भक्षयित्वा ततो रक्तं पीत्वा यास्यामि जीवितम् । अन्या प्राह कियद्द्रव्यं विद्यतेऽस्य गजानने
मम व्याघ्राननायास्तु पानायापि न दृश्यते । अन्या वै रथचक्राख्या श्रूयतां वचनं मम
करिष्ये कुंडलमहं केनांत्रैरस्य मेखलाम् । अन्यावददहं दंतैरेकतः श्यामलीकृतैः
रमे षोडशभिर्द्यूतशालायां तद्विशारदः । इत्युक्त्वा ताः मिथः सर्वास्तंद्विजं प्रति दुद्रुवुः
विवृतास्या ललज्जिह्वाः प्रद्योतैकमहाभुजाः । आयांतीस्ताः समालोक्य ब्राह्मणो भयविह्वलः
आत्मानमभितश्चक्रे रक्षां वेदोदितां नृप । ता आगत्य स्थिता दूरं राक्षस्यो भीमविक्रमाः
तेजसा तस्य मंत्रैश्च प्रत्यादिष्टा नराधिपः । ऊचुश्च को भवानत्र कुतः प्राप्तोऽसि तद्वद
त्वद्दर्शनान्मनोऽस्माकं प्रसादमधिगच्छति । त्वत्पादस्पर्शनात्किं नो न विप्र भविता फलम् । अतो मूर्द्धसु नो देहि स्वकीयं पादपंकजम्
नारद उवाच- इत्याकर्ण्य वचस्तासां जगाद हरिदत्तजः । द्विज उवाच- कृत्वा पवित्रतीर्थानि ब्राह्मणोऽहं समागतः
सांप्रतं पुष्करं यामि भवतीभिः किमिच्छते । यतस्तत्प्रार्थ्यतां दातुं शक्तो दास्यामि चेत्तदा
राक्षस्य ऊचुः । येषु तीर्थेषु विप्रेंद्र त्वया स्नातं वदस्व नः । तानि सर्वाणि पुण्यानि मोचयातः कुजन्मनः । अस्मानतितरां तृष्णा क्षुद्भ्यां दारुणदुःखदात्
ब्राह्मण उवाच- अवंतीमाश्रमात्पूर्वमहं हरिपुरीमितः । गतोऽहं द्वारकां तस्मात्स्नात्वा सोमोद्भवा जले
ततः प्राप्तः प्रभासाख्यं तीर्थं नीरधितीरगम् । तस्मात्सेतुनिबंधेऽहं स्नातः परमपावने
तस्मादहं महापुण्यां किष्किंधां समुपागतः । हतो यत्र तु रामेण वाली कपिगणेश्वरः
तस्मान्मठं सरस्वत्यानर्मदातीरसंस्थितम् । समागतोऽहं यत्रास्ति भारती सर्वसेविता
ततोऽहंमावेशंवेणींतांनत्वादक्षिणापथे । शिवकांची विष्णुकांच्यौ दृष्टे तत्र मया पुरौ
ययोर्मरणतो जंतुः शिवो विष्णुश्च जायते । ततोऽहंमुत्कलं प्राप्तो यत्रास्ति हरिरीश्वरः
चतुर्वर्गप्रदः साक्षाद्भक्तानामपि कांक्षितम् । तमर्चयित्वा विधिवद्भक्षयित्वा निवेदितम्
प्रसादभूतं तस्यैव गंगासागरसंगमम् । तत्र देवानृषीन्पितॄंस्तर्पयित्वा यथाविधि
यत्र गंगाशतमुखी जाता तत्राहमागमम् । ततो गयामुपागत्य पिंडान्दत्त्वा यथाविधि
पितृभ्यस्तुलसीपुष्पचंदनोदकपूजितान् । कोशलां शरयूं वारिकर्णधारनभस्वता
पवित्रिताखिलजनांस्पर्शनेनाहमागमम् । तत्रास्ति गोप्रताराख्यं तीर्थं त्रिदशदुर्ल्लभम्
तत्र स्नानादिकं कर्म निशाचर्यः कृतं मया । ततः काशीमहंप्राप्तो राजधानीमुमापतेः
नत्वा विश्वेश्वरं देवं बिंदुमाधवमेव च । स्नातं मणिकर्णिकायां ज्ञानवाप्यां च भक्तितः
त्रिरात्रिमुषितस्तत्र प्रयागं पुनरागमम् । पौषशुक्लचतुर्दश्यां साक्षाद्यत्र प्रजापतिः
एकस्मिन्माघमासे तु स्नानं कृत्वाऽरुणोदये । पुनस्तस्मात्समायातो नैमिषं गोमतीतटे
यत्र तीर्थानि सर्वाणि वसंति च स्वमायया । ततोऽहं मथुरां प्राप्तो यत्र विश्रांतिसंज्ञकम्
तीर्थं तत्सन्निधौ पुण्यमसिकुंडाख्यमुत्तमम् । कृष्णगंगा ध्रुवाक्रूर केशिकालीयतीर्थभृत्
यमुनास्ति महापुण्या यत्र सर्वार्थदायिनी । उभयोः कूलयोस्तस्या वनानि द्वादश श्रिया
राजमानानि खेचर्यः समस्तार्थकराणि च । संति तेषु नरः स्नात्वा पीत्वा भूयो न जायते