श्रीतीर्थं च समासाद्य विंदते श्रियमुत्तमाम् । कपिलातीर्थमासाद्य ब्रह्मचारी समाहितः
तत्र स्नात्वार्चयित्वा च देवानिह पितॄंस्तथा । कपिलानां सहस्रस्य फलं विंदति मानवः
सूर्यतीर्थं समासाद्य स्नात्वा नियतमानसः । अर्चयित्वा पितॄन्देवानुपवासपरायणः
अग्निष्टोममवाप्नोति सूर्यलोकं च गच्छति । गवांभवनमासाद्य तीर्थसेवी यथाक्रमम्
तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत् । गंगातीर्थं समासाद्य तीर्थसेवी नराधिप
केव्यास्तीर्थे नरः स्नात्वा लभते वीर्यमुत्तमम् (केव्या पाठभेदाः – कन्या, कोट्या, कोत्या, कोन्या)। ततो गच्छेत राजेंद्र द्वारपालं लवर्णकम्
तस्य तीर्थे सरस्वत्यां यथेंद्रस्य महात्मनः । तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत्
ततो गच्छेत धर्मज्ञ ब्रह्मावर्तं नराधिप । ब्रह्मावर्ते नरः स्नात्वा ब्रह्मलोकमवाप्नुयात्
ततो गच्छेत धर्मज्ञ सुतीर्थकमनुत्तमम् । यत्र सन्निहिता नित्यं पितरो दैवतैः सह
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः । अश्वमेधमवाप्नोति पितृलोकं च गच्छति
ततोऽन्यतीर्थं धर्मज्ञ समासाद्य यथाक्रमम् । काशीश्वरस्य तीर्थेषु स्नात्वा भरतसत्तम
सर्वव्याधिविनिर्मुक्तो ब्रह्मलोके महीयते । मातृतीर्थं च तत्रैव यत्र स्नातस्य पार्थिव
प्रजा विवर्द्धते राजन्स्वर्गतिं समवाप्नुयात् । ततः शीतवनं गच्छेन्नियतो नियताशनः
तीर्थं तत्र महाराज महदन्यत्र दुर्लभम् । पुनाति दर्शनादेव दंडेनैकं नराधिप
केशानावप्य वै तस्मिन्पूतो भवति भारत । तत्र तीर्थवरं चान्यत्स्नात लोकार्तिहं स्मृतम्
तत्र विप्रा नरव्याघ्र विद्वांसस्तत्र तत्पराः । गतिं गच्छंति परमां स्नात्वा भरतसत्तम
स्वर्णलोमापनयने तीर्थे भरतसत्तम । प्राणायामैर्निर्हरंति स्वलोमानि द्विजोत्तमाः
पूतात्मानश्च राजेन्द्र प्रयांति परमां गतिम् । दशाश्वमेधिके चैव तस्मिंस्तीर्थे महीपते
तत्र स्नात्वा नरव्याघ्र गच्छंति परमां गतिम् । ततो गच्छेत राजेंद्र मानुषं लोकविश्रुतम्
तत्र कृष्णामृगा राजन्व्याधेन शरपीडिताः । विगाह्य तस्मिन्सरसि मानुषत्वमुपागताः
तस्मिंस्तीर्थे नरः स्नात्वा ब्रह्मचारी समाहितः । सर्वपापविशुद्धात्मा स्वर्गलोके महीयते
मानुषस्य तु पूर्वेण क्रोशमात्रं महीपते । आपगा नाम विख्याता नदी सिद्धनिषेविता
श्यामाक भोजनं तत्र यः प्रयच्छति मानवः । देवान्पितॄन्समुद्दिश्य तस्य धर्मफलं महत्
एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता । तत्र स्नात्वार्चयित्वा च दैवतानि पितॄंस्तथा
उषित्वा रजनीमेकामग्निष्टोमफलं लभेत् । ततो गच्छेत धर्म्मज्ञ ब्रह्मणः स्थानमुत्तमम्
ब्रह्मानुस्वरमित्येवं प्रकाशं भुवि भारत । तत्र सप्तर्षिकुंडेषु स्नातस्य भरतर्षभ
केदारे चैव राजेंद्र कपिलस्य महात्मनः । ब्रह्माणमभिगम्याथ शुचिः प्रयतमानसः
सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते । कपिष्ठलस्य केदारं समासाद्य सुदुर्लभम्
अंतर्धानमवाप्नोति तपसा दग्धकिल्बिषः । ततो गच्छेत राजेंद्र सर्वकं लोकविश्रुतम्
कृष्णपक्षे चतुर्दश्यामभिगम्य वृषध्वजं । लभते सर्वकामान्हि स्वर्गलोकं च गच्छति । तिस्रःकोट्यश्च तीर्थानां प्रवरं कुरुनंदन