स तेन कर्मणा पापी दहत्यासप्तमं कुलम् । यदि स्यादधिको विप्रः शीलविद्यादिभिः स्वयम्
तस्मै यत्नेन दातव्यमतिक्रम्य च सन्निधिम् । योर्चितं प्रतिगृह्णीयाद्दद्यादर्चितमेव च
तावुभौ गच्छतः स्वर्गं नरकं तु विपर्यये । न वार्यपि प्रयच्छेत नास्तिके हैतुकेपि च
न पाखंडेषु सर्वेषु नावेदविदिधर्मवित् । रूप्यं चैव हिरण्यं च गामश्वं पृथिवीं तिलान्
अविद्वान्प्रतिगृह्णीयाद्भस्मी भवति काष्ठवत् । द्विजातिभ्यो धनं लिप्सेत्प्रशस्तेभ्यो द्विजोतमः
अपि राजन्यवैश्याभ्यां न तु शूद्रात्कथंचन । वृत्तिसंकोचमन्विच्छेन्नेहेत धनविस्तरम्
धनलोभे प्रसक्तस्तु ब्राह्मण्यादेव हीयते । वेदानधीत्य सकलान्यज्ञांश्चावाप्य सर्वशः
न तां गतिमवाप्नोति संतोषाद्यामवाप्नुयात् । प्रतिग्रहरुचिर्न स्याच्छूद्रान्न तु समाहरेत्
स्थित्यर्थादधिकं गृह्णन्ब्राह्मणो यात्यधोगतिम् । यस्तु याति न संतोषं न स स्वर्गस्य भाजनम्
उद्वेजयति भूतानि यथा चौरस्तथैव सः । गुरुं भृत्यांश्चोज्जिहीर्षुस्तर्पयन्देवतातिथीन्
सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं ततः । एवं गृहस्थो युक्तात्मा देवतातिथिपूजकः
वर्तमानः संयतात्मा याति तत्परमं पदम् । पुत्रेषु भार्यां निक्षिप्य गत्वारण्यं तु तत्त्ववित्
एकाकी विचरेन्नित्यमुदासीनः समाहितः । एष वः कथितो धर्म्मो गृहस्थानां द्विजोत्तमाः । ज्ञात्वा तु तिष्ठेन्नियतं तथानुष्ठापयेद्द्विजान्
इति देवमनादिमेकमीशं गृहधर्मेण समर्चयेदजस्रम् । समतीत्य स सर्वभूतयोनिं प्रकृतिं याति परं न याति जन्म
व्यास उवाच- एवं गृहाश्रमे स्थित्वा द्वितीयं भागमायुषः । वानप्रस्थाश्रमं गच्छेत्सदारः साग्निरेव च
निक्षिप्य भार्यां पुत्रेषु गच्छेद्वनमथापि वा । दृष्ट्वापत्यस्य वापत्यं जर्जरीकृतविग्रहः
शुक्लपक्षस्य पूर्वाह्णे प्रशस्ते चोत्तरायणे । गत्वारण्यं नियमवांस्तपः कुर्यात्समाहितः
फलमूलानि पूतानि नित्यमाहारमाहरेत् । यदाहारो भवेत्तेन पूजयेत्पितृदेवताः
पूजयेदतिथिं नित्यं स्नात्वा चाभ्यर्चयेत्सुरान् । गृहादादाय चाश्नीयादष्टौ ग्रासान्समाहितः
जटाश्च बिभृयान्नित्यं नखरोमाणि नोत्सृजेत् । स्वाध्यायं सर्वथा कुर्यान्नियच्छेद्वाचमन्यतः
अग्निहोत्रं च जुहुयात्पंचयज्ञान्समाचरेत् । उत्पन्नैर्विविधैर्मेध्यैः शाकमूलफलेन वा
चीरवासा भवेन्नित्यं स्नायात्त्रिषवणं शुचिः । सर्वभूतानुकंपश्च प्रतिग्रहविवर्जितः
दर्शेन पौर्णमासेन यजेत नियतं द्विजः । ऋत्विष्ट्याग्रयणे चैव चातुर्मास्यानि कारयेत्
उत्तरायणं च क्रमशो दक्षिणायनमेव च । वासंतशारदैर्मेद्ध्यैरुत्पन्नैः स्वयमाहृतैः
पुरोडाशांश्चरूंश्चैव विधिवन्निर्वपेत्पृथक् । देवताभ्यः पितृभ्यश्च दत्त्वा मेध्यतरं हविः
शेषं समुपभुंजीत लवणं च स्वयंकृतम् । वर्ज्जयेन्मद्यमांसानि भौमानि कवकानि च
भूस्तृणं शष्पकं चैव श्लेष्मातक फलानि च । न फालकृष्टमश्नीयादुत्सृष्टमपि केनचित्
न ग्रामजातान्यार्तोपि पुष्पाणि च फलानि च । श्रावणेनैव विधिना वह्निं परिचरेत्सदा
न द्रुह्येत्सर्वभूतानि निर्द्वंद्वो निर्भयो भवेत् । न नक्तं किंचिदश्नीयाद्रात्रौ ध्यानपरो भवेत्
जितेंद्रियो जितक्रोधस्तत्त्वज्ञानविचिंतकः । ब्रह्मचारी भवेन्नित्यं न पत्नीमपि संश्रयेत्