मावजानीहि सामीप्ये गंगा त्रिदशमानिताम् । यदिच्छसि महाभाग सेवितैषा प्रदास्यति
तिर्यंचोऽपि विना ज्ञानाज्जले चेत्स्युर्गतासवः । भवेयुस्तर्हि ते ब्रह्म सा कथं त्यज्यते त्वया
शिवशर्मोवाच- निशम्यैतद्वचस्तातस्ततो मम ऋतप्रियः । उवास सदने सर्वविषयेभ्यः पराङ्मुखः
त्रिषु कालेषुं गगायां प्रत्यहं स्नानमाचरन् । पुराणं स्याद्गृहे यत्र तत्र याति स नित्यशः
एकदाकर्णयन्धीरो यमुनातीर्थगौरवम् । तत्र शुश्राव माहात्म्यमस्यतीर्थस्य पुत्र सः
अविमुक्त हरिद्वार प्रयागेभ्यश्च पुष्करात् । अयोध्याद्वारिका कांची मथुराभ्यस्तथान्यतः
सर्वतीर्थमयस्यास्य पुण्यं शतगुणाधिकम् । कथितं तेन विदुषा सुतेनाकर्ण्यमत्पिता
त्यक्त्वा गृहमगादत्र तीर्थे सर्वैरलक्षितः । आवामिव महाभागो गोविंदपदसेवकः
अत्रागत्य महाभागो मत्पिता मोक्षवांछया । निगमोद्बोधके तीर्थे त्रिकालं स्नानमाचरन्
उवास कतिचिन्मासानत्र तीर्थोत्तमे हि सः
कुर्वन्निजक्रियां धीमान्निस्पृहोप्यजवेश्मनि । एकदा सहसा तस्य ज्वरोऽभूदतिदारुणः
महत्या पीडया तस्य मुमोह गतचेतनः । मुहूर्तं स पिता मुह्यं तदवस्थो व्यतिष्ठित
पश्चात्समागतप्राणो विचिंत्य यदिदं तदा । अहो मे कष्टमापन्नं दूरे पुत्रः स धार्मिकः
यो मां ज्वरवितप्तांगमाश्वासयति बुद्धिमान् । अगम्यागमनं पापं कृतं यन्मे सुदारुणम्
प्रायश्चित्तं न तस्यापि कृतं कामे गतिर्भवेत् । आगमिष्यति पुत्रो मे तस्मै दास्यामि वस्विति
यन्मया गोपितं गेहे न दृष्टं च तदप्यहम् । शिवशर्मोवाच- इति चिंतयतस्तस्य पान्थो वर्षेण पीडितः
शीतार्तः कंपितवपुरुटजं प्राविशत्तदा । स तं संविष्टमालोक्य भूयो गत्वा तदंतिके
मुनिरेष इति ज्ञात्वा ववंदे शिरसाध्वगः । ऊचे च कस्मात्सुप्तोसि मुने संध्या समागता
रविरस्तं प्रयात्येष न सुप्तेः काल एष ते । इत्युक्तमात्रे वचसि पथिकेन पिता मम
शरभो ज्वरतप्तांगस्तमाह कथमप्यहो । शरभ उवाच- श्रूयतां वचनं पांथ यद्वदामि पुरस्तव
श्रुत्वा मद्भाग्ययातेन त्वया साधो विधीयताम् । वैश्योऽहं शरभो नाम्ना कान्यकुब्जे गृहं मम
अत्रागतो निषिद्धोपि जायामित्रसुतैरहम् । अस्य तीर्थस्य माहात्म्यं श्रुत्वा सूनुमुखेरितम्
मासास्तु कतिचित्साधो व्यतीता मयि चागते । दिनत्रयमतिक्रांतं ज्वरितस्य ममाधुना
प्राणा मे विगता आसन्नद्यभूयः समागताः । कियानप्यायुषः शेषः साधो मे खलु तिष्ठति
शमनस्य गृहं दृष्ट्वा यदहं पुनरागतः । भाग्योदयेन केनापि ममात्र त्वं समागतः
नय मां मद्गृहं मित्र द्रव्यं बहु ददामि ते । दास्याम्यपि गृहं गत्वा कृपां कुरु कृपानिधे
इह भूभाग उत्खाय गृह्यतां मामकं धनम् । शिवशर्मोवाच- इत्याकर्ण्य स दुर्बुद्धिर्ग्राम्यो विषयलंपटः
उवाच धनलुब्धस्तं त्वदुक्तं साधयाम्यहम् । इत्युक्त्वा धनमुत्खाय तस्माद्भूभागतस्तदा
अग्रतः स्थापयामास शरभस्याह चाध्वगः । अध्वग उवाच- धनमेतद्विशांनाथ तव भूभागतो मया
निष्कासितं प्रयच्छाशु शिबिकानयनाय मे । यामारोप्य ज्वरार्तं त्वां नयामि तव केतनम्