गोविंदाराधने सम्यग्यथा वै सौख्यमिंद्रियम् । माहात्म्यश्रवणादस्या द्वारकायास्तथा नृप
सूर्येंदुग्रहणे दानात्सुवर्णपलविंशतेः । यत्फलं शृण्वतैतस्या माहात्म्यं तदवाप्यते
विमलस्य सुतप्राप्तिं श्रुत्वा सुत इहाप्यते । तत्सख्युर्भक्तिलाभं च लभ्यते भक्तिरुत्तमा
राक्षसीनां विमोक्षं यः शृणोति श्रद्धयान्वितः । स याति ता इव श्रेष्ठं विमानेन सुरालयम्
नृपवरमहिमा ते वर्णितो द्वारकायास्त्रिभुवनजनसेव्या शक्रतीर्थस्थितायाः । किमपरमतिपुण्यं वर्णयामि त्वदग्रे कथय न हि विधेयः श्रेयसि स्वे विलंबः
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिन्दी। माहात्म्ये द्वारकायाख्यानंनाम अष्टाधिकद्विशततमोऽध्यायः
युधिष्ठिर उवाच- सौभरे कस्य तीर्थस्य माहात्म्यं नारदो मुनिः । वर्णयामास शिबये शक्रतीर्थगतस्य च
अतस्तु मम शुश्रूषा जायते मुनिपुंगवः । शिविनारदसंवादं ब्रूहि पुण्यं नताय मे
सौभरिरुवाच- धर्मराज शिबीराजा श्रुत्वा नारदवर्णितम् । द्वारकायास्तु माहात्म्यं तमेवापृच्छदादरात्
शिबिरुवाच- ब्रह्मांगज सुरश्रेष्ठ श्रुतं माहात्म्यमुत्तमम् । इंद्रप्रस्थतटस्थाया द्वारकाया मयाद्भुतम्
अयोध्यायां यदि मुने किंचिदस्ति पवित्रकम् । चरितं मम तद्ब्रूहि पिपासोस्त्वद्वचोऽमृतम्
नारद उवाच- अस्त्यत्र चरितं पुण्यं महापातकनाशनम् । नापितस्याद्ययुक्तस्य मुकुंदस्य द्विजस्य च
ब्रह्महा नापितो राजन्नपमृत्युं गतो द्विजः । प्रसादात्कोशलायास्तु द्वावपि स्वर्गतिं गतौ
चंद्रभागा नदी तीरे पुरी सा च निवेशिता । तत्रास्ति नापितः पापश्चंडकोनाम गर्हितः
चौर्येण परवित्तानामपहर्ता स पापकृत् । घातकः शस्त्रपाशाद्यैः पांथानामवलुंठकः
द्यूतमद्यरतो नित्यं परस्त्रीलंपटेंद्रियः । भित्वा देवालयं भित्तिमिष्टिका ग्राव विक्रयी
स तस्योद्वसिताभ्यासे ब्राह्मणो वसति श्रिया । संयुक्तो ब्रह्मकर्मज्ञो मुकुंदो नामतो नृप
स एकदा समालिंग्य तरुणीमात्मयोषितम् । सुष्वाप सुरतायास श्लथांगो निशि निर्भयम्
स चंडको निशीथेऽथ प्रविवेश तदालयम् । मुकुंदस्य समाहर्तुं हर्म्ये भूषादि वस्तु यत्
उपकार्या बहिस्थं यत्तद्गृहीत्वोऽगमद्गृहम् । स्वकीयं च पुनस्तस्य ब्राह्मणस्याविशद्गृहम्
कपाटोत्पाटनार्थी तु यत्नेन महताऽभवत् । लोहयंत्रावरुद्धश्च स नोद्धाटयितुं क्षमः
आरुरोह तदा तस्य ब्राह्मणस्याविशद्गृहम् । प्रविश्य तद्गृहं क्रूरः कृपणं पाणिनादधत्
अट्टालिकां स पापिष्ठो नापितस्तस्करक्रियः । तत्रापश्यत्प्रसुप्तौ तौ दंपतीरतिविह्वलौ
जगाम च तयोः पार्श्वे हेमभूषाजिघृक्षया । शय्याया एकदेशस्थं गृहीत्वा भूषणं बहु
हर्तुं तदंगतो हस्तं प्रससार स नापितः । तस्करस्पर्शतो विप्रो जजागार भयातुरः
न किंचिदूचे संमील्य नेत्रे तत्रैव संस्थितः । यदा स तस्करः पापो गृहीत्वा देहभूषणम्
चलितः स तदा तेन दोर्भ्यामात्तो द्विजेन हि । पश्चादागत्य वित्तस्यासहमानेन संक्षयम्
तेनापि नृप चौरेण कृपाणेन हतो द्विजः । विदीर्णोदरमध्यस्तु तातमातरितीरयन्
वदंतः किंकिमेत्येतत्पार्श्वं तस्या ययुर्जनाः । ददृशुस्तं निःसृतांत्रं रुधिरालिप्तविग्रहम्
पप्रच्छुश्च मुकुंदेदं कर्म केनेदृशं कृतम् । सोऽपि कृच्छ्रेण महता प्रोवाचेदं स्वबांधवान्