तदाभिमुखमायांती पत्नी मम पतिव्रता । पतित्वा पादयोस्तस्य तं साधुं गृहमानयत्
मयापमानितस्यापि न क्रोधोऽभून्महात्मनः । तयादृतस्याप्यानंदो यतः सोरि सुहृत्समः
तमर्चयित्वा विधिवद्विष्टरे चोपवेश्य सा । भोज्यं भोजय जीवेश जयताद्भुवनत्रयम्
इत्युक्तोऽहं तया साध्व्या न्यगदं तं महाशयम् । म्लानवक्त्रः प्रसन्नास्यमुत्तिष्ठ शमय क्षुधाम्
इत्युक्त्वा तस्य चरणौ नोदितस्तनुमध्यमा । प्राक्षालयं पुनस्तं तु निवेश्यासनमुत्तमम्
अददां पात्रमन्नेन पूर्णं तस्मै विवेकिने । जलं च तत्करे साध्व्या प्रेरितोऽहं तया मुहुः
उपभुज्य स धर्मात्मा स्वैरं विगतविक्रियः । हरेराम हरेकृष्ण जपन्निति जगाम ह
कृतं पुण्यमिदं वैश्य नोदितेन मया स्त्रिया । पूर्वजन्मनि येनेदं प्रापितं तीर्थवारि मे
शिवशर्मोवाच- विष्णुशर्मन्निदं वाक्यमुक्त्वा तिष्ठति राक्षसे । पथिकः स च ते वाहाः प्राहुः खे दिव्यदेहिनः
पथिकवाहा ऊचुः भो भो विशांपते साधो प्राप्ता अप्यपमृत्युताम् । त्वत्प्रसादादिदं वारि पीत्वा देवत्वमागताः
त्वत्संगे धनलोभेन विट्पते चलिता यतः । विगता न धनाकांक्षा मरणावसरेप्यतः
तीर्थराजजलस्यास्य तिष्ठतो जठरे हि नः । मरणे ह्यनुभावात्तु मैत्री प्राप्ता धनेशितुः
नमामस्त्वां वयं यामो धनेश नगरीं प्रभो । विमानैस्तद्गणानीतैर्नानामणिविभूषितैः
प्रयाहि मा विलंबस्व तीर्थे निगमबोधके । त्वमनेनसमं साधो तारयैनमपि द्रुतम्
शिवशर्मोवाच- इत्युक्त्वा ते गतास्तात दिश्युदीच्यां समंततः । विमानकिंकिणीनादैर्नादयंतोऽथ रोदसी
अथ वैश्यो मम पिता तमाह रजनीचरम् । शरभ उवाच- उत्तिष्ठ नय मामाशु तीर्थे निगमबोधके
ज्वरार्त्तेन मया पद्भ्यां तत्र गंतुं न शक्यते । यो मां नयति तत्तीर्थं त्वदन्यो नास्ति कश्चन
शिवशर्मोवाच- तथेति तमथाश्वास्य वैश्यं स रजनीचरः । स्कंधमारोप्य वेगेन तत्तीर्थं पावनं ययौ
ऊषतुस्तावुभौ तत्र विश्पतिः स च राक्षसः । कुर्वंतौ स्नानमात्रं तु सर्वतीर्थोत्तमोत्तमे
अथाऽहं पितुराकर्ण्य महतीं गुरुवेदनाम् । तं प्रति प्रेरितो मात्रा चलितो निजसद्मतः
अत्रागत्य मया दृष्टः स महाज्वरपीडितः । मूर्ध्ना च वंदितस्तेन दत्ताशीर्मेऽभ्यभाषि च
शरभ उवाच- किमर्थमिह भो तात दूरमार्गे समागतः । दिनानि कतिचित्तिष्ठन्कुर्वन्नत्र निजक्रियाम्
विकटो नाम मे मित्रः राक्षसः समुपैति वै । उत्तिष्ठ वपुषामुष्य दंडवत्पत पादयोः
न भेतव्यं त्वयामुष्मात्त्यक्तहिंसादि कर्मणः । अधुना तीर्थमासाद्य सन्निधौ मम तिष्ठति
शिवशर्मोवाच- इत्युक्तोऽहं तदा पित्रा शरभेण महात्मना । उत्थाय पतितस्तस्य पादयोर्दंडवद्भुवि
दोर्भ्यामुत्थाप्य मां सोऽथ गाढमालिंग्य राक्षसः । स्वागतं मित्रपुत्रेति जगादाशिषमीरयन्
राक्षस उवाच- भाग्यवानसि भो तात यत्त्वमत्र समागतः । पितुर्धर्मात्मनः श्रुत्वा ज्वरपीडां सुदारुणाम्
पितुराण्यमाप्नोषि तीर्थे कृत्वा तिलोदकम् । स्नात्वा कुरु क्रियां स्वीयाः पूर्वजन्मस्मरिष्यसि
शिवशर्मोवाच- एवमुक्तस्तदा तेन स्नातुं तीर्थे वरांभसि । प्रविष्टोऽहं स्मरंस्तात पूर्वजन्मशुभाशुभम्
स्नात्वा विधिवदत्रैव पितुरंतिकमागतः । अपृच्छं रक्षसो वृत्तं कुतोऽयं धर्मधीरिति