निर्ममो निर्भयः शांतो निर्द्वंद्वः पर्णभोजनः । जीर्णकौपीनवासाः स्यान्नग्नो वा ध्यानतत्परः
ब्रह्मचारी जिताहारो ग्रामादन्नं समाहरेत् । अध्यात्मरतिरासीत निरपेक्षो निराशिषः
आत्मनैव सहायेन सुखार्थं विचरेदिह । नाभिनंदेत मरणं नाभिनंदेत जीवनम्
कालमेव प्रतीक्षेत निर्देशं भृतको यथा । नाध्येतव्यं न वर्तव्यं श्रोतव्यं न कदाचन
एवं ज्ञानपरो योगी ब्रह्मभूयाय कल्पते । एकवासाथ वा विद्वान्कौपीनाच्छादनोपि वा
मुंडी शिखी वाथ भवेत्त्रिदंडी निष्परिग्रहः । काषायवासाः सततं ध्यानयोगपरायणः
ग्रामांते वृक्षमूले वा वसेद्देवालयेपि वा । समः शत्रौ तथा मित्रे तथा मानापमानयोः
भैक्ष्येण वर्तयेन्नित्यं नैकान्नादी भवेत्क्वच्चित् । यस्तु मोहेन वान्यस्मादेकान्नादी भवेद्यतिः
न तस्य निष्कृतिः काचिद्धर्मशास्त्रेषु दृश्यते । रागद्वेषवियुक्तात्मा समलोष्टाश्मकांचनः
प्राणिहिंसानिवृत्तश्च मौनी स्यात्सर्वनिस्पृहः । दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत्
सत्यपूतां वदेद्वाणीं मनःपूतं समाचरेत् । नैकत्र निवसेद्देशे वर्षाभ्योन्यत्र भिक्षुकः
स्नात्वा शौचयुतो नित्यं कमंडलुकरः शुचिः । ब्रह्मचर्यरतो नित्यं वनवासरतो भवेत्
मोक्षशास्त्रेषु निरतो ब्रह्मसूत्री जितेंद्रियः । दंभाहंकारनिर्मुक्तो निंदापैशुन्यवर्जितः
आत्मज्ञानगुणोपेतो यदि मोक्षमवाप्नुयात् । अभ्यसेत्सततं देवं प्रणवाख्यं सनातनम्
स्नात्वाचम्य विधानेन शुचिर्देवालयादिषु । यज्ञोपवीती शांतात्मा कुशपाणिः समाहितः
धौतकाषायवसनो तस्मिञ्छन्नतनूरुहः । अधियज्ञं ब्रह्मजपेदाधिदैविकमेव च
आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् । पुत्रेषु चाथ निवसन्ब्रह्मचारी यतिर्मुनिः
वेदमेवाभ्यसेन्नित्यं स याति परमां गतिम् । अहिंसासत्यमस्तेयं ब्रह्मचर्यं तपः परम्
क्षमादया च संतोषो व्रतान्यस्य विशेषतः । वेदांतज्ञाननिष्ठो वा पंचयज्ञान्समाहितः
कुर्य्यादहरहः स्नात्वा भिक्षार्थे नैव तेन हि । होममंत्रान्जपेन्नित्यं कालेकाले समाहितः
स्वाध्यायं चान्वहं कुर्य्यात्सावित्रीं संध्ययोर्जपेत् । ध्यायीत सततं देवमेकांतं परमेश्वरम्
एकान्नं वर्जयेन्नित्यं कामं क्रोधं परिग्रहम् । एकवासा द्विवासा वा शिखी यज्ञोपवीतवान् । कमंडलुकरो विद्वांस्त्रिदंडो याति तत्परम्
इति श्रीपाद्मे महापुराणे स्वर्गखंडे यतिधर्मनिरूपणं नामैकोनषष्टितमोऽध्यायः
व्यास उवाच- एवं त्वाश्रमनिष्ठानां यतीनां नियतात्मनाम् । भैक्ष्येण वर्तनं प्रोक्तं फलमूलैरथापि वा
एककालं चरेद्भैक्ष्यं न प्रसज्येत विस्तरम् । भैक्ष्ये प्रसक्तो हि यतिर्विषयेष्वपि सज्जति
सप्तागारं चरेद्भैक्ष्यमलाभे न पुनश्चरेत् । गोदोहमात्रं तिष्ठेत कालं भिक्षुरधोमुखः
भिक्षेत्युक्त्वा सकृत्तूष्णीमादद्याद्वाग्यतः शुचिः । प्रक्ष्याल्य पाणी पादौ च समाचम्य यथाविधि
आदित्यं दर्शयित्वान्नं भुंजीत प्राङ्मुखो नरः । हुत्वा प्राणाहुतीः पंच ग्रासानष्टौ समाहितः
आचम्य देवं ब्रह्माणं ध्यायेत परमेश्वरम् । आलाबुदारुपात्रे च मृण्मयं वैणवं तथा
चत्वारि यतिपात्राणि मनुराह प्रजापतिः । प्राग्रात्रे मध्यरात्रे च पररात्रे तथैव च