बद्ध्वा नेतुं मनश्चक्रुरागता विष्णुकिंकराः । तदा छित्त्वा चर्मपाशं स्यंदने तं मनोहरे
तूर्णमारोहयामासुः पप्रच्छुर्विनयान्विताः । तेऽपि पुण्येन भोः संतः केन वै नीयतेऽप्यसौ
ऊचुस्तेऽसौ पुरा राजा पुण्यं बहुतरं कृतम् । अकरोद्धरणं कांचित्सुंदरीं चांगनामयम्
अनेन चांहसा राजा गतो वै शमनक्षयम् । तत्रक्लेशं तु युष्माभिर्दत्तं वै शमनाज्ञया
ताम्रमय्यास्त्रियासार्द्धं क्रीडां सुप्त्वा चकार सः । तप्तायां लोहशय्यायां वैक्लव्यं कर्मणा नृप
तप्तायोभीषणं तप्तं लोहस्तंभं यमाज्ञया । ततः स्थितः समालिंग्य भुक्त्वा दुःखं चिरं नृपः
सिक्तः क्षारांबुधाराभिरन्यैर्वै शमनालये । ततो नरकशेषे च पापयोनौ मुहुर्मुहुः
जन्मासाद्य चिरं दुःखमनुभूतं स्वकर्मणा । तुलसीमूलकं वारि पीत्वा याति हरेर्गृहम्
इदानीं तद्वचः श्रुत्वा गतादूता यथागताः । तेन सार्द्धं विष्णुदूता गता वैकुंठमंदिरम्
माहात्म्यं कथितं ब्रह्मन्तुलस्याः पापनाशनम् । कुर्वंति सेवां ये भक्त्या न जाने किं भवेन्मुने
शौनक उवाच। कथयस्व मुने सूत माहात्म्यं कलुषक्षयम् । शेषपंचदिनस्यापि कार्त्तिकस्यानुकंपया
सूत उवाच। शृणु शौनक यत्पृष्टं माहात्म्यं पापनाशनम् । वक्ष्याम्यहं वै चोर्जस्य शेषपंचदिनस्य च
व्रतानां मुनिशार्दूल प्रवरं विष्णुपंचकम् । तस्मिन्यः पूजयेद्भक्त्या श्रीहरिं राधया सह
गंधपुष्पैर्धूपदीपैर्वस्त्रैर्नानाविधैः फलैः । स याति विष्णुसदनं सर्वपापविवर्जितः
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथवा यतिः । न प्राप्नोति परं स्थानमकृत्वा विष्णुपंचकम्
सर्वपापहरं पुण्यं विख्यातं विष्णुपंचकम् । तत्र स्नानं तु यः कुर्यात्सर्वतीर्थफलं लभेत्
श्रीहरेः पुरतो विप्र तुलस्याश्च समीपतः । प्रदीपं सर्पिषा पूर्णं दद्याद्यो भक्तिभावतः
नभसि श्रीहरेः प्रीत्यै याति स विष्णुमंदिरम् । पापी याति हरेर्धाम सत्यमेतन्मयोदितम्
स्नापयेच्चाच्युतं भक्त्या मधुक्षीरघृतादिभिः । दद्यात्किं नो हरिः प्रीतस्तस्मै साधुजनाय वै
नैवेद्यं देवदेवेशं परमान्नं निवेदयेत् । तस्य पुण्यं प्रसंख्यातुं न शक्तो वै चतुर्मुखः
अर्चयित्वा हृषीकेशमेकादश्यां समाहितः । निष्प्राप्य गोमयं सम्यक्मंत्रवत्समुपासते
गोमूत्रं मंत्रवद्भूयो द्वादश्यां प्राशयेद्व्रती । क्षीरं तथा त्रयोदश्यां चतुर्दश्यां तथा दधि
संप्राप्य पापशुद्ध्यर्थं लंघयित्वा चतुर्दिनम् । पंचमे तु दिने स्नात्वा विधिवत्पूज्य केशवम्
भोजयेद्ब्राह्मणान्भक्त्या तेभ्यो दद्याच्च दक्षिणाम् । ततो नक्तं समश्नीयात्पंचगव्यं सुमंत्रितम्
एवं कर्तुमशक्तो यः फलमूलं च भोजनम् । कुर्याद्धविष्यं वा विप्र यथोक्तविधिना ह वै
श्रीहरेः पंचकं विप्र कुर्याद्यस्तुलसीदलैः । पूजयेत्तं स विज्ञेयः स्वयं नारायणः प्रभुः
पुरा त्रेतायुगे शूद्रो दस्युवृत्तिपरायणः । नाम्ना दंडकरो नित्यं धर्मनिंदां करोति यः
असत्यभाषी मित्रघ्नो वेश्याविभ्रम लोलुपः । ब्रह्मस्वहारी क्रूरश्च परस्त्रीगमने रतः
शरणागतहंता च पाखंडजनसंगभाक् । गोमांसाशी सुरापश्च परनिंदाकरः सदा
विश्वासघाती ज्ञातीनां वृत्तिच्छेदी द्विजोत्तम । दुष्टं सर्वे समालोक्य तादृशं तद्गृहे द्विजः