मत्वा पृथक्त्वमात्मानं सर्वस्मादेव केवलम् । आनंदमक्षरं ज्ञानं ध्यायेत च ततः परम्
यस्माद्भवंति भूतानि यज्ज्ञात्वा नेह जायते । स तस्मादीश्वरो देवः परस्ताद्योधितिष्ठति
यदंतरे तद्गमनं शाश्वतं शिवमव्ययम् । य इदं स्वपरोक्षस्तु स देवः स्यान्महेश्वरः
व्रतानि यानि भिक्षूणां तथैवायं व्रतानि च । एकैकातिक्रमेणैव प्रायश्चित्तं विधीयते
उपेत्य च स्त्रियं कामात्प्रायश्चित्तं समाहितः । प्राणायामसमायुक्तं कुर्य्यात्सांतपनं शुचिः
ततश्चरेत नियमात्कृच्छ्रं संयतमानसः । पुनराश्रममागम्य चरेद्भिक्षुरतंद्रितः
न धर्मयुक्तमनृतं हिनस्तीति मनीषिणः । तथापि च न कर्तव्यः प्रसंगो ह्येष दारुणः
एकरात्रोपवासश्च प्राणायामशतं तथा । उक्त्वानृतं प्रकर्तव्यं यतिना धर्मलिप्सुना
परमापद्गतेनापि न कार्यं स्तेयमन्यतः । स्तेयादभ्यधिकः कश्चिन्नास्त्यधर्म इति स्मृतिः
हिंसा चैवापरा तृष्णा याच्ञात्मज्ञाननाशिका । यदेतद्द्रविणं नाम प्राणा ह्येते बहिश्चराः २७ द्रविण। स तस्य हरते प्राणान्यो यस्य हरते धनम् । एवं कृत्वा स दुष्टात्मा भिन्नवृत्तो व्रतच्युतः
भूयो निर्वेदमापन्नश्चरेद्भिक्षुरतंद्रितः । अकस्मादेव हिंसां तु यदि भिक्षुः समाचरेत्
कुर्यात्कृच्छ्रातिकृच्छ्रं तु चांद्रायणमथापि वा । स्कंदेतेंद्रियदौर्बल्यात्स्त्रियं दृष्ट्वा यतिर्यदि
तेन धारयितव्या वै प्राणायामास्तु षोडश । दिवास्कंदे त्रिरात्रं स्यात्प्राणायामशतं बुधाः
एकान्ने मधुमांसे च नवश्राद्धे तथैव च । प्रत्यक्षलवणे चोक्तं प्राजापत्यं विशोधनम्
ध्याननिष्ठस्य सततं नश्यते सर्वपातकम् । तस्मान्नारायणं ध्यात्वा तस्य ध्यानपरो भवेत्
यद्ब्रह्मणः परं ज्योतिः प्रविष्टाक्षरमव्ययम् । योंतरात्मा परं ब्रह्म स विज्ञेयो महेश्वरः
एष देवो महादेवः केवलः परमं शिवः । तदेवाक्षरमद्वैतं तदा नित्यं परं पदम्
तस्मान्महीयते देवे स्वधाम्नि ज्ञानसंज्ञिते । आत्मयोगात्परे तत्वे महादेवस्ततः स्मृतः
नान्यं देवं महादेवाद्व्यतिरिक्तं प्रपश्यति । तमेवात्मानमन्वेति यः स याति परं पदम्
मन्यंते ये स्वमात्मानं विभिन्नं परमेश्वरात् । न ते पश्यंति तं देवं वृथा तेषां परिश्रमः
एकमेव परं ब्रह्म विज्ञेयं तत्त्वमव्ययम् । स देवस्तु महादेवो नैतद्विज्ञाय बध्यते
तस्माद्यतेत नियतं यतिः संयतमानसः । ज्ञानयोगरतः शांतो महादेवपरायणः
एष वः कथितो विप्रा यतीनामाश्रमः शुभः । पितामहेन मुनिना विभुना पूर्वमीरितः
नापुत्रशिष्ययोगिभ्यो दद्यादेवमनुत्तमम् । ज्ञानं स्वयंभुवा प्रोक्तं यतिधर्म्माश्रयं शिवम्
इति यतिनियमानामेतदुक्तं विधानं सुरवरपरितोषे यद्भवेदेकहेतुः । न भवति पुनरेषामुद्भवो वा विनाशः प्रतिहितमनसो ये नित्यमेवाचरंति
इति श्रीपाद्मे महापुराणे स्वर्गखंडे षष्टितमोऽध्यायः
सूत उवाच- एवमुक्ता पुरा विप्रा व्यासेनामिततेजसा । एतावदुक्त्वा भगवान्व्यासः सत्यवतीसुतः
समाश्वास्य मुनीन्सर्वान्जगाम च यथागतम् । भवद्भ्यस्तु मया प्रोक्तं वर्णाश्रमविधानकम्
एवं कृत्वा प्रियो विष्णोर्भवत्येव न चान्यथा । रहस्यं तत्र वक्ष्यामि शृणुत द्विजसत्तमाः
ये चात्र कथिता धर्मा वर्णाश्रमनिबंधनाः । हरिभक्तिकलांशांश समाना न हि ते द्विजाः