कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् । ततो गच्छेत धर्मज्ञ स्थानं तीर्थमुमापतेः
नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम् । तत्राभिगम्य चेशानं गोसहस्रफलं लभेत्
महादेवप्रसादाच्च गाणपत्यमवाप्नुयात् । समृद्धमसपत्नं तु श्रियायुक्तं नरोत्तम
नर्मदां तु समासाद्य नदीं त्रैलोक्यविश्रुताम् । तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत्
युधिष्ठिर उवाच- वसिष्ठेन दिलीपाय कथितं तीर्थमुत्तमम् । नर्मदेति च विख्यातं पापपर्वतदारणम्
भूयश्च श्रोतुमिच्छामि तन्मे कथय नारद । नर्मदायाश्च माहात्म्यं वसिष्ठोक्तं द्विजोत्तम
कथमेषा महापुण्या नदी सर्वत्र विश्रुता । नर्मदानाम विख्याता तन्मम ब्रूहिनारद
नारद उवाच-। नर्मदा सरितां श्रेष्ठा सर्वपापप्रणाशिनी । तारयेत्सर्वभूतानि स्थावराणि चराणि च
नर्मदायास्तु माहात्म्यं वसिष्ठोक्तं मया श्रुतम् । तदेतद्धि महाराज सर्वं हि कथयामि ते
पुण्या कनखले गङ्गा कुरुक्षेत्रे सरस्वती । ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्म्मदा
त्रिभिः सारस्वतं तोयं सप्ताहेन तु यामुनम् । सद्यः पुनाति गांगेयं दर्शनादेव नार्मदम्
कलिंग देशे पश्चार्द्धे पर्वतेऽमरकंटके । पुण्या च त्रिषु लोकेषु रमणीया मनोरमा
सदेवासुरगंधर्वा ऋषयश्च तपोधनाः । तपस्तप्त्वा महाराज सिद्धिं च परमां गताः
तत्र स्नात्वा महाराज नियमस्थो जितेंद्रियः । उपोष्य रजनीमेकां कुलानां तारयेच्छतम्
जनेश्वरे नरः स्नात्वा पिंडं दत्वा यथाविधि । पितरस्तस्य तृप्यंति यावदाभूतसंप्लवम्
पर्वतस्य समंतात्तु रुद्रकोटिः प्रतिष्ठिता । स्नानं यः कुरुते तत्र गंधमाल्यानुलेपनम्
प्रीता तस्य भवेत्सर्वा रुद्रकोटिर्न संशयः । पर्वते पश्चिमस्यांते स्वयं देवो महेश्वरः
तत्र स्नात्वा शुचिर्भूत्वा ब्रह्मचारी जितेंद्रियः । पितृकार्यं तु कुर्वीत विधिदृष्टेन कर्मणा
तिलोदकेन तत्रैव तर्पयेत्पितृदेवताः । आसप्तमं कुलं तस्य स्वर्गे तिष्ठति पांडव
षष्टिवर्षसहस्राणि स्वर्गलोके महीयते । अप्सरोगणसंकीर्णो दिव्यस्त्रीपरिवारितः
दिव्यगंधानुलिप्तश्च दिव्यालंकारभूषितः । ततः स्वर्गात्परिभ्रष्टो जायते विपुले कुले
धनवान्दानशीलश्च धार्मिकश्चैव जायते । पुनः स्मरति तत्तीर्थं गमनं तत्र कुर्वते
तारयित्वा कुलशतं रुद्रलोकं स गच्छति । योजनानां शतं साग्रं श्रूयते सरिदुत्तमा
विस्तारेण तु राजेन्द्र योजनद्वयमंतरम् । षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथैव च
पर्वतस्य समंतात्तु तिष्ठंत्यमरकंटके । ब्रह्मचारी शुचिर्भूत्वा जितक्रोधो जितेंद्रियः
सर्वहिंसानिवृत्तश्च सर्वभूतहिते रतः । एवं सर्वसमाचारः क्षेत्रपालान्परिव्रजेत्
तस्य पुण्यफलं राजन्शृणुष्वावहितो हि मे । शतं वर्षसहस्राणां स्वर्गे मोदेत पांडव
अप्सरोगणसंकीर्णे दिव्यस्त्रीपरिचारिते । दिव्यगंधानुलिप्तश्च दिव्यालंकारभूषितः
क्रीडते देवलोके तु दैवतैः सह मोदते । ततः स्वर्गात्परिभ्रष्टो राजा भवति वीर्यवान्
नारद उवाच- नर्मदा तु नदीश्रेष्ठा पुण्या पुण्यतमा त्रिषु । मुनिभिस्तु महाभागैर्विभक्ता धर्मकांक्षिभिः