अत्रागत्य मया दृष्टः स महाज्वरपीडितः । मूर्ध्ना च वंदितस्तेन दत्ताशीर्मेऽभ्यभाषि च
शरभ उवाच- किमर्थमिह भो तात दूरमार्गे समागतः । दिनानि कतिचित्तिष्ठन्कुर्वन्नत्र निजक्रियाम्
विकटो नाम मे मित्रः राक्षसः समुपैति वै । उत्तिष्ठ वपुषामुष्य दंडवत्पत पादयोः
न भेतव्यं त्वयामुष्मात्त्यक्तहिंसादि कर्मणः । अधुना तीर्थमासाद्य सन्निधौ मम तिष्ठति
शिवशर्मोवाच- इत्युक्तोऽहं तदा पित्रा शरभेण महात्मना । उत्थाय पतितस्तस्य पादयोर्दंडवद्भुवि
दोर्भ्यामुत्थाप्य मां सोऽथ गाढमालिंग्य राक्षसः । स्वागतं मित्रपुत्रेति जगादाशिषमीरयन्
राक्षस उवाच- भाग्यवानसि भो तात यत्त्वमत्र समागतः । पितुर्धर्मात्मनः श्रुत्वा ज्वरपीडां सुदारुणाम्
पितुराण्यमाप्नोषि तीर्थे कृत्वा तिलोदकम् । स्नात्वा कुरु क्रियां स्वीयाः पूर्वजन्मस्मरिष्यसि
शिवशर्मोवाच- एवमुक्तस्तदा तेन स्नातुं तीर्थे वरांभसि । प्रविष्टोऽहं स्मरंस्तात पूर्वजन्मशुभाशुभम्
स्नात्वा विधिवदत्रैव पितुरंतिकमागतः । अपृच्छं रक्षसो वृत्तं कुतोऽयं धर्मधीरिति
पित्रोक्तं रक्षसो वृत्तं वाहानां पथिकस्य च । श्रुत्वाऽहं तीर्थराजस्य स्तुतिमस्य चकार वै
पिता मे रोगनिर्मुक्तो भविष्यति यदा तदा । यास्यामि गृहमित्यत्र दशोषितमहानि मे
दशाहाभ्यंतरे तात तातस्य मरणं मम । अभूदर्धजले ह्यस्य तीर्थराजस्य पश्यतः
अथो गरुडमारुह्य वक्षसो धारयन्श्रियम् । आजगाम स्वयं विष्णुर्नवीन घनविग्रहः
पीतवासा चतुर्बाहुः पंकजारुणलोचनः । ब्रह्मेंद्रादिभिरादिव्यैः सनाथैरंधकारिणा
सेव्यमानो गुणग्रामान्गायद्भिः किन्नरैः सह । हाहाहूहूप्रभृतिभिः स्तूयमानश्च सर्वतः
दत्त्वा स्वकीय सारूप्यमारोप्य गरुडं तदा । पितरं मम ब्रह्माद्यैर्वृतो वैकुंठमारुहत्
पितुः सारूप्यमालोक्य विष्णोरहमचिंतयम् । इति चित्ते तदालोक्य जाततत्वोदये तदा
न हि वर्णयितुं शक्यो ह्यस्य तीर्थशिरोमणेः । महिमा यज्जलार्द्धे स्यान्मृतो जंतुश्चतुर्भुजः
न मया सर्वथा त्याज्यं तीर्थराजमिदं ननु । अंजसा दृढमाहात्म्यं धनरोगादितृष्ण्या
पितुरत्रोटजे तावत्स्थातव्यं हि मया मम । यावत्तु कर्मणां भुक्तः प्रारब्धानां महीतले
एवं विचिंतयित्वा च पितुः कृत्वा तु सत्क्रियाम् । रक्षसा तेन सहितः स्थितोऽहं मोक्षवांछया
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये चतुरधिकद्विशततमोऽध्यायः
सौभरिरुवाच- धर्मराजशिबिः श्रीमानाकर्ण्य तद्वचो मुनेः । नारदस्याब्रवीत्प्रीतमना इति तमुत्तमम्
शिबिरुवाच- मुने तीर्थवरस्यास्य निगमोद्बोध कस्य ते । माहात्म्यं वर्णितं सम्यक्श्रुतं पापहरं मया
इंद्रप्रस्थेत्र शतशः संति तीर्थानि वै मुने । अन्यस्यापि समाचक्ष्व माहात्म्यं यदि विद्यते
नारद उवाच- इंद्रप्रस्थांतरावर्तिन्येषा या द्वारका नृप । अस्यां पुरा हि यद्वृत्तं तत्ते वच्मि शृणुष्व मे
काम्पिल्येऽथ द्विजः कश्चित् पुष्पेषुर्मूर्तिमानिव । सर्वासां योषितां चित्तहारी स्यादग्रविभ्रमैः
संगीतविद्याकुशलः कोकिलामधुरध्वनिः । एकदा स करे वीणां धारयन्वादयन्मुहुः
कंठेन कोकिलालाप मधुरेण नराधिप । गायन्बभ्राम नगरे प्रतिरथ्यं महामतिः