पितृभ्यस्तुलसीपुष्पचंदनोदकपूजितान् । कोशलां शरयूं वारिकर्णधारनभस्वता
पवित्रिताखिलजनांस्पर्शनेनाहमागमम् । तत्रास्ति गोप्रताराख्यं तीर्थं त्रिदशदुर्ल्लभम्
तत्र स्नानादिकं कर्म निशाचर्यः कृतं मया । ततः काशीमहंप्राप्तो राजधानीमुमापतेः
नत्वा विश्वेश्वरं देवं बिंदुमाधवमेव च । स्नातं मणिकर्णिकायां ज्ञानवाप्यां च भक्तितः
त्रिरात्रिमुषितस्तत्र प्रयागं पुनरागमम् । पौषशुक्लचतुर्दश्यां साक्षाद्यत्र प्रजापतिः
एकस्मिन्माघमासे तु स्नानं कृत्वाऽरुणोदये । पुनस्तस्मात्समायातो नैमिषं गोमतीतटे
यत्र तीर्थानि सर्वाणि वसंति च स्वमायया । ततोऽहं मथुरां प्राप्तो यत्र विश्रांतिसंज्ञकम्
तीर्थं तत्सन्निधौ पुण्यमसिकुंडाख्यमुत्तमम् । कृष्णगंगा ध्रुवाक्रूर केशिकालीयतीर्थभृत्
यमुनास्ति महापुण्या यत्र सर्वार्थदायिनी । उभयोः कूलयोस्तस्या वनानि द्वादश श्रिया
राजमानानि खेचर्यः समस्तार्थकराणि च । संति तेषु नरः स्नात्वा पीत्वा भूयो न जायते
ततोहमागमं पुण्यं हस्तिनापुरमुत्तमम् । यत्र श्रीपतिपादाब्ज जाता गंगा सरिद्वरा
ततो नारायणस्थानं हिमवद्भूमिसंस्थितम् । आगत्य माधवं दृष्ट्वा केदारमहमागमम्
तत्र संपूज्य विश्वेशं पीत्वा हंसोदकं पुनः । हरिद्वारं महापुण्यमागमं जाह्नवीतटे
तत्र स्नात्वापितॄन्देवानृषीन्संतर्प्य चाप्यहम् । समागतः कुरुक्षेत्रे यत्र प्राची सरस्वती
तत्राप्यहं क्रियाः सर्वाः कृतवान्नियतेंद्रियः । अर्चयित्वा च पादाब्जं श्रीपतेः पुष्करं प्रति
चलितो मार्गमध्ये तु विमलो नाम मे सखा । मिलितो मां व्रजन्गेहमिंद्रप्रस्थात्तु तीर्थतः
नीतोऽहं तेन राक्षस्यः पुनस्तत्र द्विजन्मना । तीर्थेति मे परावृत्य शक्रप्रस्थेऽखिलार्थदे
तत्रास्ति द्वारका पुण्या निर्मिता विष्णुना स्वयम् । तत्रावलोकितः साक्षाद्विष्णुर्वाक्यान्नरूपतः
तत्राहं स च संस्नातौ विष्णुभक्तिप्रलब्धये । दत्ता सा विष्णुना मह्यं तस्मै च कृष्णमूर्तिना
श्रुत्वा तत्र हरेर्वाणी न रूपं वै विलोकितम् । भक्तिर्लब्धा ततः स्थानाद्यमहं पुष्करं प्रति
तस्य तीर्थाधिपस्येदं द्वारकाख्यस्य वै जलम् । कमंडलुगतं पुण्यं निशाचर्यो वदाम्यहम्
भवतीभिरहं पृष्टो यत्तदाख्यातमेव मे । दृष्ट्वा वो दुर्दशामेतां कृपा मे जायते हृदि
उच्यतां किं करोम्यद्य भवतीनां वशो ह्यहम् । ज्ञानं भवतु युष्माकमिति ताः सिषिचेंभसा
तास्तज्जलाभिमर्शात्तु सर्वेषां जन्मकर्मणां । संस्मृत्य तत्यजुश्चैव राक्षसं देहमुल्बणम्
आसाद्य देवतादेहं विमानं सप्तमागतम् । आरुह्याप्सरसो भूत्वा ताः प्रणेमुर्द्विजन्मने
ऊचुश्च भो द्विजश्रेष्ठ द्वारकाजलसंगमात् । राक्षसत्वाद्वयं मुक्ता गच्छामस्त्रिदशालयम्
इंद्रप्रस्थांतरावर्तिन्येषा या द्वारका द्विज । नातः परतरं लोकेऽन्यत्तीर्थमखिलार्थदम्
नारद उवाच- इत्युक्त्वा ताःसमारूढा विमानेषु महीपते । जग्मुः प्रार्चीं दिशं तेन दत्ताज्ञा वै द्विजन्मना
यमुनातीरवर्तिन्या द्वारकाया महीपते । शृण्वन्माहात्म्यमेतस्या नरः पापैः प्रमुच्यते
वेदज्ञानां ब्राह्मणानां शतस्येच्छासु भोजनात् । यत्फलं श्रवणादस्मान्महिम्नस्तत्प्रजायते