यो नरश्चाश्विने मासि सघृतान्पूर्णिमा दिने । दद्याच्छ्रीहरये लाजान्क्रीडार्थं तु वराटिकाम्
भक्त्या याति हरेः स्थानं पुनरावृत्तिवर्जितः । न दद्याद्यो नरो मोहात्तस्मिन्न तुष्टिदो हरिः
वराटिकां यावतीं यो हरये पौर्णिमादिने । तावद्दिनं हरेः स्थानं चाश्विने संवसेद्ध्रुवम्
करवीरपुरे ह्यासीत्पुरा शूद्रोऽपि निर्द्दयः । कालद्विजो द्विजश्रेष्ठ नाम्ना पापी भयंकरः
स्वकार्यनिरतः सोऽपि स्वामिकार्यप्रणाशकः । एकदा पंचतां यातो यमदूता भयंकराः
आगतास्तं समानेतुं यमस्यतु निकेतनम् । बद्ध्वा निन्युश्च तं दृष्ट्वा पृष्टवान्सचिवं यमः
यम उवाच । अस्य किं विद्यतेऽमात्य कर्मापि च शुभाशुभम् । कथयस्व समूलं तु चित्रगुप्त विचक्षण
चित्रगुप्त उवाच। असौ पापी दुराचारः स्वामिकार्यप्रणाशकः । नास्ति पुण्यं चाणुमात्रं नरके परिपच्यताम्
शतमन्वन्तरं राजन्नागयोनौ च निष्ठुरः । पाषाणे जन्म चासाद्य गृहे स्थातुं निरंतरम्
सूत उवाच । तावत्कालं ततो विप्र निरये स पपात ह । ततोऽप्यश्मगृहे नागयोनौ जातः सुदुःखितः
एकदा चाश्विने मासि पौर्णमासीदिने द्विज । लाजान्वराटिका नागो बिलात्प्राक्षेपयद्बहिः
पतिता सा हरेरग्रे पापमस्य स्वयं हरिः । तूर्णं तु नाशयामास दयालुर्दुःखनाशकः
कदाचित्प्राप्तकालस्तु पंचत्वं स जगाम ह । यमदूतास्तमानेतुं चागता बहुशो द्विज
बद्ध्वा नेतुं यदा चक्रुर्यमस्य सदनं प्रति । तदागता विष्णुदूताः शंखचक्रगदाधराः
पाशं छित्त्वा रथे दिव्ये तमाशुगतकिल्बिषम् । तत्र चारोपयामासुः यमदूताः पलायिताः
ततो निकेतनं विष्णोर्नागस्तैर्वेष्टितो ययौ । तत्र तस्थौ हरेरग्रे पुनरावर्त्तिवर्जितः
भक्त्या यो हरये दद्याल्लाजांश्च सघृतान्द्विज । वराटिकां तस्य पुण्यं न जाने किं भवेद्ध्रुवम्
य इमं शृणुयाद्विप्र चाध्यायं पापनाशनम् । तस्य नश्यंति पापानि श्रीहरेः कृपयापि च
शौनकउवाच। माहात्म्यं ब्रूहि सर्वज्ञ शृण्वतां पापनाशनम् । सर्वप्राणिहितार्थाय तुलस्या अनुकंपया
सूत उवाच। तुलस्याः परिसरे यस्य काननं तिष्ठति द्विज । गृहस्य तीर्थरूपत्वान्नायांति यमकिंकराः
तुलस्याः काननं विप्र सर्वपापहरं शुभम् । रोपयंति नराः श्रेष्ठास्ते न पश्यंति भास्करिम्
रोपणं पालनं सेवां दर्शनं स्पर्शनं तु यः । कुर्य्यात्तस्य प्रणष्टं स्यात्सर्वपापं द्विजोत्तम
कोमलैस्तुलसीपत्रैरर्चयंति हरिं तु ये । कालस्य सदनं विप्र ते न यांति महाशयाः
गंगाद्याः सरितः श्रेष्ठा विष्णु ब्रह्म महेश्वराः । देवैस्तीर्थैः पुष्कराद्यैस्तिष्ठंति तुलसीदले
यो युक्तस्तुलसीपत्रैः पापी प्राणान्विमुञ्चति । विष्णोर्निकेतनं याति सत्यमेतन्मयोदितम्
तुलसीमृत्तिकालिप्तो युक्तः पापशतैरपि । विमुंचति नरः प्राणान्स याति हरिमन्दिरम्
यो नरो धारयेद्विप्र तुलसीकाष्ठचंदनम् । तस्याङ्गं न स्पृशेत्पापं स याति परमं पदम्
तुलसीकाष्ठमालां तु कण्ठस्थां वहते तु यः । अप्यशौचोप्यनाचारो भक्त्या याति हरेर्गृहम्
धात्रीफलकृतामाला तुलसीकाष्ठसंभवा । दृश्यते यस्य देहे तु स वै भागवतो नरः
तुलसीदलजां मालां कण्ठस्थां वहते तु यः । विष्णूच्छिष्टां विशेषेण स नमस्यो दिवौकसाम्