ततोऽश्वपालमाहूय यत्नतस्तं निरूप्य च । विसर्जितसभालोको गृहांतरमगान्नृपः
अनेकधा समापृष्टो महीपालं रंणांगणे । शस्त्रव्रणकिणश्रेणीभूषणं सत्वसन्निभम्
एकदा मृगयां खेलन्कुतूहलरसात्मना । तमारुह्य महीपालो वनं प्रति विवेश ह
विसृज्य सैनिकान्पृष्टे धावतः परितोऽखिलान् । आकृष्यमाणो हरिणैः पिपासाकुलितोऽभवत्
तत उत्तीर्य तुरगाज्जलमन्वेषयन् नृपः । बध्वाश्वं तरुशाखायामारुरोह शिलां नृपः
गीतापंचदशाध्यायश्लोकार्द्धलिखितं ततः । पातितं मरुता तत्र यत्र खंडे विलोकयत्
पत्रं वाचयतो राज्ञः श्रुत्वा गीताक्षरावलीम् । ततो मुक्तिपदं लेभे तुरगस्त्वरयाऽपतत्
ततो ग्रंथिं समाच्छिद्य पल्याणवतार्य च । उत्थापमानस्तुरगो राज्ञा नोत्थितवान्मृतः
ततः सरभभेरुंडो नृपमाभाष्य सुस्वरम् । दिव्यं विमानमारुह्य जगाम त्रिदशालयम्
ततो गिरिं समारुह्य ददर्शाश्रममुत्तमम् । पुन्नागकदलीचूतनारिकेलसमन्वितम्
द्राक्षेक्षुवाटिकापूगनागकेसरचंपकम् । खेलत्करभसारंगं नृत्यत्केकिकुलं नृपः
प्रणिपत्य द्विजन्मानमुटजाभ्यंतरस्थितम् । पप्रच्छ परया भक्त्या मुक्तसंसारवासनात्
तुरगो निरगात्स्वर्गं हेतुना केन मे वद । इत्याकर्ण्य वचो राज्ञो द्विजन्मा वाचमूचिवान्
कालेन बहुना प्रेत्य तत्पापात्तुरगोऽभवत् । अथ पंचदशाध्यायश्लोकार्द्धं लिखितं क्वचित्
ततो वाचयतः श्रुत्वा निरगात्तुरगो दिवम् । ततः समागतैस्तत्र परिवारजनैर्वृतः
प्रणिपत्य द्विजन्मानं हृष्टरोमा विनिर्गतः । पत्रं तदेव लिखितं गीतापंचदशाक्षरम्
वाचयन्स महीपालो हर्षसंफुल्ललोचनः । अभिषिच्य निजं पुत्रं मंत्रविन्मंत्रिभिः समम्
सिंहासने सिंहबलं मुक्तिमाप विशुद्धधीः
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे गीतामाहात्म्ये एकोननवत्यधिकशततमोऽध्यायः
शिवशर्मोवाच- विष्णुशर्मंस्ततो वैश्यः शरभः सह भार्यया । नीत्वा पूजोपकरणं ययौ श्रीचंडिकालयम्
तत्र तौविधिवत्स्नात्वा सुमनो धूपदीपकैः । आनर्चतुर्भक्तियुक्तौ चंडिकां पुत्रकाम्यया
श्रद्धया पूजिता ताभ्यां दिनैः सप्तभिरंबिका । उवाच वाचा प्रत्यक्षं भूत्वा विशदमानसा
पार्वत्युवाच- भो भो वैश्य प्रसन्नास्मि भक्त्या सुदृढया तव । ददामि पुत्रं ते साधो यदर्थे यत्नवानसि
गच्छ त्वं मा विलंबस्व वनमैद्रं च खांडवम् । तत्र तीर्थं महापुण्यमिंद्रप्रस्थाख्यमुत्तमम्
निगमोद्बोधकं तत्र तीर्थं निखिलकामदम् । बृहस्पतिकृतं तत्र स्नाहि त्वं सुतवांछया
भविष्यति सुतस्तात तव स्नानेन तत्र हि । तत्र स्नात्वा मयाप्यंग लब्धः स्कंदः सुरारिहा
शिवशर्मोवाच- इत्याकर्ण्य वचो देव्याः पिता मम सहस्त्रिया । अत्राजगाम सत्तीर्थे सस्नौ च सुतवांछया
उपस्करवतीर्धेनूर्द्विजेभ्यः प्रददौ शतम् । देवान्पितॄंश्च संतर्प्य यथाविध्यत्र बुद्धिमान्
सप्तरात्रमुषित्वा तु दंपती यतमानसौ । जग्मतुः स्वगृहानिष्टलाभोत्फुल्लमुखांबुजौ
तस्मिन्नेवाभवद्गर्भो मासि मातुर्ममान्वहम् । व्यतीते नवमे मासि जातोऽहं दशमे शुभे