वराहतीर्थे नरः स्नात्वा द्वादश्यां तु विशेषतः । विष्णुलोकमवाप्नोति नरकं तु न गच्छति
ततो गच्छेत राजेंद्र सोमतीर्थमनुत्तमम् । पौर्णिमास्यां विशेषेण तत्र स्नानं समाचरेत्
प्रणिपत्य च ईशानं बलिस्तस्य प्रसीदति । हरिश्चन्द्रपुरं दिव्यमंतरिक्षे तु दृश्यते
चक्रध्वजे समावृत्ते सुप्ते नागारिकेतने । नर्मदातोयवेगेन रुरुकच्छोपसेवितम्
तस्मिन्स्थाने निवासं च विष्णुः शंकरमब्रवीत् । द्वीपेश्वरे नरः स्नात्वा लभेद्बहुसुवर्णकम्
ततो गच्छेत राजेंद्र रुद्रकन्यां तु संगमे । स्नातमात्रो नरस्तत्र देव्याः स्थानमवाप्नुयात्
देवतीर्थं ततो गच्छेत्सर्वदेवनमस्कृतम् । तत्र स्नात्वा तु राजेंद्र दैवतैः सह मोदते
ततो गच्छेत राजेंद्र शिखितीर्थमनुत्तमम् । तत्र वै दीयते दानं सर्वं कोटिगुणं भवेत्
अपरपक्षे अमावास्यां स्नानं तत्र समाचरेत् । ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिता
भृगुतीर्थे तु राजेंद्र तीर्थकोटिर्व्यवस्थिता । अकामो वा सकामो वा तत्र स्नायीत मानवः
अश्वमेधमवाप्नोति दैवतैः सह मोदते । तत्र सिद्धमवाप्नोति भृगुस्तु मुनिपुंगवः । अवतारः कृतस्तेन शंकरेण महात्मना
नारद उवाच- ततो गच्छेत राजेंद्र विहगेश्वरमुत्तमम् । दर्शनात्तस्यराजेंद्र मुच्यते सर्वपातकैः
ततो गच्छेत राजेन्द्र नर्मदेश्वरमुत्तमम् । तत्र स्नात्वा नरो राजन्स्वर्गलोके महीयते
अश्वतीर्थं ततो गच्छेत्स्नानं तत्र समाचरेत् । सुभगो दर्शनीयश्च भोगवान्जायते नरः
पितामहं ततो गच्छेद्ब्रह्मणा निर्मितं पुरा । तत्र स्नात्वा नरो भक्त्या पितृपिंडं तु दापयेत्
तिलदर्भविमिश्रं तु उदकं तु प्रदापयेत् । तस्य तीर्थप्रभावेण सर्वं भवति चाक्षयम्
सावित्री तीर्थमासाद्य यस्तु स्नानं समाचरेत् । विधूय सर्वपापानि ब्रह्मलोके महीयते
मनोहरं च तत्रैव तीर्थं परमशोभनम् । तत्र स्नात्वा नरो राजन्पितृलोके महीयते
ततो गच्छेत राजेंद्र मानसं तीर्थमुत्तमम् । तत्र स्नात्वा नरो राजन्रुद्रलोके महीयते
ततो गच्छेत राजेंद्र क्रतुतीर्थमनुत्तमम् । विख्यातं सर्वलोकेषु सर्वपापप्रणाशनम्
यान्यान्प्रार्थयते कामान्पशुपुत्रधनानि च । प्राप्नुयात्तानि सर्वाणि तत्र स्नात्वा नराधिप
ततो गच्छेत राजेंद्र त्रिदशद्योति विश्रुतम् । तत्र ता ऋषिकन्यास्तु तपस्तप्यंति सुव्रताः
भर्त्ता भवतु सर्वासामीश्वरः प्रभुरव्ययः । प्रीतस्तेषां महादेवश्चंडरूपधरो हरः
विकृतानन बीभत्सस्तच्च तीर्थमुपागतः । तत्र कन्या महाराज वराय परमेश्वरः
कन्याऋद्धिं च यः सेवेत्कन्यादानं प्रयच्छति । तीर्थं तत्र महाराज दशकन्येति विश्रुतम्
तत्र स्नात्वार्च्चयेद्देवं सर्वपापैः प्रमुच्यते । ततो गच्छेत राजेंद्र स्वर्गबिंदुरिति श्रुतम्
तत्र स्नात्वा नरो राजन्दुर्गतिं च न पश्यति । अप्सरेशं ततो गच्छेत्स्नानं तत्र समाचरेत्
क्रीडते नागलोकस्थोऽप्सरोभिः सह मोदते । ततो गच्छेत राजेंद्र नरकं तीर्थमुत्तमम्
तत्र स्नात्वार्च्चयेद्देवं नरकं च न गच्छति । भारभूतं ततो गच्छेदुपवासपरायणः
एतत्तीर्थं समासाद्य अवतारं तु शांभवम् । अर्चयित्वा विरूपाक्षं रुद्रलोके महीयते