तस्य गीतिध्वनिं श्रुत्वा मूर्छनातानसंयुतम् । त्वक्त्वा स्वगृहकार्याणि तमीयुः पौरयोषितः
मोहितास्तस्य रूपेण कामवेगं न सेहिरे । जाता स्खलितवीर्यास्ता गीतं श्रुत्वा समक्षतः
ब्रह्मणो मानसं येन लोभितं भारतीं प्रति । शिवस्यार्द्धशरीरं च पार्वत्यै येन दापितम्
ताभ्यामन्यो जनो लोके वशी वा ज्ञानवानपि । यः स्मरं तं क्षमो जेतुं स्त्रियः प्रकृतिचंचलाः
ताः स्मरावेशमासोढुं न साध्योपि विषेहिरे । वक्तव्यमिति किं राजन्लोके कामो हि दुर्जयः
अथ तास्तत्र तत्रेयुर्यत्र यत्र व्रजत्यसौ । प्रगायन्कंठवीणाभ्यां प्रगायन्स्वरमोहितः
तासां पतिसुतभ्रातृपितरोऽथ नराधिप । आगत्य भर्त्सयित्वा ता निन्युः स्वान्स्वान्गृहान्प्रति
तमन्विष्य पुनस्तास्तु जग्मुः सर्वास्तदंतिके । यदा तदा पौरजना वृत्तं तत्प्राहुरीश्वरे
राजापि तं समाहूय पप्रच्छ रहसि द्विजम् । केन मंत्रेण भो विप्र मोहितास्ताः पुरस्त्रियः
तन्ममाचक्ष्व विप्रेंद्र दास्यामि बहु ते धनम् । नोचेन्निष्कासयामि त्वां निजराज्यान्न संशयः
नारद उवाच- श्रुत्वेति नृपतेर्वाक्यं नृपतिं स द्विजोत्तमः । उवाच सत्यं तस्याग्रे वचोरूपगुणार्णवः
द्विज उवाच- न मंत्रं नौषधं राजन्विद्यते मयि भिक्षुके । किंतु ते नगरे सर्वा योषितो ह्यजितेंद्रियाः
रूपं मम समालोक्य श्रुत्वा गीतध्वनिं तथा । स्मरवेगं सहंते न राजंस्तव पुरे स्त्रियः
किं करोमि महाराज कोऽपराधोस्ति मे विभो । पुराकृतमिवोल्लंघ्यं शासनं न महीपते
नारद उवाच- उशीनरशीबे राजन्नेवं कथयति द्विजे । सर्वे पौराः समेत्याथ प्रावदन्निति भूपतिम्
पौरा ऊचुः - राजन्ननेन विप्रेण मोहिताः पौरयोषितः । गृहेषु न हि तिष्ठंति ह्यस्माभिरनिवारिताः
यद्ययं मोहनः स्त्रीणां नगरे वत्स्यति प्रभो । तदा देशांतराण्येव यास्यामो वयमद्य वै । गतोऽस्माकं वृषो देवो हव्यकव्यक्रियात्मकः
तमनुप्रस्थितात्क्षेत्राद्गौरियं पापिनामिव । विना तं शरणं यातं त्यक्तश्रीभिर्नरेश्वर
अथैनमनुयास्यंति वासिताभिर्वृषं यथा । शून्यालये कथं लक्ष्मीर्यत्नतोप्यवतिष्ठति
धर्मोऽर्थश्च गृहं चैतत् त्रयं स्त्रीवशगं यतः । कांताधर्म धनाधीना तयोर्नाशे न तिष्ठति
नारद उवाच- एवं वदत्सु पौरेषु स्त्रियस्तेषां समागताः । राजांतिक उपाविष्टा इत्यूचुस्ताः परस्परम्
पौरस्त्रिय ऊचुः । कामं वामाकृतिं विप्रमेनं प्राप्यमनांसि नः । उल्लसंति दिवाधीशं कमलानीव वारिणि
संकुचंति विना तेन कुमुदानि यथेंदुना । आगच्छंतमिलित्वैनंधारयामोनृपाग्रतः
अवध्योऽयं वयं चास्य किं करिष्यति भूपतिः । नारद उवाच- इत्युक्त्वा तास्त्वरावत्यो जगृहुस्तं द्विजोत्तमम्
पश्यतां निजभर्तॄणां राज्ञश्चैव पुरस्तदा । ऊचुश्चैनं मनोनाथ गृहानागच्छ हृच्छयम्
शमयाशु विनाद्यत्वां स्थातुं नैव च शक्नुमः । इत्याकर्ण्य वचस्तासां स विप्रः प्रत्युवाच ह
विप्र उवाच- भवतीनामहं पुत्रो भवत्यो मातरो मम । गृहान्किमर्थमुत्सृज्य भवत्यः पर्यटंति हि
आराधयत नाथान्स्वान्यतो लोकद्वयं ध्रुवम् । आराधितेषु पतिषु विष्णुः सर्वसुरेश्वरः
प्रसन्नो भवति त्वत्र प्रसन्ने किमु दुर्लभम् । या स्त्री स्वपतिमुत्सृज्य सेवतेऽन्यसुखेच्छया
सापवादमवाप्नोति याति घोरां च दुर्गतिम् । उषित्वा तत्र कल्पांते यावत्सा पतिवंचना