एकदा चाश्विने मासि पौर्णमासीदिने द्विज । लाजान्वराटिका नागो बिलात्प्राक्षेपयद्बहिः
पतिता सा हरेरग्रे पापमस्य स्वयं हरिः । तूर्णं तु नाशयामास दयालुर्दुःखनाशकः
कदाचित्प्राप्तकालस्तु पंचत्वं स जगाम ह । यमदूतास्तमानेतुं चागता बहुशो द्विज
बद्ध्वा नेतुं यदा चक्रुर्यमस्य सदनं प्रति । तदागता विष्णुदूताः शंखचक्रगदाधराः
पाशं छित्त्वा रथे दिव्ये तमाशुगतकिल्बिषम् । तत्र चारोपयामासुः यमदूताः पलायिताः
ततो निकेतनं विष्णोर्नागस्तैर्वेष्टितो ययौ । तत्र तस्थौ हरेरग्रे पुनरावर्त्तिवर्जितः
भक्त्या यो हरये दद्याल्लाजांश्च सघृतान्द्विज । वराटिकां तस्य पुण्यं न जाने किं भवेद्ध्रुवम्
य इमं शृणुयाद्विप्र चाध्यायं पापनाशनम् । तस्य नश्यंति पापानि श्रीहरेः कृपयापि च
शौनकउवाच। माहात्म्यं ब्रूहि सर्वज्ञ शृण्वतां पापनाशनम् । सर्वप्राणिहितार्थाय तुलस्या अनुकंपया
सूत उवाच। तुलस्याः परिसरे यस्य काननं तिष्ठति द्विज । गृहस्य तीर्थरूपत्वान्नायांति यमकिंकराः
तुलस्याः काननं विप्र सर्वपापहरं शुभम् । रोपयंति नराः श्रेष्ठास्ते न पश्यंति भास्करिम्
रोपणं पालनं सेवां दर्शनं स्पर्शनं तु यः । कुर्य्यात्तस्य प्रणष्टं स्यात्सर्वपापं द्विजोत्तम
कोमलैस्तुलसीपत्रैरर्चयंति हरिं तु ये । कालस्य सदनं विप्र ते न यांति महाशयाः
गंगाद्याः सरितः श्रेष्ठा विष्णु ब्रह्म महेश्वराः । देवैस्तीर्थैः पुष्कराद्यैस्तिष्ठंति तुलसीदले
यो युक्तस्तुलसीपत्रैः पापी प्राणान्विमुञ्चति । विष्णोर्निकेतनं याति सत्यमेतन्मयोदितम्
तुलसीमृत्तिकालिप्तो युक्तः पापशतैरपि । विमुंचति नरः प्राणान्स याति हरिमन्दिरम्
यो नरो धारयेद्विप्र तुलसीकाष्ठचंदनम् । तस्याङ्गं न स्पृशेत्पापं स याति परमं पदम्
तुलसीकाष्ठमालां तु कण्ठस्थां वहते तु यः । अप्यशौचोप्यनाचारो भक्त्या याति हरेर्गृहम्
धात्रीफलकृतामाला तुलसीकाष्ठसंभवा । दृश्यते यस्य देहे तु स वै भागवतो नरः
तुलसीदलजां मालां कण्ठस्थां वहते तु यः । विष्णूच्छिष्टां विशेषेण स नमस्यो दिवौकसाम्
यः पुनस्तुलसीमालां कण्ठे कृत्वा जनार्दनम् । पूजयेत्पुण्यमाप्नोति प्रतिपुष्पं गवायुतम्
धारयन्ति न ये मालां हैतुकाः पापबुद्धयः । नरकान्न निवर्तंते दग्धाः कोपाग्निना हरेः
न जह्यात्तुलसीमालां धात्रीमालां विशेषतः । महापातकसंहर्त्रीं धर्मकामार्थदायिनीम्
स्पृशेच्च यानि लोमानि धात्रीमाला कलौ नृणाम् । तावद्वर्षसहस्राणि वसते केशवालये
निवेद्य केशवे मालां तुलसीकाष्ठसंभवाम् । वहते यो नरो भक्त्या तस्य वै नास्ति पातकम्
तुलसीकाष्ठमालां तु प्रेतराजस्य दूतकाः । दृष्ट्वा नश्यन्ति दूरेण वातोद्धूतं यथा दलम्
तुलस्या विपिने धात्र्याश्छायासु यो नरोत्तमः । पिण्डं ददाति पितरो मुक्तिं यान्ति द्विजोत्तम
पाणौ मूर्ध्नि गले चैव कर्णयोश्च मुखे द्विज । धात्रीफलं यस्तु धत्ते स विज्ञेयो हरिः स्वयम्
धात्रीपत्रैः फलैर्विप्र श्रीहरिं चार्चयेद्द्विज । कोटिजन्मार्जितं पापं पूजया नश्यति सकृत्
यज्ञादेवाश्च मुनयस्तीर्थानि कार्तिके द्विज । धात्रीवृक्षं समाश्रित्य तिष्ठन्ति कार्तिके सदा