न धर्मशास्त्रेष्वन्येषु सर्वाण्येतानि वर्जयेत् । एष धर्मः समासेन कीर्तितो ब्रह्मचारिणः
ब्रह्मणाऽभिहितः पूर्वमृषीणां भावितात्मनाम् । योऽन्यत्र कुरुते यत्नमनधीत्य श्रुतिं द्विजः
स संमूढो न संभाष्यो वेदबाह्यो द्विजातिभिः । न वेदपाठमात्रेण संतुष्टो वै भवेद्द्विजः
पाठमात्रावसानस्तु पंके गौरिव सीदति । योऽधीत्य विधिवद्वेदं वेदार्थं न विचारयेत्
स संमूढः शूद्रकल्पः पात्रतां न प्रपद्यते । यदित्वात्यंतिकं वासं कर्तुमिच्छति वै गुरौ
युक्तः परिचरेदेनमाशरीरविमोक्षणम् । गत्वा वनं च विधिवज्जुहुयाज्जातवेदसम्
अधीयीत तथा नित्यं ब्रह्मनिष्ठः समाहितः । सावित्रीं शतरुद्रीयं वेदांतांश्च विशेषतः । अभ्यसेत्सततं युक्तो भिक्षाशनपरायणः
एतद्विधानं परमं पुराणं वेदागमे सम्यगिहोदितं वः । पुरा महर्षिप्रवराभिपृष्टः स्वायंभुवो यन्मनुराह देवः
व्यास उवाच- वेदं वेदौ तथा वेदान्वेदांगानि तथा द्विजाः । अधीत्य चाधिगम्यार्थं ततः स्नायाद्द्विजोत्तमः
गुरवे तु धनं दत्वा स्नायीत तदनुज्ञया । तीर्णव्रतोथ युक्तात्मा शक्तो वा स्नातुमर्हति
वैणवीं धारयेद्यष्टिमंतर्वासस्तथोत्तरम् । यज्ञोपवीतद्वितयं सोदकं च कमंडलुम्
छत्रं चोष्णीषममलं पादुके चाप्युपानहौ । रौक्मे च कुंडले धार्ये कृत्तकेशनखः शुचिः
अन्यत्र कांचनाद्विप्रो न रक्तां बिभृयात्स्रजम् । शुक्लांबरधरो नित्यं सुगंधः प्रियदर्शनः
न जीर्ण मलवद्वासा भवेद्वै विभवे सति । न रक्तमुल्बणं चान्य धृतं वासो न कुंडलम्
नोपानहौ स्रजं चाथ पादुके च प्रयोजयेत् । उपवीतमलंकारं दर्शयन्कृष्णमाजिनम्
नापसव्यं परीदध्याद्वासो न विकृतं वसेत् । आहरेद्विधिवद्दारान्सदृशानात्मनः शुभान्
रूपलक्षणसंयुक्तान्योनिदोषविवर्जितान् । अपितृगोत्रजभवामन्यमानुषगोत्रजाम्
आहरेद्ब्राह्मणो भार्यां शीलशौचसमन्विताम् । ऋतुकालाभिगामी स्याद्यावत्पुत्रोभिजायते
वर्जयेत्प्रतिषिद्धानि प्रयत्नेन दिनानि तु । षष्ठ्यष्टमीं पंचदशीं द्वादशीं च चतुर्दशीम्
ब्रह्मचारी भवेन्नित्यं तद्वज्जन्मत्रयाहनि । आदधीत विवाहाग्निं जुहुयाज्जातवेदसम्
एतानि स्नातको नित्यं पावनानि च पावयेत् । वेदोदितं स्वकं कर्म्म नित्यं कुर्यादतंद्रितः
अकुर्वाणः पतत्याशु नरकानतिभीषणान् । अभ्यसेत्प्रयतो वेदं महायज्ञान्न हापयेत्
कुर्याद्गृह्याणि कार्याणि संध्योपासनमेव च । सख्यं समाधिकैः कुर्यादुपेयादीश्वरं सदा
दैवतान्यभिगच्छेत कुर्य्याद्भार्य्याभिपोषणम् । न धर्मं ख्यापयेद्विद्वान्न पापं गूहयेदपि
कुर्वीतात्महितं नित्यं सर्वभूतानुकंपकः । वयसः कर्म्मणोऽर्थस्य श्रुतस्याभिजनस्य च
देशवाग्बुद्धिसारूप्यमाचरन्विचरेत्सदा । श्रुतिस्मृत्युदितं सम्यक्साधुभिर्यश्च सेवितः
तमाचारं निषेवेत नेहेतान्यत्र कर्हिचित् । येनास्य पितरो याता येन याताः पितामहाः
तेन यायात्सतां मार्गं तेन गच्छन्न दुष्यति । नित्यं स्वाध्यायशीलः स्यान्नित्यं यज्ञोपवीतवान्
सत्यवादी जितक्रोधो लोभमोहविवर्जितः । सावित्रीजाप निरतः श्राद्धकृन्मुच्यते गृही
मातापित्रोर्हिते युक्तो ब्राह्मणस्य हिते रतः । दाता यज्वा देवभक्तो ब्रह्मलोके महीयते