तावद्विद्या प्रभवति तावज्ज्ञानं प्रवर्तते । तावत्सुनिर्मला मेधा सर्वशास्त्रविधारिणी
तावज्जपस्तपस्तावत्तावतीर्थनिषेवणम् । तावच्च गुरुशुश्रूषा तावद्धि तरणे मतिः
तावत्प्रबोधो भवति विवेकस्तावदेव हि । तावत्सतां संगरुचिस्तावत्पौराणलालसा
यावत्सीमंतिनी लोलनयनांदोलनं नहि । जनोपरि पतेद्विप्राः सर्वधर्मविलोपनम्
तत्र ये हरिपादाब्जमधुलेशप्रसादिताः । तेषां न नारीलोलाक्षिक्षेपणं हि प्रभुर्भवेत्
जन्मजन्म हृषीकेश सेवनं यैः कृतं द्विजाः । द्विजे दत्तं हुतं वह्नौ विरतिस्तत्र तत्र हि
नारीणां किल किं नाम सौंदर्य्यं परिचक्षते । भूषणानां च वस्त्राणां चाकचक्यं तदुच्यते
स्नेहात्मज्ञानरहितं नारीरूपं कुतः स्मृतम् । पूयमूत्रपुरीषासृक्त्वङ्मेदोस्थिवसान्वितम्
कलेवरं हि तन्नाम कुतः सौंदर्य्यमत्र हि । तदेवं पृथगाचिंत्य स्पृष्ट्वा स्नात्वा शुचिर्भवेत्
तैः संहितं शंरीरं हि दृश्यते सुंदरं जनैः । अहोतिदुर्दशा नॄणां दुर्दैव घटिता द्विजाः
कुचावृतेंगे पुरुषो नारी बुद्ध्वा प्रवर्त्तते । का नारी वा पुमान्को वा विचारे सति किंचन
तस्मात्सर्वात्मना साधुर्नारीसंगं विवर्जयेत् । को नाम नारीमासाद्य सिद्धिं प्राप्नोति भूतले
कामिनी कामिनीसंगि संगमित्यपि संत्यजेत् । तत्संगाद्रौरवमिति साक्षादेव प्रतीयते
अज्ञानाल्लोलुपा लोकास्तत्र दैवेन वंचिताः । साक्षान्नरककुंडेस्मिन्नारीयोनौ पचेन्नरः
यत एवागतः पृथ्व्यां तस्मिन्नेव पुना रमेत् । यतः प्रसरते नित्यं मूत्रं रेतो मलोत्थितम्
तत्रैव रमते लोकः कस्तस्मादशुचिर्भवेत् । तत्रातिकष्टं लोकेस्मिन्नहो दैवविडंबना
पुनः पुना रमेत्तत्र अहो निस्त्रपता नृणाम् । तस्माद्विचारयेद्धीमान्नारीदोषगणान्बहून्
मैथुनाद्बलहानिः स्यान्निद्राति तरुणायते । निद्रयापहृतज्ञानः स्वल्पायुर्जायते नरः
तस्मात्प्रयत्नतो धीमान्नारीं मृत्युमिवात्मनः । पश्येद्गोविंदपादाब्जे मनो वै रमयेद्बुधः
इहामुत्र सुखं तद्धि गोविंदपदसेवनम् । विहाय को महामूढो नारीपादं हि सेवते
जनार्द्दनांघ्रिसेवा हि ह्यपुनर्भवदायिनी । नारीणां योनिसेवा हि योनिसंकटकारिणी
पुनःपुनः पतेद्योनौ यंत्रनिष्पाचितो यथा । पुनस्तामेवाभिलषेद्विद्यादस्य विडंबनम्
ऊर्ध्वबाहुरहं वच्मि शृणु मे परमं वचः । गोविंदे धेहि हृदयं न योनौ यातनाजुषि
नारीसंगं परित्यज्य यश्चापि परिवर्त्तते । पदेपदेश्वमेधस्य फलमाप्नोति मानवः
कुलांगना दैवयोगादूढा यदि नृणां सती । पुत्रमुत्पाद्य यस्तत्र तत्संगं परिवर्जयेत्
तस्य तुष्टो जगन्नाथो भवत्येव न संशयः । नारीसंगो हि धर्मज्ञैरसत्संगः प्रकीर्त्यते
तस्मिन्सति हरौ भक्तिः सुदृढा नैव जायते । सर्वसंगं परित्यज्य हरौ भक्तिं समाचरेत्
हरिभक्तिश्च लोकेत्र दुर्ल्लभा हि मता मम । हरौ यस्य भवेद्भक्तिः स कृतार्थो न संशयः
तत्तदेवाचरेत्कर्म हरिः प्रीणाति येन हि । तस्मिंस्तुष्टे जगत्तुष्टं प्रीणिते प्रीणितं जगत्
हरौ भक्तिं विना नॄणां वृथा जन्म प्रकीर्तितम् । ब्रह्मेशादि सुरा यस्य यजंते प्रीतिहेतवे