यो ददाति हरेर्धूपं तुलसीकाष्ठसंभवम् । शतक्रतुसमं पुण्यं लभते गोशतं फलम्
नैवेद्यं पच्यते यस्तु तुलसीकाष्ठवह्निना । मेरुतुल्यं भवेद्दत्तं तदन्नं केशवस्य हि
तुलसीपावकेनाथ यो दीपं कुरुते हरेः । दीपलक्षसहस्राणां पुण्यं स लभते फलम्
न तेन सदृशो लोके वैष्णवो भुवि दृश्यते । यः प्रयच्छति कृष्णस्य तुलसीकाष्ठचंदनम्
स जायते कृपापात्रं विष्णोर्वाडवसत्तम
तुलसीदारुजातेन चंदनेन कलौ हरिम् । विलिप्य भक्तितो नित्यं रमते हरिसन्निधौ
तुलसीपंकलिप्तांगः कुरुते विष्णुपूजनम् । पूजाशतदिनैकाह्ना लभ्यते गोशतं फलम्
विलेपार्थे तु कृष्णस्य तुलसीकाष्ठचंदनम् । मंदिरे तिष्ठते यावत्तावत्पुण्यफलं शृणु
तिलप्रस्थाष्टकं दत्वा यत्पुण्यं प्राप्नुयान्नरः । तत्फलं जायते पुंसां प्रसादाच्चक्रपाणिनः
यो ददाति पितॄणां तु पिंडे तुलसिसंभवम् । दलं संजायते तृप्तिः पत्रे पत्रे शताब्दिका
तुलसीमूलमृत्स्नैव स्नानं कुर्याद्विशेषतः । तेन तीर्थे कृतं स्नानं यावच्चांगे च मृत्तिका
तदीय यातु मंजर्या पूजनं च करोति यः । नानापुष्पैः कृता पूजा यावच्चंद्रदिवाकरौ
यस्मिन्गृहेऽवतिष्ठेत तुलसी वृक्षवाटिका । दर्शनात्स्पर्शनाच्चैव ब्रह्महत्यादिपातकम् । तत्सर्वं विलयं याति दर्शनेनैव नारद
महादेव उवाच- अथान्यत्ते प्रवक्ष्यामि शृणुष्वैकाग्रमानसः । न कस्यापि च कथितं शृणु देवर्षिसत्तम
यत्र यत्र गृहे ग्रामे वने वा तुलसी भवेत् । तत्र तत्र जगत्स्वामी प्रीतात्मा च वसेद्धरिः
गृहे तस्मिन्न दारिद्र्यं नायोगो बंधुसंभवः । न दुःखं न भयं रोगस्तुलसी यत्र तिष्ठति
सर्वत्र तुलसी पुण्या पुण्यक्षेत्रे विशेषतः । संनिधौ तस्य देवस्य रोपणात्पृथिवीतले
तेषां विष्णुपदं नित्यं तुलस्यारोपणे कृते । उत्पादान्दारुणान्रोगान्दुर्निमित्तान्यनेकशः । तुलस्याभ्यर्चिते भक्त्या हंत शांतिकरो हरिः
तुलसीगंधमाघ्राय यत्र गच्छति मारुतः । दिशो दश च ताः पूता भूतग्रामश्चतुर्विधः
यस्मिन्गृहे मुनिश्रेष्ठ तुलसीमूलमृत्तिका । सर्वदा तत्र तिष्ठंति देवताश्च शिवो हरिः
तुलसीवनजा छाया यत्र यत्र भवेद्दिवज । तर्पणं कुरुते तत्र पितॄणां दत्तमक्षयम्
तस्य मूले स्थितो ब्रह्मा मध्ये देवो जनार्दनः । मंजर्यां वसते रुद्रः तुलसी तेन पावनी
विना यस्तुलसीं कुर्यात्संध्याकाले तु मार्जनम् । तत्सर्वं राक्षसहृतं नरकं च प्रयच्छति
तुलसीपत्रगलितं तोयं यः शिरसावहेत् । गंगाफलमवाप्नोति शतधेनुफलं लभेत्
शिवालये विशेषेण रोपयेत्तुलसीं यदि । बीजसंख्या वसेत्स्वर्गे प्रत्येकं युगसंख्यया
उमया तु पुरा देवि शंकरार्थं हिमालये । रोपिताः शतवृक्षास्तु तुलस्याः प्रणतोऽस्म्यहम्
पर्वण्यवसरे यस्तु श्रावणे चाथ रोपयेत् । संक्रांतिदिवसे चैव तुलसी चातिपुण्यदा
तुलसीं पूजयेन्नित्यं दरिद्र ईश्वरो भवेत् । सर्वसिद्धिकरामूर्तिः कृष्णः कीर्तिं ददाति च
शालग्रामशिला यत्र तत्र संनिहितो हरिः । तत्र स्नानं च दानं च वाराणस्यां शताधिकम्
कुरुक्षेत्रं प्रयागं च नैमिषारण्यमेव च । तस्य कोटिगुणं पुण्यं शालग्रामशिलार्चनात्