यथा निर्दग्धाबीजानि न प्ररोहंति यत्नतः । यथा कर्माणि विश्वेशे निःकामेनार्पितानि तु
कर्मणां च लयो मोक्षः सुखदुःखप्रदायिनाम् । तदुत्पत्तिस्तु बंधः स्यादित्यसौ शास्त्रनिर्णयः
अतोऽहं कर्मवेदोक्तं कुर्वन्नाभिलषन्फलम् । पर्यटिष्यामि तीर्थेषु हृदि भक्ति दधद्धरेः
एवं प्रारब्धकर्माणि भुंजन्नान्यान्यतर्जयन्। हनिष्यामि जगद्रोगं पीत्वा सत्संगमौषधम्
शिवशर्मोवाच- एवमाकर्ण्य वचनं तस्याहं पितुरात्मनः । अवदं विष्णुशर्मस्त्वं तन्निशामय तत्वतः
वैश्यपुत्र उवाच- अयं जनो दुराराध्यः कथयिष्यति नो यशः । दुष्टकुटुंबादुद्विज्य निःसृत्य गत इत्ययम्
इयं विष्णुपदी तात भुवनत्रयपावनी । स्मृता हरत्यघं दूरात्कस्मादेनां विमुंचसि
पापकारी जनस्तात म्रियते मगधे तु यः । सोप्यस्तपापो गंगायां स्वर्याति त्यजमाशुभम्
पुत्राः षष्टिसहस्राणि सगरस्य महात्मनः । कपिलक्रोधनिर्दग्धा गतायत्स्पर्शनाद्दिवम्
तामिमां त्रिदिवश्रेणीं मुक्तेरपि विधायिनीम् । मुमुक्षुसेवितां तात मुक्त्वा मान्यत्र गम्यताम्
मावजानीहि सामीप्ये गंगा त्रिदशमानिताम् । यदिच्छसि महाभाग सेवितैषा प्रदास्यति
तिर्यंचोऽपि विना ज्ञानाज्जले चेत्स्युर्गतासवः । भवेयुस्तर्हि ते ब्रह्म सा कथं त्यज्यते त्वया
शिवशर्मोवाच- निशम्यैतद्वचस्तातस्ततो मम ऋतप्रियः । उवास सदने सर्वविषयेभ्यः पराङ्मुखः
त्रिषु कालेषुं गगायां प्रत्यहं स्नानमाचरन् । पुराणं स्याद्गृहे यत्र तत्र याति स नित्यशः
एकदाकर्णयन्धीरो यमुनातीर्थगौरवम् । तत्र शुश्राव माहात्म्यमस्यतीर्थस्य पुत्र सः
अविमुक्त हरिद्वार प्रयागेभ्यश्च पुष्करात् । अयोध्याद्वारिका कांची मथुराभ्यस्तथान्यतः
सर्वतीर्थमयस्यास्य पुण्यं शतगुणाधिकम् । कथितं तेन विदुषा सुतेनाकर्ण्यमत्पिता
त्यक्त्वा गृहमगादत्र तीर्थे सर्वैरलक्षितः । आवामिव महाभागो गोविंदपदसेवकः
अत्रागत्य महाभागो मत्पिता मोक्षवांछया । निगमोद्बोधके तीर्थे त्रिकालं स्नानमाचरन्
उवास कतिचिन्मासानत्र तीर्थोत्तमे हि सः
कुर्वन्निजक्रियां धीमान्निस्पृहोप्यजवेश्मनि । एकदा सहसा तस्य ज्वरोऽभूदतिदारुणः
महत्या पीडया तस्य मुमोह गतचेतनः । मुहूर्तं स पिता मुह्यं तदवस्थो व्यतिष्ठित
पश्चात्समागतप्राणो विचिंत्य यदिदं तदा । अहो मे कष्टमापन्नं दूरे पुत्रः स धार्मिकः
यो मां ज्वरवितप्तांगमाश्वासयति बुद्धिमान् । अगम्यागमनं पापं कृतं यन्मे सुदारुणम्
प्रायश्चित्तं न तस्यापि कृतं कामे गतिर्भवेत् । आगमिष्यति पुत्रो मे तस्मै दास्यामि वस्विति
यन्मया गोपितं गेहे न दृष्टं च तदप्यहम् । शिवशर्मोवाच- इति चिंतयतस्तस्य पान्थो वर्षेण पीडितः
शीतार्तः कंपितवपुरुटजं प्राविशत्तदा । स तं संविष्टमालोक्य भूयो गत्वा तदंतिके
मुनिरेष इति ज्ञात्वा ववंदे शिरसाध्वगः । ऊचे च कस्मात्सुप्तोसि मुने संध्या समागता
रविरस्तं प्रयात्येष न सुप्तेः काल एष ते । इत्युक्तमात्रे वचसि पथिकेन पिता मम
शरभो ज्वरतप्तांगस्तमाह कथमप्यहो । शरभ उवाच- श्रूयतां वचनं पांथ यद्वदामि पुरस्तव