पित्रोक्तं रक्षसो वृत्तं वाहानां पथिकस्य च । श्रुत्वाऽहं तीर्थराजस्य स्तुतिमस्य चकार वै
पिता मे रोगनिर्मुक्तो भविष्यति यदा तदा । यास्यामि गृहमित्यत्र दशोषितमहानि मे
दशाहाभ्यंतरे तात तातस्य मरणं मम । अभूदर्धजले ह्यस्य तीर्थराजस्य पश्यतः
अथो गरुडमारुह्य वक्षसो धारयन्श्रियम् । आजगाम स्वयं विष्णुर्नवीन घनविग्रहः
पीतवासा चतुर्बाहुः पंकजारुणलोचनः । ब्रह्मेंद्रादिभिरादिव्यैः सनाथैरंधकारिणा
सेव्यमानो गुणग्रामान्गायद्भिः किन्नरैः सह । हाहाहूहूप्रभृतिभिः स्तूयमानश्च सर्वतः
दत्त्वा स्वकीय सारूप्यमारोप्य गरुडं तदा । पितरं मम ब्रह्माद्यैर्वृतो वैकुंठमारुहत्
पितुः सारूप्यमालोक्य विष्णोरहमचिंतयम् । इति चित्ते तदालोक्य जाततत्वोदये तदा
न हि वर्णयितुं शक्यो ह्यस्य तीर्थशिरोमणेः । महिमा यज्जलार्द्धे स्यान्मृतो जंतुश्चतुर्भुजः
न मया सर्वथा त्याज्यं तीर्थराजमिदं ननु । अंजसा दृढमाहात्म्यं धनरोगादितृष्ण्या
पितुरत्रोटजे तावत्स्थातव्यं हि मया मम । यावत्तु कर्मणां भुक्तः प्रारब्धानां महीतले
एवं विचिंतयित्वा च पितुः कृत्वा तु सत्क्रियाम् । रक्षसा तेन सहितः स्थितोऽहं मोक्षवांछया
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये चतुरधिकद्विशततमोऽध्यायः
सौभरिरुवाच- धर्मराजशिबिः श्रीमानाकर्ण्य तद्वचो मुनेः । नारदस्याब्रवीत्प्रीतमना इति तमुत्तमम्
शिबिरुवाच- मुने तीर्थवरस्यास्य निगमोद्बोध कस्य ते । माहात्म्यं वर्णितं सम्यक्श्रुतं पापहरं मया
इंद्रप्रस्थेत्र शतशः संति तीर्थानि वै मुने । अन्यस्यापि समाचक्ष्व माहात्म्यं यदि विद्यते
नारद उवाच- इंद्रप्रस्थांतरावर्तिन्येषा या द्वारका नृप । अस्यां पुरा हि यद्वृत्तं तत्ते वच्मि शृणुष्व मे
काम्पिल्येऽथ द्विजः कश्चित् पुष्पेषुर्मूर्तिमानिव । सर्वासां योषितां चित्तहारी स्यादग्रविभ्रमैः
संगीतविद्याकुशलः कोकिलामधुरध्वनिः । एकदा स करे वीणां धारयन्वादयन्मुहुः
कंठेन कोकिलालाप मधुरेण नराधिप । गायन्बभ्राम नगरे प्रतिरथ्यं महामतिः
तस्य गीतिध्वनिं श्रुत्वा मूर्छनातानसंयुतम् । त्वक्त्वा स्वगृहकार्याणि तमीयुः पौरयोषितः
मोहितास्तस्य रूपेण कामवेगं न सेहिरे । जाता स्खलितवीर्यास्ता गीतं श्रुत्वा समक्षतः
ब्रह्मणो मानसं येन लोभितं भारतीं प्रति । शिवस्यार्द्धशरीरं च पार्वत्यै येन दापितम्
ताभ्यामन्यो जनो लोके वशी वा ज्ञानवानपि । यः स्मरं तं क्षमो जेतुं स्त्रियः प्रकृतिचंचलाः
ताः स्मरावेशमासोढुं न साध्योपि विषेहिरे । वक्तव्यमिति किं राजन्लोके कामो हि दुर्जयः
अथ तास्तत्र तत्रेयुर्यत्र यत्र व्रजत्यसौ । प्रगायन्कंठवीणाभ्यां प्रगायन्स्वरमोहितः
तासां पतिसुतभ्रातृपितरोऽथ नराधिप । आगत्य भर्त्सयित्वा ता निन्युः स्वान्स्वान्गृहान्प्रति
तमन्विष्य पुनस्तास्तु जग्मुः सर्वास्तदंतिके । यदा तदा पौरजना वृत्तं तत्प्राहुरीश्वरे
राजापि तं समाहूय पप्रच्छ रहसि द्विजम् । केन मंत्रेण भो विप्र मोहितास्ताः पुरस्त्रियः
तन्ममाचक्ष्व विप्रेंद्र दास्यामि बहु ते धनम् । नोचेन्निष्कासयामि त्वां निजराज्यान्न संशयः