स्तेन नास्तिकयोरन्नं देवतानिंदकस्य च । सोमविक्रयिणश्चान्नं श्वपाकस्य विशेषतः
भार्य्याजितस्य चैवान्नं यस्य चोपपतिर्गृहे । उत्सृष्टस्य कदर्यस्य तथैवोच्छिष्टभोजिनः
पापीयोन्नं च संघान्नं शस्त्राजीवस्य चैव हि । भीतस्य रुदितस्यान्नमवक्रुष्टं परिक्षतम्
ब्रह्मद्विषः पापरुचेः श्राद्धान्नं मृतकस्य च । वृथापाकस्य चैवान्नं शावान्नं चातुरस्य च
अप्रजानां तु नारीणां कृतघ्नस्य तथैव च । कारुकान्नं विशेषेण शस्त्रविक्रयिणस्तथा
शौंडान्नं घांटिकान्नं च भिषजामन्नमेव च । विद्वत्प्रजननस्यान्नं परिवेत्रन्नमेव च
पुनर्भुवो विशेषेण तथैव दिधिषूपतेः । अवज्ञातं चावधूतं सरोषं विस्मयान्वितम्
गुरोरपि न भोक्तव्यमन्नं संस्कारवर्जितम् । दुष्कृतं हि मनुष्यस्य सर्वमन्ने व्यवस्थितम्
यो यस्यान्नं समश्नाति स तस्याश्नाति किल्बिषम् । अर्द्धका कुलं मित्रं च गोपालो वाहनापि तौ
एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत् । कुशीलवः कुंभकश्च क्षेत्रकर्मक एव च
एते शूद्रेषु भोज्यान्ना दृष्ट्वा स्वल्पगुणं बुधैः । पायसं स्नेहपक्वं च गोरसश्चैव सक्तवः
पिण्याकं चैव तैलं च शूद्राद्ग्राह्यं द्विजातिभिः । वृंताकं नालिकाशाकं कुसुंभं भस्मकं तथा
पलांडुं लशुनं शुक्तं निर्य्यासं चैव वर्जयेत् । छत्राकं विड्वराहं च स्विन्नं पीयूषमेव च
विलयं विमुखं चैव कोरकाणि विवर्जयेत् । गृंजनं किंशुकं चैव कूष्मांडं च तथैव च
उदुंबरमलाबुं च जग्ध्वा पतति वै द्विजः । तथा कृसरसंयावौ पायसापूपमेव च
अनुपाकृत मांसं च देवान्नानि हवींषि च । यवागूं मातुलिगं च मत्स्यानप्यनुपाकृतान्
नीपं कपित्थं प्लक्षं च प्रयत्नेन विवर्जयेत् । पिण्याकं चोद्धृतस्नेहं देवधान्यं तथैव च
रात्रौ च तिलसंबंधं प्रयत्नेन दधि त्यजेत् । नाश्नीयात्पयसा तक्रं नाभक्ष्यानुपयोजयेत्
कृमिदुष्टं भावदुष्टं मृत्संसर्गं च वर्जयेत् । कृमिकीटावपन्नं च सुहृत्क्लेदं च नित्यशः
श्वाघ्रातं च पुनः सिद्धं चंडालावेक्षितं तथा । उदक्यया च पतितैर्गवा संघ्रातमेव च
असंगतं पर्य्युषितं पर्यस्तान्नं च नित्यशः । काककुक्कुटसंस्पृष्टं कृमिभिश्चैव संगतम्
मनुष्यैरप्यवघ्रातं कुष्ठिना स्पृष्टमेव च । न रजस्वलया दत्तं न पुंश्चल्या सरोगया
मलवद्वाससा वापि परवासोथ वर्जयेत् । विवत्सायाश्च गोक्षीरं मेषस्यानिर्दशस्य च
आविकं संधिनीक्षीरमपेयं मनुरब्रवीत् । बलाकं हंसदात्यूहं कलविंकं शुकं तथा
कुरुरं च चकोरं च जालपादं च कोकिलम् । वायसान्खंजरीटांश्च श्येनं गृध्रं तथैव च
उलूकं चक्रवाकं च भासं पारावतं तथा । कपोतं टिट्टिभं चैव ग्रामकुक्कुटमेव च
सिंहं व्याघ्रं च मार्जारं श्वानं सूकरमेव च । शृगालं मर्कटं चैव गर्द्दभं न च भक्षयेत्
न भक्षयेत्सर्पमृगाञ्छिखिनोन्यान्वनेचरान् । जलेचरान्स्थलचरान्प्राणिनश्चेति धारणा
गोधा कूर्मः शशः खड्गः सल्लकश्चेति सत्तमाः । भक्ष्यान्पंचनखान्नित्यं मनुराह प्रजापतिः
मत्स्यान्सशल्कान्भुंजीत मांसं रौरवमेव च । निवेद्य देवताभ्यस्तु ब्राह्मणेभ्यश्च नान्यथा