गुरुपत्नी तु युवती नाभिवाद्या तु पादयोः । कुर्वीत वंदनं भूम्यामसावहमिति ब्रुवन्
विप्रोष्य पादग्रहणपूर्वकं चाभिवादनम् । गुरुदारेषु कुर्वीत सतां धर्म्ममनुस्मरन्
मातृष्वसा मातुलानी श्वश्रूश्चाथ पितृष्वसा । संपूज्या गुरुपत्नीवत्समास्ता गुरुभार्यया
भ्रातृभार्याश्च संग्राह्या सवर्णा हन्यहन्यपि । विप्रोष्य तूपसंग्राह्या ज्ञातिसंबंधियोषितः
पितुर्भगिन्या मातुश्च जायस्यां च स्वसर्यपि । मातृवद्वृत्तिमातिष्ठेन्माता ताभ्यो गरीयसी
एवमाचारसंपन्नमात्मवंतमदांभिकम् । वेदमध्यापयेद्धर्म्मं पुराणांगानि नित्यशः
संवत्सरोषिते शिष्ये गुरुर्ज्ञानमनिर्दिशन् । हरते दुष्कृतं तस्य शिष्यस्य वसतो गुरुः
आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः । शक्तोन्नदोंबुदः साधुरध्याप्यादश धर्मतः
कृतकंठस्तथाऽद्रोहः मेधावी गुरुकृन्नरः । आप्तः प्रियोऽथ विधिवत्षडध्याप्या द्विजातयः
एतेषु ब्राह्मणे दानमन्यत्र तु यथोचितम् । आचम्य संयतो नित्यमधीयीत उदङ्मुखः
उपसंगृह्य तत्पादौ वीक्ष्यमाणो गुरोर्मुखम् । अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति चाऽरमेत्
प्राक्कूलान्पर्युपासीत पवित्रैश्चैव पावकः । प्राणायामैस्त्रिभिः पूतस्ततोंकारमर्हति
ब्राह्मणः प्रणवं कुर्यादंतेऽपि विधिवद्द्विजाः । कुर्यादध्यापनं नित्यं सब्रह्मांजलिपूर्वतः
सर्वेषामेव भूतानां वेदश्चक्षुः सनातनः । अधीयीताप्ययं नित्यं ब्राह्मण्याद्धीयतेऽन्यथा
अधीयीत ऋचो नित्यं क्षीराहुत्या सदेवताः । प्रीणाति तर्पयन्कालं कामैर्हूताः सदैवताः
यजूंष्यधीते नियतं दध्ना प्रीणाति देवताः । सामान्यधीते प्रीणाति घृताहुतिभिरन्वहम्
अथर्वांगिरसो नित्यं मध्वा प्रीणाति देवताः । धर्मांगानि पुराणानि मांसैस्तर्पयतेसुरान्
प्रातश्च सायं प्रयतो नैत्यकं विधिमाश्रितः । गायत्रीं समधीयीत गत्वारण्यं समाहितः
सहस्रपरमां देवीं शतमध्यां दशावराम् । गायत्रीं वै जपेन्नित्यं जपयज्ञः प्रकीर्तितः
गायत्रीं चैव वेदांश्च तुलया तोलयत्प्रभुः । एकतश्चतुरोवेदा गायत्रीं च तथैकतः
ॐकारमादितः कृत्वा व्याहृतीस्तदनंतरम् । ततोऽधीयीत सावित्रीमेकाग्रः श्रद्धयान्वितः
पुराकल्पे समुत्पन्ना भूर्भुवः स्वः सनातनाः । महाव्याहृतयस्तिस्रः सर्वाशुभनिबर्हणाः
प्रधानं पुरुषः कालो विष्णुब्रह्ममहेश्वराः । सत्वंरजस्तमस्तिस्रः क्रमाद्व्याहृतयः स्मृताः
ॐकारस्तत्परं ब्रह्म सावित्री स्यात्तदुत्तरम् । एष मंत्रो महायोगः सारात्सार उदाहृतः
योऽधीतेऽहन्यहन्येतां गायत्रीं वेदमातरम् । विज्ञायार्थं ब्रह्मचारी स याति परमां गतिम्
गायत्री वेदजननी गायत्री लोकपावनी । गायत्र्या न परं जप्यमेतद्विज्ञायमुच्यते
श्रावणस्य तु मासस्य पौर्णमास्यां द्विजोत्तमाः । आषाढ्यां प्रोष्ठपद्यां वा वेदोपाकरणं स्मृतम्
यत्सूर्ययाम्यगमनं मासान्विप्रोर्द्धपंचमान् । अधीयीत शुचौ देशे ब्रह्मचारी समाहितः
पुष्ये तुच्छंदसां कुर्याद्बहिरुत्सर्जनं द्विजः । मासि शुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमेऽहनि
छदांसि च द्विजोऽभ्यस्येच्छुक्लपक्षे तु वै द्विजः । वेदांगानि पुराणानि कृष्णपक्षेषु मानवः