एतद्विचार्य मतिमानाश्रयेद्धर्मसंग्रहम् । नानानरकसंपातादुत्थितो यदि पूरुषः
स्थावरादि तनुं लब्ध्वा यदि भाग्यवशात्पुनः । मानुष्यं लभते तत्र गर्भवासोतिदुःखदः
ततः कर्मवशाज्जंतुर्यदि वा जायते भुवि । बाल्यादिबहुदोषेण पीडितो भवति द्विजाः
पुनर्यौवनमासाद्य दारिद्र्येण प्रपीड्यते । रोगेण गुरुणा वापि अनावृष्ट्यादिना तथा
वार्द्धकेन लभेत्पीडामनिर्वाच्यामितस्ततः । मनसश्चलनाद्व्याधेस्ततो मरणमाप्नुयात्
न तस्मादधिकं दुःखं संसारेप्यनुभूयते । ततः कर्म्मवशाज्जंतुर्यमलोके प्रपीड्यते
तत्रातियातनां भुक्त्वा पुनरेव प्रजायते । जायते म्रियते जंतु म्रियते जायते पुनः
अनाराधित गोविंदचरणे त्वीदृशी दशा । अनायासेन मरणं विनायासेन जीवनम्
अनाराधितगोविंदचरणस्य न जायते । धनं यदि भवेद्गेहे रक्षणात्तस्य किं फलम्
यदासौ कृष्यते याम्यैर्दूतैः किं धनमन्वियात् । तस्माद्द्विजातिसत्कार्यं द्रविणं सर्वसौख्यदम्
दानं स्वर्गस्य सोपानं दानं किल्बिषनाशनम् । गोविंदभक्तिभजनं महापुण्यविवर्द्धनम्
बलं यदि भवेन्मर्त्ये न वृथा तद्व्ययं चरेत् । हरेरग्रे नृत्यगीतं कुर्यादेवमतंद्रितः
यत्किंचिद्विद्यते पुंसां तच्च कृष्णे समर्पयेत् । कृष्णार्पितं कुशलदमन्यार्पितमसौख्यदम्
चक्षुर्भ्यां श्रीहरेरेव प्रतिमादिनिरूपणम् । श्रोत्राभ्यां कलयेत्कृष्ण गुणनामान्यहर्निशम्
जिह्वया हरिपादांबु स्वादितव्यं विचक्षणैः । घ्राणेनाघ्राय गोविंदपादाब्जतुलसीदलम्
त्वचा स्पृष्ट्वा हरेर्भक्तं मनसाध्याय तत्पदम् । कृतार्थो जायते जंतुर्नात्र कार्या विचारणा
तन्मना हि भवेत्प्राज्ञस्तथा स्यात्तद्गताशयः । तमेवांतेभ्येति लोको नात्र कार्या विचारणा
चेतसा चाप्यनुध्यातः स्वपदं यः प्रयच्छति । नारायणमनाद्यंतं न तं सेवेत को जनः
सतत नियतचित्तो विष्णुपादारविंदे वितरणमनुशक्ति प्रीतये तस्य कुर्यात् । नतिमतिरतिमस्यांघ्रिद्वये संविदध्यात्स हि खलु नरलोके पूज्यतामाप्नुयाच्च
सूत उवाच- एवं यन्महिमा लोके लोकनिस्तारकारणम् । तस्य विष्णोः परेशस्य नानाविग्रहधारिणः
एकं पुराणं रूपं वै तत्र पाद्मं परं महत् । ब्राह्मं मूर्धा हरेरेव हृदयं पद्मसंज्ञितम्
वैष्णवं दक्षिणो बाहुः शैवं वामो महेशितुः । ऊरू भागवतं प्रोक्तं नाभिः स्यान्नारदीयकम्
मार्कंडेयं च दक्षांघ्रिर्वामो ह्याग्नेयमुच्यते । भविष्यं दक्षिणो जानुर्विष्णोरेव महात्मनः
ब्रह्मवैवर्तसंज्ञं तु वामजानुरुदाहृतः । लैंगं ह गुल्फकं दक्षं वाराहं वामगुल्फकम्
स्कांदं पुराणं लोमानि त्वगस्य वामनं स्मृतम् । कौर्मं पृष्ठं समाख्यातं मात्स्यं मेदः प्रकीर्तितम्
मज्जा तु गारुडं प्रोक्तं ब्रह्मांडमस्थि गीयते । एवमेवाभवद्विष्णुः पुराणावयवो हरिः
हृदयं तत्र वै पाद्मं यच्छ्रुत्वामृतमश्नुते । पाद्ममेतत्पुराणं तु स्वयं देवोभवद्धरिः
यस्यैकाध्यायमध्याप्य सर्वैः पापैः प्रमुच्यते । तत्रादिमं स्वर्गमिदं सर्वपाद्मफलप्रदम्
स्वर्गखंडं समाकर्ण्य महापातकिनोपि ये । मुच्यंते तेपि पापेभ्यस्त्वचो जीर्णाद्यथोरगाः
अपि चेत्सुदुराचारः सर्वधर्म्मबहिष्कृतः । आदिस्वर्गं समाकर्ण्य यत्फलं समवाप्नुयात्