पुनस्ता एव राक्षस्यो बभूवुर्मारवेध्वनि । क्षुधार्ताश्च तृषार्ताश्च दर्शनेन भयप्रदाः
एवं तेन तु पापेन वाङ्मनोविहितेन तु । ताभिर्जन्मद्वयं प्राप्तं राक्षसीयोनिमिश्रितम्
पापेन नाशितं तासां स नृपं नगरद्वयम् । अतएव न कर्त्तव्यं परकांतनिषेवणम्
नारीभिः पापभीताभिर्वाङ्मनोभ्यामपि प्रभो । रोगी जडो दरिद्रो वा नेत्राभ्यां वर्जितोऽपि वा । न त्याज्यः स्वपतिः स्त्रीभिः इच्छंतीभिस्तु सद्गतिम्
कथितमिदं मया मनोवचोभ्यां जनितमघं च यदन्यकांतभक्त्या । फलमपि च यदेव लब्धमाभिस्तदपि शिबे बहुविस्तरेण तुभ्यम्
इंद्रप्रस्थगता न ये ममनघा या द्वारका दृश्यते तास्तस्या जलबिंदुदेहपतनात्पौरस्त्रियो रेभिरे । स्वर्गं चित्तवचोऽन्यकांत भजनाज्जातं विमुच्वोल्बणं क्रव्यादत्वमवाप्य देववनिताभावं सुराह्लाददम्
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये द्वारकावर्णंनंनाम षष्ठाधिकद्विशततमोऽध्यायः
नारद उवाच- विमलस्तं द्विजं नीत्वा द्वारकायामिहागतः । पुनस्तौ सस्नतुं धीरौ श्रीपतेर्भक्तिकाम्यया । भूयः खे मेघगंभीरा वागासीदिति भूपते
आकाशवागुवाच- शृणुतं द्विजशार्दूलौ हरेस्तीर्थमिदं शुभम् । एतत्तीर्थ प्रसादाद्वां विष्णुभक्तिर्भविष्यति । यया जहाति लोकोऽयमविद्या मोहमुल्बणम्
नारद उवाच- निशम्येतिद्विजश्रेष्ठौ तां वाचमशरीरिणीम् । प्रसादोऽयं हरेरासीदित्यूचाते परस्पराम्
स्नात्वा तौ विधिवत्तत्र लब्ध्वा भक्तिं हरेः पराम् । चेलतुः प्रणिपत्येदं भाषमाणौ मिथस्तदा
द्विजावूचतुः । यथावयोर्हि संयोगः पथिजातो विचारतः । यथा गृहकलत्रादि संयोगो भुवि जायते । सांप्रतं विरहोभावी यथा नौ मार्गवर्तिनौ
तथादारसुतादीनां कालव्यास्यवर्तिनाम् । धन्यः स पुरुषो लोके यो दारसुतसंगमम्
विज्ञाय क्षणिकं नित्यं संश्रयेत्श्रीपतिं भजेत् । नारद उवाच- स्मरणं करणीयं मे दासोऽहं त्वत्पदाश्रयः
संदेशः प्रेषणीयो मामित्युक्त्वा स्वगृहं गतौ । शृणु राजन्यथा तेन मित्रेण विमलस्य तु
मोक्षणं राक्षसीनां तु विहितं पथिगच्छता । व्रजन्स ब्राह्मणः प्राप्तस्तं देशं जलवर्जितम्
यत्र ताः पापविप्लुष्टा राक्षस्यः क्षुत्तृषाकुलाः । अथ ताः पथिगच्छंतं दूराद्दृष्ट्वा द्विजोत्तमम्
सजलामत्रहस्तं तं मिथस्त्विति बभाषिरे । राक्षस्य ऊचुः - आयाति पथिकः कश्चिज्जलपात्रं करे दधत्
अस्माकं क्षुत्तृषोः शांतिर्मनागपि भविष्यति । एनं संभक्षयिष्यामः पास्यामोऽस्य करे स्थितम्
पात्रं जलं वयं तृष्णा क्षुधार्ताः शतवर्षतः । नारद उवाच- काचिदाहेत्यहं पूर्वमस्योष्णं कालखंडकम्
भक्षयित्वा ततो रक्तं पीत्वा यास्यामि जीवितम् । अन्या प्राह कियद्द्रव्यं विद्यतेऽस्य गजानने
मम व्याघ्राननायास्तु पानायापि न दृश्यते । अन्या वै रथचक्राख्या श्रूयतां वचनं मम
करिष्ये कुंडलमहं केनांत्रैरस्य मेखलाम् । अन्यावददहं दंतैरेकतः श्यामलीकृतैः
रमे षोडशभिर्द्यूतशालायां तद्विशारदः । इत्युक्त्वा ताः मिथः सर्वास्तंद्विजं प्रति दुद्रुवुः
विवृतास्या ललज्जिह्वाः प्रद्योतैकमहाभुजाः । आयांतीस्ताः समालोक्य ब्राह्मणो भयविह्वलः
आत्मानमभितश्चक्रे रक्षां वेदोदितां नृप । ता आगत्य स्थिता दूरं राक्षस्यो भीमविक्रमाः
तेजसा तस्य मंत्रैश्च प्रत्यादिष्टा नराधिपः । ऊचुश्च को भवानत्र कुतः प्राप्तोऽसि तद्वद
त्वद्दर्शनान्मनोऽस्माकं प्रसादमधिगच्छति । त्वत्पादस्पर्शनात्किं नो न विप्र भविता फलम् । अतो मूर्द्धसु नो देहि स्वकीयं पादपंकजम्
नारद उवाच- इत्याकर्ण्य वचस्तासां जगाद हरिदत्तजः । द्विज उवाच- कृत्वा पवित्रतीर्थानि ब्राह्मणोऽहं समागतः
सांप्रतं पुष्करं यामि भवतीभिः किमिच्छते । यतस्तत्प्रार्थ्यतां दातुं शक्तो दास्यामि चेत्तदा