मामारोप्य च तां धीरश्चलितो मद्गृहं प्रति । स पांथस्ते च शिबिकावाहाः संप्रति भक्षिताः
त्वया जलमिदं यस्य तीर्थस्यापि च तच्छृणु । इंद्रस्य खांडववने यमुनास्ति सरिद्वरा
तत्तीरेऽस्ति हरिप्रस्थं तीर्थं तीर्थोत्तमोत्तमम् । सुराचार्यस्य तत्रास्ति तीर्थं सर्वार्थसाधकम्
निगमोद्बोधकं जाता स्मृतिस्ते यज्जलाशनात् । एतत्ते सर्वमाख्यातं यत्पृष्टोऽहंमिह त्वया
पृच्छामि त्वामहं किंचित्तद्वदाशु निशाचर । पूर्वजन्मकृतं कर्म स्मरसि त्वमिहाधुना । वद किं ते कृतं पापं येन जातोऽसि राक्षसः
राक्षस उवाच- पुराहमभवं विप्रः पुण्ये वेदविदां कुले । दुराचारो ह्यधर्मात्मा शृणु सर्वं वदामि ते
क्रीडता हि मया नित्यं द्यूतेन सह तद्विदैः । हारितं द्रविणं भूरि स्वकीयं पितुरेव च
पित्रा निवेद्य भूपाय मामकं कर्म तज्जनैः । पुरान्निःसारितो निःस्वो गतोऽहं ग्राममंतिके
तत्रासीन्मे सखा नाम देवको ब्राह्मणोत्तमः । तेनाऽहं रक्षितो गेहे कुर्वता चिरमादरम्
वस्तुं तत्र सुखेनाहं तद्भार्यां रूपशालिनीम् । कामातुरोऽहमभजं बलान्मित्रे गते क्वचित्
सा मृता तत्क्षणात्साध्वी भक्षयित्वा महाविषम् । तां दृष्ट्वा तमसायुक्ते निशीथेऽहं पलायितः
पलायमानस्तरसा धृतोऽहं राजकिंकरैः । चौरोऽयमिति खङ्गेन चिच्छिदुस्ते शिरो मम
मृतं मां यातनादेहमावेश्य यमकिंकराः । रौरवे निरयघोरे चिक्षिपुर्यमशासनात्
षष्टिवर्षसहस्राणि तत्राऽहं तीव्रयातनाम् । भुक्त्वा तेनैव पापेन राक्षसत्वमुपागतः
शतवर्षाण्यतीतानि राक्षसत्वे विशांपते । वदामि तमुपायं मे येनास्मान्मुक्तिमाप्नुयाम्
पुण्यं तदर्पिते साधो वदामि शृणु सादरम् । येन तीर्थवरस्येदं जलं मम मुखे गतम्
तत्रैव जन्मनि मया कृत्वा हरिदिने व्रतम् । संसर्गान्नेच्छया वैश्य रात्रौ जागरणं कृतम्
द्वादश्यामथ संस्नात्वा भोक्तुंमपि समुद्यते । मद्गृहे कश्चिदायातो वैष्णवो विष्णुरूपधृक्
कुपितोऽहं तमालोक्य दुर्वचो वदमग्रतः । क्व गच्छसि दुराचार दांभिकस्त्रीजनांतरे
इत्युक्तं स मया धीरस्तुल्यो मानापमानयोः । तूष्णीमेव निकेतान्मे निर्गत्य चलितो यदा
तदाभिमुखमायांती पत्नी मम पतिव्रता । पतित्वा पादयोस्तस्य तं साधुं गृहमानयत्
मयापमानितस्यापि न क्रोधोऽभून्महात्मनः । तयादृतस्याप्यानंदो यतः सोरि सुहृत्समः
तमर्चयित्वा विधिवद्विष्टरे चोपवेश्य सा । भोज्यं भोजय जीवेश जयताद्भुवनत्रयम्
इत्युक्तोऽहं तया साध्व्या न्यगदं तं महाशयम् । म्लानवक्त्रः प्रसन्नास्यमुत्तिष्ठ शमय क्षुधाम्
इत्युक्त्वा तस्य चरणौ नोदितस्तनुमध्यमा । प्राक्षालयं पुनस्तं तु निवेश्यासनमुत्तमम्
अददां पात्रमन्नेन पूर्णं तस्मै विवेकिने । जलं च तत्करे साध्व्या प्रेरितोऽहं तया मुहुः
उपभुज्य स धर्मात्मा स्वैरं विगतविक्रियः । हरेराम हरेकृष्ण जपन्निति जगाम ह
कृतं पुण्यमिदं वैश्य नोदितेन मया स्त्रिया । पूर्वजन्मनि येनेदं प्रापितं तीर्थवारि मे
शिवशर्मोवाच- विष्णुशर्मन्निदं वाक्यमुक्त्वा तिष्ठति राक्षसे । पथिकः स च ते वाहाः प्राहुः खे दिव्यदेहिनः
पथिकवाहा ऊचुः भो भो विशांपते साधो प्राप्ता अप्यपमृत्युताम् । त्वत्प्रसादादिदं वारि पीत्वा देवत्वमागताः