क्षुधितस्य द्विजस्यास्ये यत्किंचिद्दीयते यदि । प्रेत्य पीपूषधाराभिः सिंचते कल्पकोटिकम्
द्विजतुंडं महाक्षेत्रमनूषरमकंटकम् । तत्र चेदुप्यते किंचित्कोटिकोटिफलं लभेत्
सघृतं भोजनं चास्मै दत्त्वा कल्पं स मोदते । नानासुमिष्टमन्नं यो ददाति द्विजतुष्टये
तस्य लोका महाभोगाः कोटिकल्पांतमुक्तिदाः । ब्राह्मणं च पुरस्कृत्य ब्राह्मणेनानुकीर्तितम्
पुराणं शृणुयान्नित्यं महापापदवानलम् । पुराणं सर्वतीर्थेषु तीर्थं चाधिकमुच्यते
यस्यैकपादश्रवणाद्धरिरेव प्रसीदति । यथा सूर्यवपुर्भूत्वा प्रकाशाय चरेद्धरिः
सर्वेषां जगतामेव हरिरालोकहेतवे । तथैवांतःप्रकाशाय पुराणावयवो हरिः
विचरेदिह भूतेषु पुराणं पावनं परम् । तस्माद्यदि हरेः प्रीतेरुत्पादे धीयते मतिः
श्रोतव्यमनिशं पुंभिः पुराणं कृष्णरूपिणम् । विष्णुभक्तेन शांतेन श्रोतव्यमपि दुर्लभम्
पुराणाख्यानममलममलीकरणं परम् । यस्मिन्वेदार्थमाहृत्य हरिणा व्यासरूपिणा
पुराणं निर्मितं विप्र तस्मात्तत्परमो भवेत् । पुराणे निश्चितो धर्मो धर्मश्च केशवः स्वयम्
तस्मात्कृते पुराणे हि श्रुते विष्णुर्भवेदिति । साक्षात्स्वयं हरिर्विप्रः पुराणं च तथाविधम्
एतयोः संगमासाद्य हरिरेव भेवन्नरः । तथा गंगांबुसेकेन नाशयेत्किल्बिषं स्वकम्
केशवो द्रवरूपेण पापात्तारयते महीम् । वैष्णवो विष्णुभजनस्याकांक्षी यदि वर्तते
गंगांबुसेकममलममलीकरणं चरेत् । विष्णुभक्तिप्रदा देवी गंगा भुवि च गीयते
विष्णुरूपा हि सा गंगा लोकविस्तारकारिणी
ब्राह्मणेषु पुराणेषु गंगायां गोषु पिप्पले । नारायणधिया पुंभिर्भक्तिः कार्या ह्यहैतुकी
प्रत्यक्षविष्णुरूपा हि तत्वज्ञैर्निश्चिता अमी । तस्मात्सततमभ्यर्च्या विष्णुभक्त्यभिलाषिणा
विष्णौ भक्तिं विना नॄणां निष्फलं जन्म उच्यते । कलिकालपयोराशिं पापग्राहसमाकुलम्
विषयामज्जनावर्तं दुर्बोधफेनिलं परम् । महादुष्टजनव्याल महाभीमं भयानकम्
दुस्तरं च तरंत्येव हरिभक्तितरि स्थिताः । तस्माद्यतेत वै लोको विष्णुभक्तिप्रसाधने
किं सुखं लभते जंतुरसद्वार्तावधारणे । हरेरद्भुतलीलस्य लीलाख्यानेन सज्जते
तद्विचित्रकथालोके नानाविषयमिश्रिताः । श्रोतव्या यदि वै नॄणां विषये सज्जते मनः
निर्वाणे यदि वा चित्तं श्रोतव्या तदपि द्विजाः । हेलया श्रवणाच्चापि तस्य तुष्टो भवेद्धरिः
निष्क्रियोपि हृषीकेशो नानाकर्म चकार सः । शुश्रूषूणां हितार्थाय भक्तानां भक्तवत्सलः
न लभ्यते कर्मणापि वाजपेयशतादिना । राजसूयायुतेनापि यथा भक्त्या स लभ्यते
यत्पदं चेतसा सेव्यं सद्भिराचरितं मुहुः । भवाब्धितरणे सारमाश्रयध्वं हरेः पदम्
रे रे विषयसंलुब्धाः पामरा निष्ठुरा नराः । रौरवे हि किमात्मानमात्मना पातयिष्यथ
विना गोविंदसौम्यांघ्रिसेवनं मा गमिष्यति । अनायासेन दुःखानां तरणं यदि वांछथ
भजध्वं कृष्णचरणावपुनर्भवकारणे । कुत एवागतो मर्त्यः कुत एव पुनर्व्रजेत्