राक्षस्य ऊचुः । येषु तीर्थेषु विप्रेंद्र त्वया स्नातं वदस्व नः । तानि सर्वाणि पुण्यानि मोचयातः कुजन्मनः । अस्मानतितरां तृष्णा क्षुद्भ्यां दारुणदुःखदात्
ब्राह्मण उवाच- अवंतीमाश्रमात्पूर्वमहं हरिपुरीमितः । गतोऽहं द्वारकां तस्मात्स्नात्वा सोमोद्भवा जले
ततः प्राप्तः प्रभासाख्यं तीर्थं नीरधितीरगम् । तस्मात्सेतुनिबंधेऽहं स्नातः परमपावने
तस्मादहं महापुण्यां किष्किंधां समुपागतः । हतो यत्र तु रामेण वाली कपिगणेश्वरः
तस्मान्मठं सरस्वत्यानर्मदातीरसंस्थितम् । समागतोऽहं यत्रास्ति भारती सर्वसेविता
ततोऽहंमावेशंवेणींतांनत्वादक्षिणापथे । शिवकांची विष्णुकांच्यौ दृष्टे तत्र मया पुरौ
ययोर्मरणतो जंतुः शिवो विष्णुश्च जायते । ततोऽहंमुत्कलं प्राप्तो यत्रास्ति हरिरीश्वरः
चतुर्वर्गप्रदः साक्षाद्भक्तानामपि कांक्षितम् । तमर्चयित्वा विधिवद्भक्षयित्वा निवेदितम्
प्रसादभूतं तस्यैव गंगासागरसंगमम् । तत्र देवानृषीन्पितॄंस्तर्पयित्वा यथाविधि
यत्र गंगाशतमुखी जाता तत्राहमागमम् । ततो गयामुपागत्य पिंडान्दत्त्वा यथाविधि
पितृभ्यस्तुलसीपुष्पचंदनोदकपूजितान् । कोशलां शरयूं वारिकर्णधारनभस्वता
पवित्रिताखिलजनांस्पर्शनेनाहमागमम् । तत्रास्ति गोप्रताराख्यं तीर्थं त्रिदशदुर्ल्लभम्
तत्र स्नानादिकं कर्म निशाचर्यः कृतं मया । ततः काशीमहंप्राप्तो राजधानीमुमापतेः
नत्वा विश्वेश्वरं देवं बिंदुमाधवमेव च । स्नातं मणिकर्णिकायां ज्ञानवाप्यां च भक्तितः
त्रिरात्रिमुषितस्तत्र प्रयागं पुनरागमम् । पौषशुक्लचतुर्दश्यां साक्षाद्यत्र प्रजापतिः
एकस्मिन्माघमासे तु स्नानं कृत्वाऽरुणोदये । पुनस्तस्मात्समायातो नैमिषं गोमतीतटे
यत्र तीर्थानि सर्वाणि वसंति च स्वमायया । ततोऽहं मथुरां प्राप्तो यत्र विश्रांतिसंज्ञकम्
तीर्थं तत्सन्निधौ पुण्यमसिकुंडाख्यमुत्तमम् । कृष्णगंगा ध्रुवाक्रूर केशिकालीयतीर्थभृत्
यमुनास्ति महापुण्या यत्र सर्वार्थदायिनी । उभयोः कूलयोस्तस्या वनानि द्वादश श्रिया
राजमानानि खेचर्यः समस्तार्थकराणि च । संति तेषु नरः स्नात्वा पीत्वा भूयो न जायते
ततोहमागमं पुण्यं हस्तिनापुरमुत्तमम् । यत्र श्रीपतिपादाब्ज जाता गंगा सरिद्वरा
ततो नारायणस्थानं हिमवद्भूमिसंस्थितम् । आगत्य माधवं दृष्ट्वा केदारमहमागमम्
तत्र संपूज्य विश्वेशं पीत्वा हंसोदकं पुनः । हरिद्वारं महापुण्यमागमं जाह्नवीतटे
तत्र स्नात्वापितॄन्देवानृषीन्संतर्प्य चाप्यहम् । समागतः कुरुक्षेत्रे यत्र प्राची सरस्वती
तत्राप्यहं क्रियाः सर्वाः कृतवान्नियतेंद्रियः । अर्चयित्वा च पादाब्जं श्रीपतेः पुष्करं प्रति
चलितो मार्गमध्ये तु विमलो नाम मे सखा । मिलितो मां व्रजन्गेहमिंद्रप्रस्थात्तु तीर्थतः
नीतोऽहं तेन राक्षस्यः पुनस्तत्र द्विजन्मना । तीर्थेति मे परावृत्य शक्रप्रस्थेऽखिलार्थदे
तत्रास्ति द्वारका पुण्या निर्मिता विष्णुना स्वयम् । तत्रावलोकितः साक्षाद्विष्णुर्वाक्यान्नरूपतः
तत्राहं स च संस्नातौ विष्णुभक्तिप्रलब्धये । दत्ता सा विष्णुना मह्यं तस्मै च कृष्णमूर्तिना
श्रुत्वा तत्र हरेर्वाणी न रूपं वै विलोकितम् । भक्तिर्लब्धा ततः स्थानाद्यमहं पुष्करं प्रति