नारद उवाच- एवं वदत्सु पौरेषु स्त्रियस्तेषां समागताः । राजांतिक उपाविष्टा इत्यूचुस्ताः परस्परम्
पौरस्त्रिय ऊचुः । कामं वामाकृतिं विप्रमेनं प्राप्यमनांसि नः । उल्लसंति दिवाधीशं कमलानीव वारिणि
संकुचंति विना तेन कुमुदानि यथेंदुना । आगच्छंतमिलित्वैनंधारयामोनृपाग्रतः
अवध्योऽयं वयं चास्य किं करिष्यति भूपतिः । नारद उवाच- इत्युक्त्वा तास्त्वरावत्यो जगृहुस्तं द्विजोत्तमम्
पश्यतां निजभर्तॄणां राज्ञश्चैव पुरस्तदा । ऊचुश्चैनं मनोनाथ गृहानागच्छ हृच्छयम्
शमयाशु विनाद्यत्वां स्थातुं नैव च शक्नुमः । इत्याकर्ण्य वचस्तासां स विप्रः प्रत्युवाच ह
विप्र उवाच- भवतीनामहं पुत्रो भवत्यो मातरो मम । गृहान्किमर्थमुत्सृज्य भवत्यः पर्यटंति हि
आराधयत नाथान्स्वान्यतो लोकद्वयं ध्रुवम् । आराधितेषु पतिषु विष्णुः सर्वसुरेश्वरः
प्रसन्नो भवति त्वत्र प्रसन्ने किमु दुर्लभम् । या स्त्री स्वपतिमुत्सृज्य सेवतेऽन्यसुखेच्छया
सापवादमवाप्नोति याति घोरां च दुर्गतिम् । उषित्वा तत्र कल्पांते यावत्सा पतिवंचना
पुनस्तस्माद्विनिर्गत्य स्थावरत्वं प्रपद्यते । तस्मादपि पशुत्वं सा लभते बहुजन्मसु
ततो मुक्ता मनुष्यत्वे व्यंगा भवति तत्र सा । एवं पापगतिं ज्ञात्वा निवर्तध्वमतो जनात्
नो वा यास्यथ देहांते नरकं भृशदारुणम् । यदिच्छंति भवंत्यो मे सुखं तन्नेह लप्स्यथ । पापमेव हि युष्माकं यतोधःपतनं नृणाम्
नारद उवाच- श्रुत्वैवं वचनं तस्य दृष्ट्वा भर्तृसुखानि च । लज्जयानम्र मुख्यस्ता लतावातहता इव
तासां तु पुरनारीणां स्मराग्निर्भृशदारुणः । शशाम तस्य शीतेन बटोर्वचनवारिणा
उत्थाय चेलुः सर्वास्ता विनिंदंत्य इति स्मरम् । ब्रह्मशक्रादिदेवानामपि मोहकरं नृप
स्त्रिय ऊचुः । धिगिमं पापकर्माणं शीलदारुकुठारकम् । कामवामदृशां प्रीत्यै धन्यो येन हतः स्मरः
किं वदेम जगत्पूज्यां रुक्मिणीं जठरे यया । धृतः प्रद्युम्ननाम्नाऽसौ राहुः स्त्रीशीलचंद्रभुक्
स देवाधम आयाति यदि नो दृष्टगोचरम् । भूयो ध्यानकृतेशान दृगग्नौ तं क्षिपामहे
येनायं जनितः पापो ह्यात्मारामेण विष्णुना । कृतः षोडशसाहस्रस्त्रीप्रियः का हि नः कथा
एवं विनिंद्य तं कामं तुष्टुवुस्तं द्विजोत्तमम् । शीलं स्वस्य च तासां च रक्षितं येन भूपते
धन्या सामुष्य जननी ययायं ब्राह्मणोत्तमः । स्मरजिन्निर्मितो लोके परधर्मस्य रक्षकः
धिगस्तु नो राजलोकैर्हसिताः स्मरनिर्जिताः । याभिर्वाक्यमनोभ्यां च जनितं पापमुल्बणम्
नारद उवाच- एवं विचिंतयंत्यस्ता एक्यमत्ययुताः स्त्रियः । जग्मुः स्वंस्वं गृहं सर्वा द्विजवाक्येन बोधिताः
अथ राजापि कांपिल्यस्तं द्विजं वस्त्रभूषणैः । संपूज्य प्रेषयामास सद्गृहे संयतेंद्रियम्
अथागच्छति काले तु कारूषाधिपतिर्बली । कांपिल्याधिपतिं सैन्यैर्नगरं रुरुधे तदा
तयोर्युद्धमभूद्घोरं तेन युद्धे स घातितः । नगरं लुठितं सर्वं हताः शूराश्च सर्वशः
ता स्त्रियः कालकूटं तु खादित्वा मरणं गताः । प्रायश्चित्तं तु न कृतं ताभिः पापस्य तस्य तु
येन पापेन ताः सर्वा भीषणाख्यस्य रक्षसः । राक्षस्यो नगरे जाता महाकाया भयानकाः
तत्र ता निहिताः सर्वाः पुरनार्यो हनूमता । यज्ञांश्च रसतो जिष्णोस्तिष्ठतां रथकेतने