हृदयं तत्र वै पाद्मं यच्छ्रुत्वामृतमश्नुते । पाद्ममेतत्पुराणं तु स्वयं देवोभवद्धरिः
यस्यैकाध्यायमध्याप्य सर्वैः पापैः प्रमुच्यते । तत्रादिमं स्वर्गमिदं सर्वपाद्मफलप्रदम्
स्वर्गखंडं समाकर्ण्य महापातकिनोपि ये । मुच्यंते तेपि पापेभ्यस्त्वचो जीर्णाद्यथोरगाः
अपि चेत्सुदुराचारः सर्वधर्म्मबहिष्कृतः । आदिस्वर्गं समाकर्ण्य यत्फलं समवाप्नुयात्
आदिस्वर्गमिदं श्रुत्वा तत्फलं लभते नरः । माघेमासे प्रयागे तु स्नात्वा प्रतिदिनं नरः
यथा पापात्प्रमुच्येत तथा हि श्रवणाद्भवेत् । दत्ता तेन स्वर्णतुला दत्ता चैव धराखिला
कृतं वितरणं तेन द्ररिद्रे यत्कृतमृणम् । हरेर्नामसहस्राणि पठितानि ह्यभीक्ष्णशः
सर्वेवे दास्तथाधीतास्तत्तत्कर्मकृतं तथा । अध्यापकाश्च बहवः स्थापिता वृत्तिदानतः
अभयं भयलोकेभ्यो दत्तं तेन तथा द्विजाः । गुणवंतो ज्ञानवंतो धर्मवंतोनुमानिताः
मेषकर्कटयोर्मध्ये तोयं दत्तं सुशीतलम् । ब्राह्मणार्थे गवार्थे च प्राणास्त्यक्ताश्च तेन हि
अन्यानि च सुकर्माणि कृतानि तेन धीमता । येनादिखंडं सदसि श्रुतं संश्रावितं तथा
स्वर्गखंडं समाधीत्य नानाभोगान्समश्नुते । अंतःपुरगनारीणां सुखसुप्तः प्रबुध्यते
किंकिणीरवसन्नादैस्तथा मधुरभाषणैः । इंद्रस्यार्धासनं भुंक्ते इंद्रलोके वसेच्चिरम्
ततः सूर्यस्य भवनं चंद्रलोकं ततो व्रजेत् । सप्तर्षिभवने भोगान्भुक्त्वा याति ततो ध्रुवम्
ततश्च ब्रह्मणो लोकं प्राप्य तेजोमयं वपुः । तत्रैव ज्ञानमासाद्य निर्वाणं परमृच्छति
सद्भिः सह वसेद्धीमान्सत्तीर्थे स्नानमाचरेत् । कुर्यादेव सदालापं सच्छास्त्रं शृणुयान्नरः
तत्र पाद्मं महाशास्त्रं सर्वाम्नायफलप्रदम् । स्वर्गखंडं च तन्मध्ये महापुण्यफलप्रदम्
भजध्वं गोविंदं नमत हरिमेकं सुरवरं गमिष्यध्वं लोकानतिविमलभोगानतितराम् । शृणुध्वं हे लोका वदत हरिनामैकमतुलं यदीच्छावीचीनां सुखतरणमिष्टानि लभत
इति श्रीपाद्मे महापुराणे स्वर्गखंडे द्विषष्टितमोऽध्यायः
शौनक उवाच । कर्मणा केन भोः सूत चैनसां संक्षयो भवेत् । श्रीहरेश्च कृपा भूयात्तद्वदस्वानुकंपया
सूत उवाच । शृणु शौनक वक्ष्यामि शृण्वतां पापनाशनम् । येन विष्णोः कृपा स्याद्वै वृजिनक्षयकारिणी
पौर्णमास्यां तु यो विप्र भक्तिभावसमन्वितः । कुर्य्यान्नानाविधानेन सपर्य्यां श्रीजगद्विभोः
कलुषं तस्य नश्येत कोटिजन्मार्जितं मुने । तस्मिन्श्रीरमणस्यास्य कृपा जाता भवेद्ध्रुवम्
द्वादश्यामन्नदानं यो भक्त्या कुर्याद्द्विजातये । तस्य नश्यंति पापानि तमांसी वारुणोदये
यो नरः श्रीहरिं कुर्यात्स्नपनं पयसा द्विज । तत्प्रीतिः श्रीहरेः सद्यो द्वादश्यां शर्करादिभिः
मंत्रं विना तु यो विप्र दद्याच्छ्रीहरये किल । पाषाणसदृशं पुष्पं दाता याति अधोगतिम्
क्ष्मासुराय च मूर्खाय पाषाणसदृशं तु यत् । दद्याद्दानं नरो यो वै तस्य पुण्यं न विद्यते
विद्याहीनो द्विजो मोहाद्दानं गृह्णाति मूढधीः । कालानलं यथा जीर्णं तेन स निरयं व्रजेत्
यथा दारुमयो हस्ती मृगश्चित्रमयो यथा । विद्याहीनो द्विजो विप्र त्रयस्ते नामधारकाः
यथाध्वनिस्थितं वारि पवनार्केण शुद्ध्यति । भक्त्या तु पार्षदं दृष्ट्वा तस्य नश्यति कल्मषम्