तत्र तौविधिवत्स्नात्वा सुमनो धूपदीपकैः । आनर्चतुर्भक्तियुक्तौ चंडिकां पुत्रकाम्यया
श्रद्धया पूजिता ताभ्यां दिनैः सप्तभिरंबिका । उवाच वाचा प्रत्यक्षं भूत्वा विशदमानसा
पार्वत्युवाच- भो भो वैश्य प्रसन्नास्मि भक्त्या सुदृढया तव । ददामि पुत्रं ते साधो यदर्थे यत्नवानसि
गच्छ त्वं मा विलंबस्व वनमैद्रं च खांडवम् । तत्र तीर्थं महापुण्यमिंद्रप्रस्थाख्यमुत्तमम्
निगमोद्बोधकं तत्र तीर्थं निखिलकामदम् । बृहस्पतिकृतं तत्र स्नाहि त्वं सुतवांछया
भविष्यति सुतस्तात तव स्नानेन तत्र हि । तत्र स्नात्वा मयाप्यंग लब्धः स्कंदः सुरारिहा
शिवशर्मोवाच- इत्याकर्ण्य वचो देव्याः पिता मम सहस्त्रिया । अत्राजगाम सत्तीर्थे सस्नौ च सुतवांछया
उपस्करवतीर्धेनूर्द्विजेभ्यः प्रददौ शतम् । देवान्पितॄंश्च संतर्प्य यथाविध्यत्र बुद्धिमान्
सप्तरात्रमुषित्वा तु दंपती यतमानसौ । जग्मतुः स्वगृहानिष्टलाभोत्फुल्लमुखांबुजौ
तस्मिन्नेवाभवद्गर्भो मासि मातुर्ममान्वहम् । व्यतीते नवमे मासि जातोऽहं दशमे शुभे
विष्णुशर्मन्यदुक्तं ते पुरावृत्तमिदं मया । दशाब्दद्वयमेवैतच्छ्रुतं सर्वं पितुर्मुखात्
एकदा क्षममालोक्य गृहकर्मणि मां पिता । गृहं मामर्पयामास विश्वाद्वैराग्यमाप्नुवन्
मां चोवाच स धर्मात्मा गोविंदासक्तमानसः । विनिंदन्विषयासक्तिं विष्णुभक्तिं स्तुवन्मुहुः
पितोवाच- सुमते वार्द्धकं प्राप्तं पलिताश्चिकुरा मम । गोविंदचरणांभोजं सेविष्ये साधुसेवितम्
तत्सैवया भवेत्स्वच्छं मनो यस्य च सुस्थिरम् । स पुमानात्मसंतुष्टो न किंचिदभिवांछति
निष्कामः सुखदुःखाभ्यां भुंजन्सुकृतदुष्कृते । प्राकृते तत्समाप्तौ च त्यजन्देहं भवत्यजः
तां वद्द्रव्यं गुणसुखं यावत्प्राप्तं न चित्सुखम् । तत्प्राप्तौ तद्भवेत्तुच्छं सुधाया इव तक्रकम्
हरेर्मायाबलवतीयं मोहयति देहिनम् । हितानि तं न जानाति स यथा मदिरामदः
प्रवृत्तिं च निवृत्तिं च विद्ययाविद्यया च सः । करोति स्वेच्छया काले बाललीलो हि स प्रभुः
वेदोदितं यदा कर्म क्रियते फलमिच्छता । प्रवृत्तिं सा परा तात तेषामर्पणमीश्वरे
यथा निर्दग्धाबीजानि न प्ररोहंति यत्नतः । यथा कर्माणि विश्वेशे निःकामेनार्पितानि तु
कर्मणां च लयो मोक्षः सुखदुःखप्रदायिनाम् । तदुत्पत्तिस्तु बंधः स्यादित्यसौ शास्त्रनिर्णयः
अतोऽहं कर्मवेदोक्तं कुर्वन्नाभिलषन्फलम् । पर्यटिष्यामि तीर्थेषु हृदि भक्ति दधद्धरेः
एवं प्रारब्धकर्माणि भुंजन्नान्यान्यतर्जयन्। हनिष्यामि जगद्रोगं पीत्वा सत्संगमौषधम्
शिवशर्मोवाच- एवमाकर्ण्य वचनं तस्याहं पितुरात्मनः । अवदं विष्णुशर्मस्त्वं तन्निशामय तत्वतः
वैश्यपुत्र उवाच- अयं जनो दुराराध्यः कथयिष्यति नो यशः । दुष्टकुटुंबादुद्विज्य निःसृत्य गत इत्ययम्
इयं विष्णुपदी तात भुवनत्रयपावनी । स्मृता हरत्यघं दूरात्कस्मादेनां विमुंचसि
पापकारी जनस्तात म्रियते मगधे तु यः । सोप्यस्तपापो गंगायां स्वर्याति त्यजमाशुभम्
पुत्राः षष्टिसहस्राणि सगरस्य महात्मनः । कपिलक्रोधनिर्दग्धा गतायत्स्पर्शनाद्दिवम्
तामिमां त्रिदिवश्रेणीं मुक्तेरपि विधायिनीम् । मुमुक्षुसेवितां तात मुक्त्वा मान्यत्र गम्यताम्