मुकुंद उवाच-। ममैव परिपाकोऽयं पूर्वोपार्जितकर्मणाम् । न कश्चित्सुखदुःखस्य दाता कस्यापि देहिनः
धर्मोऽधर्मश्च तावेव तेषां मूलं पुराकृतौ । नारद उवाच- इत्युक्त्वा स तु भूयस्यापीडया गाढपीडितः
तत्याज भूपते प्राणान्पश्यतां सुहृदां तदा । विललाप तदा तस्य माता द्विजसती नृप
निधाय तच्छिरः स्वांके कुंडलाभ्यामलंकृतम् । मातोवाच- हा हतास्मि त्वया वत्स दशामंत्यां च गच्छता
दिनश्रीरिव सूर्येण पश्चिमाचललंबिना । यदंगं चंदनालेपयोग्यं तव महामते
मां मज्जयार्तिशोकाब्धौ तदिदं धूलिधूसरम्
तांबूलचर्वणेभ्यासो यस्त्वया विहितस्त्वसौ । स एव रुधिरोद्गार मिश्रेण क्रियते ध्रुवम् । तव ये लोचने पूर्वं जिग्यतुः कमलश्रियम्
त एव सांप्रतं जाते तिमिरौघा वृते इव । उत्तिष्ठोत्तिष्ठ वत्स त्वं शिष्यानध्यापयात्मनः
यथावद्वैश्वदेवांते पूजयातिथिमागतम् । द्वारि स्थिता वयस्यास्ते त्वाह्वयंति प्रयाहि तान्
दातव्यं यद्ददस्वैभ्यो गृहीतव्यं गृहाण तत् । हाहा देहि प्रतिवचः पतामि तव पादयोः
नोचेदहं विमोक्ष्यामि प्राणांस्तव समीपतः । नारद उवाच- इत्युक्त्वा मूर्छिता तस्य मुकुंदस्य प्रसूस्तदा
भार्या तस्य शिरः स्वांके विधाय व्यलपच्च सा । भार्योवाच- नाममार्गेण पाथोधे मदीयं वचनं शृणु
रुष्टोऽसि चेत्समं मात्रा कुतो वद ममाग्रतः । न कदाचित्त्वया साधो मौनमीदृक्कृतं पुरा । केनापि लघुना भ्रात्रा ह्यपमानः कृतस्तव
शुकोऽयं पंजरस्थस्ते नान्नमत्ति त्वया विना । भोजयैनं सुसिद्धान्नं कलवाचं च सारिकाम्
रामराम हरेकृष्ण विष्णो नामावलीमिति । पाठयोत्तिष्ठ निपुणौ द्वावेतौ सारिकाशुकौ
अपराद्धं मया किं ते यत्वं मां नाभिभाषसे । यत्त्वया मे धनं दत्तं तन्मया साधुरक्षिणम्
अर्पितं यत्त्वया नाथ निजतेजो ममोदरे । सूतिकालमहं तस्य नोपेक्षे त्वामनुव्रजे
नारद उवाच- एवं विलप्य सा तस्य मुकुंदस्य प्रिया तदा । न रुरोद स्वभर्तारमनुगंतुमना सती
अथ तस्य मुकुंदस्य गुरुर्वेदायनाभिधः । संन्यासी पर्यटन्पृथ्वीं तस्य वेश्म ययौ नृप
मुकुंदः क्व गतो माता भार्या तस्य च धीमतः । न दृश्यते तदा तेन पृष्टेत्याचष्ट चेटिका
चेटिकोवाच । स्वामिन्केनापि चौरेण मम स्वामी हतो निशि । स्नुषाया भूषणं नीतं दुकूलानि च सर्वशः
स मृतः पतितो भूमौ हर्म्यस्योपरि तिष्ठति । तस्य माता वधूश्चैव भ्रातरश्च तदंतिके
विलपंति महाशोकसागरे पतिता गुरो । नारद उवाच- इत्याकर्ण्य परिव्राट्स वचनं चेटिकोदितम्
आरुह्य हर्म्यमद्राक्षीदात्मांते वासिनं मृतम् । तदंतिके समालोक्य बंधूनां क्रंदतो भृशम्
उद्धरिष्यन्निदं धीरः शोकाब्धेस्तानुवाच ह । वेदायन उवाच- देहमुद्दिश्य वात्मानं शोकोऽयं क्रियते त्वया
मातः कथय सत्यं मे नोभयोर्युज्यते हि सः । देहोऽयं भूतसंघातः प्रारब्धेः समुपार्जितः
तेषु क्षीणेषु भूतानां पृथक्त्वमुपजायते । यदेकीभवनं तेषां कर्मभिर्जन्म तन्नृणाम्
तन्नाशे तत्पृथक्त्वं च तदेव मरणं स्मृतम् । एक्यं पृथक्त्वं भूतानां कर्मार्धा नेयतो? बुधैः
अतो देहे न कर्तव्यः शोकः परवशे जडे । अनाद्यविद्यया जीवे दृष्टे मरणजन्मनी
देहस्यात्मन्यहं बुद्ध्या मन्यते नहि तत्र ते । तन्निवृत्तौ स तद्ब्रह्म यच्छुद्धं रूपवर्जितम्