कुमारीमृषितुल्यां च मारिषां च सरस्वतीम् । मंदाकिनीं सुपुण्यां च सर्वां गंगां च सत्तमाः
विश्वस्य मातरः सर्वाः सर्वाश्चैव महाफलाः । तथा नद्यः सुप्रकाशाः शतशोथ सहस्रशः
इत्येता सरितो विप्राः समाख्याता यथास्मृति । अतऊर्द्ध्वं जनपदान्निबोध गदतो मम
तत्रेमे कुरुपांचालाः शाल्वमात्रेय जांगलाः । शूरसेनाः पुलिंदाश्च बौधामालास्तथैव च
मत्स्याः कुशट्टाः सौगंध्याः कुत्सपाः काशिकोशलाः । चेदिमत्स्यकरूषाश्च भोजाः सिंधुपुलिंदकाः
उत्तमाश्च दशार्णाश्च मेकलाश्चोत्कलैः सह । पंचालाः कोशलाश्चैव नैकपृष्ठयुगंधराः
बोधा मद्राः कलिंगाश्च काशयो परकाशयः । जठराः कुकुराश्चैव सुदशार्णाः सुसत्तमाः
कुंतयोऽवंतयश्चैव तथैवापरकुंतयः । गोमंता मल्लकाः पुंड्राः विदर्भा नृपवाहिकाः
अश्मकाः सोत्तराश्चैव गोपराष्ट्राः कनीयसः । अधिराज्यकुशट्टाश्च मल्लराष्ट्राश्च केरलाः
मालवाश्चोपवास्याश्च चक्रावक्रालयाः शकाः । विदेहा मगधाः सद्मा मलजा विजयास्तथा
अंगा वंगाः कलिंगाश्च यकृल्लोमान एव च । मल्लाः सुदेष्णाः प्रह्लादा महिषाः शशकास्तथा
बाह्लिका वाटधानाश्च आभीराः कालतोयकाः । अपरांताः परांताश्च पंकलाश्चर्मचंडिकाः
अटवीशेखराश्चैव मेरुभूताश्च सत्तमाः । उपावृतानुपावृताः सुराष्ट्राः केकयास्तथा
कुट्टापरांता माहेयाः कक्षाः सामुद्र निष्कुटाः । अंधाश्च बहवो विप्रा अंतर्गिर्यस्तथैव च
बहिर्गिर्य्योंगमलदा मगधा मालवार्घटाः । सत्त्वतराः प्रावृषेयाः भार्गवाश्च द्विजर्षभाः
पुंड्रा भार्गाः किराताश्च सुदेष्णा भासुरास्तथा । शका निषादा निषधास्तथैवानर्त नैऋताः
पूर्णलाः पूतिमत्स्याश्च कुंतला कुशकास्तथा । तरिग्रहाश्शूरसेना ईजिकाः कल्पकारणाः
तिलभागामसाराश्च मधुमत्ताः ककुंदकाः । काश्मीराः सिंधुसौवीरा गांधारा दर्शकास्तथा
अभीसाराः कुद्रुताश्च सौरिला बाह्लिकास्तथा । दर्वी च मालवा दर्वा वातजामरथोरगाः
बलरट्टास्तथा विप्राः सुदामानः मुमल्लिकाः । बंधाकरीकषाश्चैव कुलिंदा गंधिकास्तथा
वनायवोदशाः पार्श्वरोमाणः कुशबिंदवः । काच्छा गोपालकच्छाश्च जांगलाः कुरुवर्णकाः
किराताबर्बराः सिद्धा वैदेहास्ताम्रलिप्तिकाः । औड्रम्लेच्छाः ससैरिंद्राः पार्वतीयाश्च सत्तमाः
अथापरे जनपदा दक्षिणा मुनिपुंगवाः । द्रविडाः केरलाः प्राच्या मूषिका बालमूषिकाः
कर्णाटका माहिषका विकंधा मूषिकास्तथा । झल्लिकाः कुंतलाश्चैव सौहृदानलकाननाः
कौक्कुटकास्तथा बोलाः कोकणा मणिवालकाः । समंगा कनकाश्चैव कुंकुरांगारमारिषाः
ध्वजिन्युत्सवसंकेतास्त्रिवर्गा माल्यसेनयः । व्यूढकाः कोरकाः प्रोष्टाः संगवेगधरास्तथा
तथैव विंद्यरुलिकाः पुलिंदा बल्वलैः सह । मालवा मलराश्चैव तथैवापरवर्तकाः
कुलिंदाः कालदाश्चैव चंडकाः कुरटास्तथा । मुशलास्तनवालाश्च सतीर्था पूतिसृंजयाः
अनिदायाः शिवाटाश्च तपनाः सूतपास्तथा । ऋषिकाश्च विदर्भाश्च स्तंगना परतंगकाः
उत्तराश्चापरेम्लेच्छा जना हि मुनिपुंगवाः । जवनाश्च सकांबोजा दारुणा म्लेच्छजातयः