पुनस्तस्माद्विनिर्गत्य स्थावरत्वं प्रपद्यते । तस्मादपि पशुत्वं सा लभते बहुजन्मसु
ततो मुक्ता मनुष्यत्वे व्यंगा भवति तत्र सा । एवं पापगतिं ज्ञात्वा निवर्तध्वमतो जनात्
नो वा यास्यथ देहांते नरकं भृशदारुणम् । यदिच्छंति भवंत्यो मे सुखं तन्नेह लप्स्यथ । पापमेव हि युष्माकं यतोधःपतनं नृणाम्
नारद उवाच- श्रुत्वैवं वचनं तस्य दृष्ट्वा भर्तृसुखानि च । लज्जयानम्र मुख्यस्ता लतावातहता इव
तासां तु पुरनारीणां स्मराग्निर्भृशदारुणः । शशाम तस्य शीतेन बटोर्वचनवारिणा
उत्थाय चेलुः सर्वास्ता विनिंदंत्य इति स्मरम् । ब्रह्मशक्रादिदेवानामपि मोहकरं नृप
स्त्रिय ऊचुः । धिगिमं पापकर्माणं शीलदारुकुठारकम् । कामवामदृशां प्रीत्यै धन्यो येन हतः स्मरः
किं वदेम जगत्पूज्यां रुक्मिणीं जठरे यया । धृतः प्रद्युम्ननाम्नाऽसौ राहुः स्त्रीशीलचंद्रभुक्
स देवाधम आयाति यदि नो दृष्टगोचरम् । भूयो ध्यानकृतेशान दृगग्नौ तं क्षिपामहे
येनायं जनितः पापो ह्यात्मारामेण विष्णुना । कृतः षोडशसाहस्रस्त्रीप्रियः का हि नः कथा
एवं विनिंद्य तं कामं तुष्टुवुस्तं द्विजोत्तमम् । शीलं स्वस्य च तासां च रक्षितं येन भूपते
धन्या सामुष्य जननी ययायं ब्राह्मणोत्तमः । स्मरजिन्निर्मितो लोके परधर्मस्य रक्षकः
धिगस्तु नो राजलोकैर्हसिताः स्मरनिर्जिताः । याभिर्वाक्यमनोभ्यां च जनितं पापमुल्बणम्
नारद उवाच- एवं विचिंतयंत्यस्ता एक्यमत्ययुताः स्त्रियः । जग्मुः स्वंस्वं गृहं सर्वा द्विजवाक्येन बोधिताः
अथ राजापि कांपिल्यस्तं द्विजं वस्त्रभूषणैः । संपूज्य प्रेषयामास सद्गृहे संयतेंद्रियम्
अथागच्छति काले तु कारूषाधिपतिर्बली । कांपिल्याधिपतिं सैन्यैर्नगरं रुरुधे तदा
तयोर्युद्धमभूद्घोरं तेन युद्धे स घातितः । नगरं लुठितं सर्वं हताः शूराश्च सर्वशः
ता स्त्रियः कालकूटं तु खादित्वा मरणं गताः । प्रायश्चित्तं तु न कृतं ताभिः पापस्य तस्य तु
येन पापेन ताः सर्वा भीषणाख्यस्य रक्षसः । राक्षस्यो नगरे जाता महाकाया भयानकाः
तत्र ता निहिताः सर्वाः पुरनार्यो हनूमता । यज्ञांश्च रसतो जिष्णोस्तिष्ठतां रथकेतने
पुनस्ता एव राक्षस्यो बभूवुर्मारवेध्वनि । क्षुधार्ताश्च तृषार्ताश्च दर्शनेन भयप्रदाः
एवं तेन तु पापेन वाङ्मनोविहितेन तु । ताभिर्जन्मद्वयं प्राप्तं राक्षसीयोनिमिश्रितम्
पापेन नाशितं तासां स नृपं नगरद्वयम् । अतएव न कर्त्तव्यं परकांतनिषेवणम्
नारीभिः पापभीताभिर्वाङ्मनोभ्यामपि प्रभो । रोगी जडो दरिद्रो वा नेत्राभ्यां वर्जितोऽपि वा । न त्याज्यः स्वपतिः स्त्रीभिः इच्छंतीभिस्तु सद्गतिम्
कथितमिदं मया मनोवचोभ्यां जनितमघं च यदन्यकांतभक्त्या । फलमपि च यदेव लब्धमाभिस्तदपि शिबे बहुविस्तरेण तुभ्यम्
इंद्रप्रस्थगता न ये ममनघा या द्वारका दृश्यते तास्तस्या जलबिंदुदेहपतनात्पौरस्त्रियो रेभिरे । स्वर्गं चित्तवचोऽन्यकांत भजनाज्जातं विमुच्वोल्बणं क्रव्यादत्वमवाप्य देववनिताभावं सुराह्लाददम्
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये द्वारकावर्णंनंनाम षष्ठाधिकद्विशततमोऽध्यायः
नारद उवाच- विमलस्तं द्विजं नीत्वा द्वारकायामिहागतः । पुनस्तौ सस्नतुं धीरौ श्रीपतेर्भक्तिकाम्यया । भूयः खे मेघगंभीरा वागासीदिति भूपते
आकाशवागुवाच- शृणुतं द्विजशार्दूलौ हरेस्तीर्थमिदं शुभम् । एतत्तीर्थ प्रसादाद्वां विष्णुभक्तिर्भविष्यति । यया जहाति लोकोऽयमविद्या मोहमुल्बणम्
नारद उवाच- निशम्येतिद्विजश्रेष्ठौ तां वाचमशरीरिणीम् । प्रसादोऽयं हरेरासीदित्यूचाते परस्पराम्