कार्यं नु दैवाद्यदि सिद्धिमागतं तस्मिन्नुपेक्षां न च यांति नीतिगाः । यस्मादुपेक्षा न पुनः फलप्रदा तस्मान्न दीर्घीकरणं प्रशस्यते
विषादप्यमृतं ग्राह्यममेध्यादपि कांचनम् । नीचादप्युत्तमां विद्यां स्त्रीरत्नं दुष्कुलादपि
सांद्रानुरागाः कुलजन्मनिर्मलाः स्नेहार्द्रचित्ता सुगिरः स्वयंवराः । कन्या सुरूपाः खलु चारुयौवना धन्या लभंतेऽत्र नरास्तु नेतरे
क्व वयं सुरसुंदर्य्यः क्व भवांस्तापसो बटुः । दुर्घटस्य विधानेन मन्ये धातैव पंडितः
तस्मादस्मानिदानीं तु स्वीकुर्य्यात्मंगलं भवान् । गांधर्वेण विवाहेन अन्यथा नोपजीवनम्
श्रुत्वा वाक्यं ततः प्राह ब्राह्मणो धर्मवित्तमः । भो मृगाक्ष्यः कथं त्याज्यो धर्मो धर्मधनैर्नरैः
धर्मश्चार्थश्चकामश्च मोक्षश्चैतच्चतुष्टयम् । यथोक्तं फलदं ज्ञेयं विपरीतं तु निष्फलम्
नाकालेऽहं व्रती कुर्यामतो दारपरिग्रहम् । न क्रिया फलमाप्नोति क्रियाकालं न वेत्ति यः
यतो धर्मविचारेऽस्मिन्प्रसक्तं मम मानसम् । तस्माच्छृणुत हे कन्या न समीहे स्वयंवरम्
एवं ज्ञात्वाशयं तस्य समीक्ष्यैव परस्परम् । करात्करं विमुच्याथ जग्राहांघ्रिं प्रमोहिनी
भुजौ जगृहतुस्तस्य सुशीला सुस्वरा तथा । आलिलिंग सुतारा च वक्त्रं चुंबति चंद्रिका
तथापि निर्विकारोऽसौ प्रलयानलसन्निभः । शशाप ब्रह्मचारी ताः क्रोधेनात्यंतमूर्छितः
पिशाच्य इव मां लग्ना तत्पिशाच्यो भविष्यथ । एवं तेनाशु शप्तास्तास्तं त्यक्त्वा पुरतः स्थिताः
किमेतच्चेष्टितं पापं ह्यनागसि विचेष्टया । प्रियंकृतोऽप्रियंकृत्वा धिक्त्वां धर्मकृतांतकम्
अनुरक्तेषु भक्तेषु मित्रेषु द्रोहकारिणः । पुंसो लोकोभयोः सौख्यं नाशमेतीति नः श्रुतम्
तस्मात्त्वमपि नः शापात्पिशाचो भव सत्वरम् । इत्युक्त्वापि च ता बाला निःश्वसंत्यः क्रुधाकुलाः
तदेवान्योन्यसंरंभात्तस्मिन्सरसि पार्थिव । ताः कन्या ब्रह्मचारी च सर्वे पैशाच्यमागताः
स पिशाचः पिशाच्यस्ताः क्रंदमानाः सुदारुणम् । क्षपयंति विपाकांस्तान्पूर्वोपात्तस्य कर्म्मणः
स्वकाले प्रभवत्येव पूर्वोपात्तं शुभाशुभम् । स्वच्छायामिव दुर्वारं देवानामपि पार्थिव
क्रंदंति पितरस्तासां मातरस्तत्र तत्र च । भ्रातरश्चैव बालानां दैवं हि दुरतिक्रमम्
अतऊर्ध्वं पिशाचास्ते आहारार्थं सुदुःखिताः । इतस्ततश्च धावंतो वसंति सरसस्तटे
नारद उवाच- एवं बहुतिथे काले लोमशो मुनिसत्तमः । आगतश्च महाभागस्तत्र यादृच्छिको मुनि
तं दृष्ट्वा ब्राह्मणं सर्वे पिशाचाः क्षुत्समाकुलाः । धावंतो ह्यत्तुकामास्ते मिलित्वा यूथवर्तिनः
दह्यमानास्तु तीव्रेण तेजसा लोमशस्य तु । असमर्थाः पुरः स्थातुं ते सर्वे दूरतः स्थिताः
तत्र पूर्वकर्मबलात्पिशाचः सह वै द्विजः । समीक्ष्य लोमशं राजन्साष्टांगं प्रणिपत्य च
उवाच सूनृतां वाचं बद्ध्वा शिरसि चांजलिम् । महाभाग्योदये विप्र साधूनां संगतिर्भवेत्
गंगादिपुण्यतीर्थेषु यो नरः स्नाति सर्वथा । यः करोति सतां संगं तयोः सत्संगमो वरः
गुरूणां संगमो विप्र दृष्टादृष्टफलो भुवि । स्वर्गदो रोगहारी च किं तमोपहरो मतः
इत्युक्त्वा कथयामास पूर्ववृत्तांतमद्भुतम् । इमा गंधर्वकन्यास्ता मुने सोऽहं द्विजात्मजः
सर्वे पिशाचरूपेण मिथः शापविमोहिताः । दीनाननास्सुतिष्ठामस्तवाग्रे मुनिसत्तम