुं सत्यवतीसूनुं पप्रच्छ मुनिपुंगवः
जैमिनिरुवाच- कलौ नृणां भवेत्केन मोक्षो वै कथयस्व मे । अल्पेनापि च पुण्येन मर्त्याश्चाल्पायुषो यतः
व्यास उवाच- साधुसंगाद्भवेद्विप्र शास्त्राणां श्रवणं प्रभो । हरिभक्तिर्भवेत्तस्मात्ततो ज्ञानं ततो गतिः
न रोचते कथा भूमौ पापिष्ठाय जनाय वै । वैष्णवी स तु विज्ञेयः पापिष्ठप्रवरो द्विजः
श्रीकृष्णस्य कथां श्रुत्वाऽऽनंदी भवति वैष्णवः । असत्यां तां तु यो ब्रूयाज्ज्ञेयः स पापिनां गुरुः
यस्मिन्यस्मिन्स्थले विप्र कृष्णस्य वर्तते कथा । तस्मात्तस्माज्जगन्नाथो याति त्यक्त्वा न कर्हिचित्