यः पुनस्तुलसीमालां कण्ठे कृत्वा जनार्दनम् । पूजयेत्पुण्यमाप्नोति प्रतिपुष्पं गवायुतम्
धारयन्ति न ये मालां हैतुकाः पापबुद्धयः । नरकान्न निवर्तंते दग्धाः कोपाग्निना हरेः
न जह्यात्तुलसीमालां धात्रीमालां विशेषतः । महापातकसंहर्त्रीं धर्मकामार्थदायिनीम्
स्पृशेच्च यानि लोमानि धात्रीमाला कलौ नृणाम् । तावद्वर्षसहस्राणि वसते केशवालये
निवेद्य केशवे मालां तुलसीकाष्ठसंभवाम् । वहते यो नरो भक्त्या तस्य वै नास्ति पातकम्
तुलसीकाष्ठमालां तु प्रेतराजस्य दूतकाः । दृष्ट्वा नश्यन्ति दूरेण वातोद्धूतं यथा दलम्
तुलस्या विपिने धात्र्याश्छायासु यो नरोत्तमः । पिण्डं ददाति पितरो मुक्तिं यान्ति द्विजोत्तम
पाणौ मूर्ध्नि गले चैव कर्णयोश्च मुखे द्विज । धात्रीफलं यस्तु धत्ते स विज्ञेयो हरिः स्वयम्
धात्रीपत्रैः फलैर्विप्र श्रीहरिं चार्चयेद्द्विज । कोटिजन्मार्जितं पापं पूजया नश्यति सकृत्
यज्ञादेवाश्च मुनयस्तीर्थानि कार्तिके द्विज । धात्रीवृक्षं समाश्रित्य तिष्ठन्ति कार्तिके सदा
धात्रीपत्रं कार्तिके च द्वादश्यां तुलसीदलम् । चिनोति यो नरो गच्छेन्निरयं यातनामयम्
धात्रीछायासु यो विप्र चान्नं भुनक्ति कार्तिके । अन्नसंसर्गजं पापमावर्षं तस्य नश्यति
तुलसीवनमध्ये च धात्रीमूले च कार्तिके । कुर्याद्धर्यर्चनं विप्र वैकुण्ठं याति स ध्रुवम्
तुलसीमूलदेशेऽपि स्थितं वारि द्विजोत्तम । गृह्णाति मस्तके भक्त्या पापी याति हरेर्गृहम्
तुलसीपत्रगलितं यस्तोयं शिरसावहेत् । सर्वतीर्थेषु स स्नातश्चांते याति हरेर्गृहम्
पुरा कश्चिद्द्विजश्रेष्ठो द्वापरेऽभून्महामुने । स्नात्वैकदा तुलस्यै स वनं दत्वा गृहं गतः
आदित्यो वर्चसा नाम्ना मार्त्तंड इव पुण्यतः । तृषार्तो भक्षकः कश्चिदागतो बहुकल्मषः
तुलस्यामूलतस्तोयं पीत्वा चासौ हतांहसः । त्वरयाप्यागतो व्याधो नाम्ना यश्चासिमर्द्दनः
उवाच भुक्तं चान्नं च भुक्त्वा भग्नं गतः किमु । कृत्वा मे पाकभांडस्थं चागतो हिंसकस्य ते
विव्याध तं गतप्राणं नेतुं वै शमनाज्ञया । आगताः किंकराः क्रुद्धाः पाशमुद्गरपाणयः
बद्ध्वा नेतुं मनश्चक्रुरागता विष्णुकिंकराः । तदा छित्त्वा चर्मपाशं स्यंदने तं मनोहरे
तूर्णमारोहयामासुः पप्रच्छुर्विनयान्विताः । तेऽपि पुण्येन भोः संतः केन वै नीयतेऽप्यसौ
ऊचुस्तेऽसौ पुरा राजा पुण्यं बहुतरं कृतम् । अकरोद्धरणं कांचित्सुंदरीं चांगनामयम्
अनेन चांहसा राजा गतो वै शमनक्षयम् । तत्रक्लेशं तु युष्माभिर्दत्तं वै शमनाज्ञया
ताम्रमय्यास्त्रियासार्द्धं क्रीडां सुप्त्वा चकार सः । तप्तायां लोहशय्यायां वैक्लव्यं कर्मणा नृप
तप्तायोभीषणं तप्तं लोहस्तंभं यमाज्ञया । ततः स्थितः समालिंग्य भुक्त्वा दुःखं चिरं नृपः
सिक्तः क्षारांबुधाराभिरन्यैर्वै शमनालये । ततो नरकशेषे च पापयोनौ मुहुर्मुहुः
जन्मासाद्य चिरं दुःखमनुभूतं स्वकर्मणा । तुलसीमूलकं वारि पीत्वा याति हरेर्गृहम्
इदानीं तद्वचः श्रुत्वा गतादूता यथागताः । तेन सार्द्धं विष्णुदूता गता वैकुंठमंदिरम्
माहात्म्यं कथितं ब्रह्मन्तुलस्याः पापनाशनम् । कुर्वंति सेवां ये भक्त्या न जाने किं भवेन्मुने