शिवशर्मोवाच- इत्युक्तस्तेन स तदा ददौ स्वर्णपलत्रयम् । सोपि नीत्वा पितुर्द्रव्यं ययौ लवणपत्तनम्
उषित्वा रात्रिमेकां तु शिबिकां सपरिच्छदाम् । सवाहामानयत्पुत्र दत्त्वा स्वर्णपलद्वयम्
पलं द्वयं गृहीतं तत्तेनैवाधर्मबुद्धिना । आरोप्य शिबिकां तं तु शरभं वैश्यसत्तमम्
पांथः स चलितो वाहांस्त्वरयन्कान्यकुब्जकम् । अस्य तीर्थवरस्याथ कमंडलुजलं धृतम्
पाययन्नल्पमल्पं तं तृषार्तं सोध्वगो ययौ । अथ ते सरसस्तीरे उत्तीर्णा भोक्तुमध्वनि
स्नात्वा भुक्त्वा पुनस्तस्मात्स्थानाच्चेलुस्त्वरान्विताः । कियंति भूमिमुल्लंघ्य तृषार्तांस्ते कमंडलोः
जलं पीत्वा तृषार्तं तं शरभं चाप्यपाययत् । अथ कश्चिन्महाभीमो विकटो नाम राक्षसः
विचरन्निर्जनेऽरण्ये गच्छतस्तानवैक्षत । तान्दृष्ट्वा स क्षुधाक्रांतो वेगवान्विवृताननः
अभिदुद्राव चरणाघातेनाकंपयन्महीम् । आगत्य तरसा पार्श्वे तान्वाहान्पथिकं च तम्
सकोशेषु समादाय भ्रामयामास खेचरः । गतासून्भ्रामणेनैव भूतले तानपोथयत्
चखाद पिशितं तेषां पपौ कोशाच्च शोणितम् । कुत्र यास्यति रोगार्तो नरोऽयं पुरतो मम
एनं तु भक्षयिष्यामि पश्चादंबु पिबाम्यहम् । इति कृत्वा मतिर्वारितीर्थस्यास्य कमंडलोः
मुखे चिक्षेप स तदा रजनीचरपुंगवः । क्षिप्तमात्रे जले तस्य पूर्वजन्मभवा स्मृतिः
जाता स तु वधात्तस्य शरभस्य न्यवर्तत । पूर्वजन्मकृतं पापं तदपि स्मृतिमागमत्
येन राक्षसभावस्तु भूतो विप्रोद्भवादपि । स्मृत्वा पापमुपेत्याशु समीपे शरभस्य तु । उवाच ज्ञानमापन्नो राक्षसः पितरं मम
राक्षस उवाच- भो भो मनुष्यशार्दूल कस्त्वं के च जना अमी । भक्षिता ये मया घोर रूपेणाधमरक्षसा
कस्य तीर्थवरस्येदं जलं यस्य प्रभावतः । पापिनोऽपि स्मृतिर्जाता पूर्वजन्मभवा मम
वैश्य उवाच- वैश्योऽहं राक्षसश्रेष्ठ कान्यकुब्जे गृहं मम । तीर्थानि पर्यटन्निंद्रप्रस्थेऽहं समुपागतः
तत्राहमभवं दुःखी ज्वरेण विधियोगतः । ततो मे बुद्धिरुत्पन्ना गंतुं गृहमसत्पथ । तत्र कश्चित्समायातः पांथो वर्षेण पीडितः
प्रार्थितः स मयानीय शिबिकां मां गृहं नय । स चायं शिबिकां पांथः समुपानीय सत्वरः
मामारोप्य च तां धीरश्चलितो मद्गृहं प्रति । स पांथस्ते च शिबिकावाहाः संप्रति भक्षिताः
त्वया जलमिदं यस्य तीर्थस्यापि च तच्छृणु । इंद्रस्य खांडववने यमुनास्ति सरिद्वरा
तत्तीरेऽस्ति हरिप्रस्थं तीर्थं तीर्थोत्तमोत्तमम् । सुराचार्यस्य तत्रास्ति तीर्थं सर्वार्थसाधकम्
निगमोद्बोधकं जाता स्मृतिस्ते यज्जलाशनात् । एतत्ते सर्वमाख्यातं यत्पृष्टोऽहंमिह त्वया
पृच्छामि त्वामहं किंचित्तद्वदाशु निशाचर । पूर्वजन्मकृतं कर्म स्मरसि त्वमिहाधुना । वद किं ते कृतं पापं येन जातोऽसि राक्षसः
राक्षस उवाच- पुराहमभवं विप्रः पुण्ये वेदविदां कुले । दुराचारो ह्यधर्मात्मा शृणु सर्वं वदामि ते
क्रीडता हि मया नित्यं द्यूतेन सह तद्विदैः । हारितं द्रविणं भूरि स्वकीयं पितुरेव च
पित्रा निवेद्य भूपाय मामकं कर्म तज्जनैः । पुरान्निःसारितो निःस्वो गतोऽहं ग्राममंतिके
तत्रासीन्मे सखा नाम देवको ब्राह्मणोत्तमः । तेनाऽहं रक्षितो गेहे कुर्वता चिरमादरम्
वस्तुं तत्र सुखेनाहं तद्भार्यां रूपशालिनीम् । कामातुरोऽहमभजं बलान्मित्रे गते क्वचित्