यस्तु पत्न्या वनं गत्वा मैथुनं कामतश्चरेत् । तद्व्रतं तस्य लुप्येत प्रायश्चित्तीयते द्विजः
तत्र यो जायते गर्भो न स स्पृश्यो द्विजातिभिः । न हि वेदेधिकारोस्य तद्वंशेप्येवमेव हि
भूमौ शयीत सततं सावित्रीजप्यतत्परः । शरण्यः सर्वभूतानां सद्विभागपरः सदा
परिवादं मृषावादं निद्रालस्ये च वर्जयेत् । एकाग्निरनिकेतः स्यात्प्रोक्षितां भूमिमाश्रयेत्
मृगैः सह चरेद्दांतस्तैः सहैव च संवसेत् । शिलायां शर्करायां वा शयीत सुसमाहितः
सद्यः प्रक्षालको वा स्यान्माससंचयिकोपि वा । षण्मासनिचयो वापि समानिचय एव वा
नक्तं चान्नं समश्नीयाद्दिवा चाहृत्य शक्तितः । चतुर्थकालको वा स्यात्किं वाप्यष्टमकालिकः
चांद्रायणविधानैर्वा शुक्लेकृष्णे च वर्जयेत् । पक्षेपक्षे समश्नीयाद्यवागूं क्वथितां सकृत्
पुष्पमूलफलैर्वापि केवलैर्वर्तयेत्सदा । स्वाभाविकैः स्वयंशीर्णैर्वैखानसमते स्थितः
भूमौ वा परिवर्तेत तिष्ठेद्वा प्रपदैर्दिनम् । स्थानासनाभ्यां विहरेन्न क्वचिद्धैर्य्यमुत्सृजेत्
ग्रीष्मे पंचतपाश्च स्याद्वर्षास्वभ्रावकाशिकः । आर्द्रवासाश्च हेमंते क्रमशो वर्द्धयेत्तपः
उपस्पृशेत्त्रिषवणं पितृदेवांश्च तर्पयेत् । एकपादेन तिष्ठेत मरीचिं वा पिबेत्सदा
पंचाग्निधूमगो वा स्यादूष्मगः सोमपोपि वा । पयः पिबेच्छुक्लपक्षे कृष्णपक्षे तु गोमयम्
शीर्णपर्णाशनो वा स्यात्कृच्छ्रैर्वा वर्तयेत्सदा । योगाभ्यासरतश्च स्याद्रुद्राध्यायी भवेत्सदा
अथर्वशिरसोध्येता वेदांताभ्यासतत्परः । यमान्सेवेत सततं नियमांश्चाप्यतंद्रितः
अथ चाग्नीन्समारोप्य स्वात्मनि ध्यानतत्परः
अनग्निरनिकेतो वा मुनिर्मोक्षपरो भवेत् । तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत्
गृहमेधिषु चान्येषु द्विजेषु वनचारिषु । ग्रामादाहृत्य चाश्नीयादष्टौ ग्रासान्वने वसन्
प्रतिगृह्य पुटेनैव पाणिना शकलेन वा । विविधाश्चोपनिषद आत्मसंसिद्धये जपेत्
विद्याविशेषान्सावित्रीं रुद्राध्यायं तथैव च । महाप्रस्थानिकं वासौ कुर्य्यादनशनं तथा । अग्निप्रवेशमन्यद्वा ब्रह्मार्पणविधौ स्थितः
इति श्रीपाद्मे महापुराणे स्वर्गखंडे वानप्रस्थाश्रमाचारधर्मो नामाष्टपंचाशत्तमोऽध्यायः
व्यास उवाच- एवं वनाश्रमे स्थित्वा तृतीयं भागमायुषः । चतुर्थं चायुषो भागं संन्यासेन नयेत्क्रमात्
अग्नीनात्मनि संस्थाप्य द्विजः प्रव्रजितो भवेत् । योगाभ्यासरतः शांतो ब्रह्मविद्यापरायणः
यदा मनसि संपन्नं वैराग्यं सर्ववस्तुषु । तदा संन्यासमिच्छेच्च पतितः स्याद्विपर्यये
प्राजापत्यां निरूप्येष्टिमाग्नेयीमथवा पुनः । दांतः शुक्लकषायोसौ ब्रह्माश्रममुपाश्रयेत्
ज्ञानसंन्यासिनः केचिद्वेदसंन्यासिनोऽपरे । कर्मसंन्यासिनस्त्वन्ये त्रिविधाः परिकीर्तिताः
यः सर्वत्र विनिर्मुक्तो निर्द्वंद्वश्चैव निर्भयः । प्रोच्यते ज्ञानसंन्यासी आत्मन्येव व्यवस्थितः
वेदमेवाभ्यसेन्नित्यं निराशीर्निष्परिग्रहः । प्रोच्यते वेदसंन्यासी मुमुक्षुर्विजितेंद्रियः
यस्त्वग्निमात्मसाकृत्वा ब्रह्मार्पणपरो द्विजः । ज्ञेयः स कर्मसंन्यासी महायज्ञपरायणः
त्रयाणामपि चैतेषां ज्ञानी त्वभ्यधिको मतः । न तस्य विद्यते कार्यं न लिंगं वा विपश्चितः