जनार्द्दनांघ्रिसेवा हि ह्यपुनर्भवदायिनी । नारीणां योनिसेवा हि योनिसंकटकारिणी
पुनःपुनः पतेद्योनौ यंत्रनिष्पाचितो यथा । पुनस्तामेवाभिलषेद्विद्यादस्य विडंबनम्
ऊर्ध्वबाहुरहं वच्मि शृणु मे परमं वचः । गोविंदे धेहि हृदयं न योनौ यातनाजुषि
नारीसंगं परित्यज्य यश्चापि परिवर्त्तते । पदेपदेश्वमेधस्य फलमाप्नोति मानवः
कुलांगना दैवयोगादूढा यदि नृणां सती । पुत्रमुत्पाद्य यस्तत्र तत्संगं परिवर्जयेत्
तस्य तुष्टो जगन्नाथो भवत्येव न संशयः । नारीसंगो हि धर्मज्ञैरसत्संगः प्रकीर्त्यते
तस्मिन्सति हरौ भक्तिः सुदृढा नैव जायते । सर्वसंगं परित्यज्य हरौ भक्तिं समाचरेत्
हरिभक्तिश्च लोकेत्र दुर्ल्लभा हि मता मम । हरौ यस्य भवेद्भक्तिः स कृतार्थो न संशयः
तत्तदेवाचरेत्कर्म हरिः प्रीणाति येन हि । तस्मिंस्तुष्टे जगत्तुष्टं प्रीणिते प्रीणितं जगत्
हरौ भक्तिं विना नॄणां वृथा जन्म प्रकीर्तितम् । ब्रह्मेशादि सुरा यस्य यजंते प्रीतिहेतवे
नारायणमनाव्यक्तं न तं सेवेत को जनः । तस्य माता महाभागा पिता तस्य महाकृती
जनार्द्दनपदद्वंद्वं हृदये येन धार्यते । जनार्दनजगद्वंद्य शरणागतवत्सल
इतीरयंति ये मर्त्या न तेषां निरये गतिः । ब्राह्मणा हि विशेषेण प्रत्यक्षं हरिरूपिणः
पूजयेयुर्यथायोगं हरिस्तेषां प्रसीदति । विष्णुर्ब्राह्मणरूपेण विचरेत्पृथिवीमिमाम्
ब्राह्मणेन विना कर्म्म सिद्धिं प्राप्नोति नैव हि । द्विजपादांबुभक्त्या यैः पीत्वा शिरसि चार्पितम्
तर्पिता पितरस्तेन आत्मापि किल तारितः । ब्राह्मणानां मुखे येन दत्तं मधुरमर्चितम्
साक्षात्कृष्णमुखे दत्तं तद्वै भुंक्ते हरिः स्वयम् । अहोतिदुर्ल्लभा लोका प्रत्यक्षे केशवे द्विजे
प्रतिमादिषु सेवंते तदभावे हि तत्क्रिया । ब्राह्मणानामधिष्ठानात्पृथ्वी धन्येति गीयते
तेषां पाणौ च यद्दत्तं हरिपाणौ तदर्पितम् । तेभ्यः कृतान्नमस्कारात्तिरस्कारो हि पाप्मताम्
मुच्यते ब्रह्महत्यादि पापेभ्यो विप्रवंदनात् । तस्मात्सतां समाराध्यो ब्राह्मणो विष्णुबुद्धितः
क्षुधितस्य द्विजस्यास्ये यत्किंचिद्दीयते यदि । प्रेत्य पीपूषधाराभिः सिंचते कल्पकोटिकम्
द्विजतुंडं महाक्षेत्रमनूषरमकंटकम् । तत्र चेदुप्यते किंचित्कोटिकोटिफलं लभेत्
सघृतं भोजनं चास्मै दत्त्वा कल्पं स मोदते । नानासुमिष्टमन्नं यो ददाति द्विजतुष्टये
तस्य लोका महाभोगाः कोटिकल्पांतमुक्तिदाः । ब्राह्मणं च पुरस्कृत्य ब्राह्मणेनानुकीर्तितम्
पुराणं शृणुयान्नित्यं महापापदवानलम् । पुराणं सर्वतीर्थेषु तीर्थं चाधिकमुच्यते
यस्यैकपादश्रवणाद्धरिरेव प्रसीदति । यथा सूर्यवपुर्भूत्वा प्रकाशाय चरेद्धरिः
सर्वेषां जगतामेव हरिरालोकहेतवे । तथैवांतःप्रकाशाय पुराणावयवो हरिः
विचरेदिह भूतेषु पुराणं पावनं परम् । तस्माद्यदि हरेः प्रीतेरुत्पादे धीयते मतिः
श्रोतव्यमनिशं पुंभिः पुराणं कृष्णरूपिणम् । विष्णुभक्तेन शांतेन श्रोतव्यमपि दुर्लभम्
पुराणाख्यानममलममलीकरणं परम् । यस्मिन्वेदार्थमाहृत्य हरिणा व्यासरूपिणा