आगता ज्ञातयः क्रुद्धास्तस्य पापपरायणम् । ज्ञातय ऊचुः। रे रे मूढ दुराचार विनाशं प्रतिनीयते । या प्रतिष्ठार्जिता पूर्वैरस्माकं निर्मलेऽन्वये
इति क्रुद्धा द्विजश्रेष्ठ अपकीर्तिभयादपि । पापिनां प्रवरं सर्वे तत्यजुस्तं कुलादरम्
ततो गतो महारण्यं विनष्टाखिल वैभवः । कुर्यात्स दस्युभिः सार्द्धं दस्युकर्म निरंतरम्
पथि प्रगच्छतां तेषां भयाद्विप्र न खादितुम् । प्राप्तं किंचित्क्षुधार्त्तास्ते गताश्चान्य स्थलं प्रति
तत्र प्रविष्टास्ते सर्वे दृष्ट्वा पुण्यजनान्बहून् । धात्रीमूले स्थितान्ब्रह्मन्वैष्णवान्द्विजसत्तमान्
सर्वे ते दस्यवो विप्र गता दंडकरोऽपि सः । तेषां परिसरं गत्वा प्रणामं वै चकार ह
दंडकर उवाच। क्षुधार्तोऽहं द्विजश्रेष्ठाः प्राणा यास्यंति मे ध्रुवम् । ददध्वं खादितुं किंचिद्युष्माकं शरणं गतः
आकर्ण्य वचनं तस्य चोचुस्ते धर्मतत्पराः । सर्वपापहरे त्वं च विख्याते विष्णुपंचके
कथमन्नं खादितुं ते वांछा त्वद्य हरेर्दिने । विशेषं ते ब्रूहि संज्ञा काते भवति सांप्रतम्
स उवाच मुदा विप्रा नाम्ना दंडकरोप्यहम् । सर्वपापसमायुक्तश्चोद्धारो मे कथं भवेत्
ऊचुस्ते वै व्रतं श्रेष्ठं कुरुष्व विष्णुपंचकम् । विप्राणामाज्ञया विप्र चकार विष्णुपंचकम्
स प्रेत्य च हरेः स्थानमारुह्य स्यंदने वरे । आसाद्य श्रीहरेरूपं तस्थौ जन्मविवर्जितः
य इदं शृणुयाद्भक्त्या चाख्यानं पापनाशनम् । कोटिजन्मार्जितं पापं तस्य नश्यति तत्क्षणात्
शौनक उवाच। विदुषांवर तत्त्वज्ञ कथयस्व महामते । इदानीं मम दानानां माहात्म्यं क्रमतो मुने
सूत उवाच। क्षितिदानं मुनिश्रेष्ठ दानानामुत्तमं मतम् । येन कृतं वै तद्दानं सर्वदानफलं मतम्
क्षितिं ससस्यां यो दद्याद्ब्राह्मणाय द्विजोत्तम । विष्णुलोके सुखं भुंक्ते यावदिंद्राश्चतुर्दश
पृथिव्यां जन्म चासाद्य सार्वभौमस्ततो नृपः । महीं सर्वां चिरं भुक्त्वा व्रजेद्वै श्रीहरेर्गृहम्
गोचर्ममात्रां भूमिं यः प्रयच्छति द्विजातये । स गच्छति हरेर्गेहं सर्वपापविवर्जितः
शतं गावो वृषश्चैको यत्र तिष्ठंत्ययंत्रिताः । गोचर्ममात्रां तां भूमिं प्रवदंति महर्षयः
भूमिनेता भूमिदाता द्वौ चापि स्वर्गगामिनौ । ग्राह्या भूमिर्द्विजैः प्राज्ञैस्त्यक्त्वा दानशतान्यपि
अज्ञानी भूसुरो यस्तु त्यजेद्भूमिं विमोहितः । प्रतिजन्मन्यसौ विप्रो भवेच्चात्यंत दुःखभाक्
अन्यतो यः समासाद्य दद्याद्भूमिं द्विजातये । तस्मै विप्र जगन्नाथो ददाति परमं पदम्
स्वदत्तां परदत्तां च मेदिनीं यो हरेद्द्विज । युक्तः कोटिकुलैर्याति नरकं चातिदारुणम्
हरेद्यो वै महीं विप्र देवब्राह्मणयोरपि । न दृष्टा निष्कृतिस्तस्य कोटिकल्पशतैर्मुने
भूमिं यो परदत्तां च रक्षति क्ष्मापतिर्द्विज । पुण्यं कोटिगुणं स्याद्वै तस्य दानं जनादपि
सप्तद्वीपां महीं दत्त्वा यत्पुण्यं प्राप्यते द्विज । तत्पुण्यं प्राप्नुयान्मर्त्यो धेनुं यच्छन्द्विजातये
ददाति वृषभं यस्तु दरिद्राय कुटुंबिने । सर्वपापविनिर्मुक्तो शिवलोकं स गच्छति
तिलप्रमाणं स्वर्णं यो ब्राह्मणाय प्रयच्छति । हरेर्निकेतनं याति युक्तः कोटिकुलैरपि
यो दद्याद्रजतं विप्र साधवे भूसुराय वै । प्राप्नोति चंद्रलोकं च पिबेत्तत्रामृतं सदा
प्रवालं मौक्तिकं चैव हीरकं च मणिं तथा । यो ददाति द्विजश्रेष्ठ स्वर्गलोकं स गच्छति