पितुरत्रोटजे तावत्स्थातव्यं हि मया मम । यावत्तु कर्मणां भुक्तः प्रारब्धानां महीतले
एवं विचिंतयित्वा च पितुः कृत्वा तु सत्क्रियाम् । रक्षसा तेन सहितः स्थितोऽहं मोक्षवांछया
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये चतुरधिकद्विशततमोऽध्यायः
सौभरिरुवाच- धर्मराजशिबिः श्रीमानाकर्ण्य तद्वचो मुनेः । नारदस्याब्रवीत्प्रीतमना इति तमुत्तमम्
शिबिरुवाच- मुने तीर्थवरस्यास्य निगमोद्बोध कस्य ते । माहात्म्यं वर्णितं सम्यक्श्रुतं पापहरं मया
इंद्रप्रस्थेत्र शतशः संति तीर्थानि वै मुने । अन्यस्यापि समाचक्ष्व माहात्म्यं यदि विद्यते
नारद उवाच- इंद्रप्रस्थांतरावर्तिन्येषा या द्वारका नृप । अस्यां पुरा हि यद्वृत्तं तत्ते वच्मि शृणुष्व मे
काम्पिल्येऽथ द्विजः कश्चित् पुष्पेषुर्मूर्तिमानिव । सर्वासां योषितां चित्तहारी स्यादग्रविभ्रमैः
संगीतविद्याकुशलः कोकिलामधुरध्वनिः । एकदा स करे वीणां धारयन्वादयन्मुहुः
कंठेन कोकिलालाप मधुरेण नराधिप । गायन्बभ्राम नगरे प्रतिरथ्यं महामतिः
तस्य गीतिध्वनिं श्रुत्वा मूर्छनातानसंयुतम् । त्वक्त्वा स्वगृहकार्याणि तमीयुः पौरयोषितः
मोहितास्तस्य रूपेण कामवेगं न सेहिरे । जाता स्खलितवीर्यास्ता गीतं श्रुत्वा समक्षतः
ब्रह्मणो मानसं येन लोभितं भारतीं प्रति । शिवस्यार्द्धशरीरं च पार्वत्यै येन दापितम्
ताभ्यामन्यो जनो लोके वशी वा ज्ञानवानपि । यः स्मरं तं क्षमो जेतुं स्त्रियः प्रकृतिचंचलाः
ताः स्मरावेशमासोढुं न साध्योपि विषेहिरे । वक्तव्यमिति किं राजन्लोके कामो हि दुर्जयः
अथ तास्तत्र तत्रेयुर्यत्र यत्र व्रजत्यसौ । प्रगायन्कंठवीणाभ्यां प्रगायन्स्वरमोहितः
तासां पतिसुतभ्रातृपितरोऽथ नराधिप । आगत्य भर्त्सयित्वा ता निन्युः स्वान्स्वान्गृहान्प्रति
तमन्विष्य पुनस्तास्तु जग्मुः सर्वास्तदंतिके । यदा तदा पौरजना वृत्तं तत्प्राहुरीश्वरे
राजापि तं समाहूय पप्रच्छ रहसि द्विजम् । केन मंत्रेण भो विप्र मोहितास्ताः पुरस्त्रियः
तन्ममाचक्ष्व विप्रेंद्र दास्यामि बहु ते धनम् । नोचेन्निष्कासयामि त्वां निजराज्यान्न संशयः
नारद उवाच- श्रुत्वेति नृपतेर्वाक्यं नृपतिं स द्विजोत्तमः । उवाच सत्यं तस्याग्रे वचोरूपगुणार्णवः
द्विज उवाच- न मंत्रं नौषधं राजन्विद्यते मयि भिक्षुके । किंतु ते नगरे सर्वा योषितो ह्यजितेंद्रियाः
रूपं मम समालोक्य श्रुत्वा गीतध्वनिं तथा । स्मरवेगं सहंते न राजंस्तव पुरे स्त्रियः
किं करोमि महाराज कोऽपराधोस्ति मे विभो । पुराकृतमिवोल्लंघ्यं शासनं न महीपते
नारद उवाच- उशीनरशीबे राजन्नेवं कथयति द्विजे । सर्वे पौराः समेत्याथ प्रावदन्निति भूपतिम्
पौरा ऊचुः - राजन्ननेन विप्रेण मोहिताः पौरयोषितः । गृहेषु न हि तिष्ठंति ह्यस्माभिरनिवारिताः
यद्ययं मोहनः स्त्रीणां नगरे वत्स्यति प्रभो । तदा देशांतराण्येव यास्यामो वयमद्य वै । गतोऽस्माकं वृषो देवो हव्यकव्यक्रियात्मकः
तमनुप्रस्थितात्क्षेत्राद्गौरियं पापिनामिव । विना तं शरणं यातं त्यक्तश्रीभिर्नरेश्वर
अथैनमनुयास्यंति वासिताभिर्वृषं यथा । शून्यालये कथं लक्ष्मीर्यत्नतोप्यवतिष्ठति
धर्मोऽर्थश्च गृहं चैतत् त्रयं स्त्रीवशगं यतः । कांताधर्म धनाधीना तयोर्नाशे न तिष्ठति